________________
फक्किकारत्नमञ्जूषायाम्ति सूत्रं व्यर्थमित्यभिप्रायेण शङ्कते-तनिमित्तस्यैवेति किमिति । अवयवद्वारा समुदाये प्रश्नः । अर्थात्सूत्रमेव किमर्थमिति प्रष्टुराशयः, समाधत्ते, भोयत इति । आपूर्वका. द्वेनः कर्मणि लटि यकि संप्रसारणे पूर्वरूपे आङा सहादूगुणे च रूपसिद्धिः । अत्र धातोरि. त्यस्याभावे 'वान्तोयोति वान्तादेशे रूपासिद्धिः । धातोरित्यस्य सत्त्वे तु न वान्तादेशप्राप्तिः यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तहि यादिप्रत्ययनिमित्तस्यैव धातोरेच इति नियमेन तद्वयावृत्तः । नन्वन्तरङ्गवान्तादेशदृष्टया बहिरङ्गगुणस्यासिद्धत्वेन वान्तादेशाप्राप्त्या नावश्यक तत्सूत्रमित्याह-औयत इति । वेनः कर्मणि लङि यकि सम्प्रसारणे पूर्वरूपे आडागमे 'आटश्च' इति वृद्धौ रूपसिद्धिः । अत्र वान्तादेशे तदसिद्धिरिति कर्तव्यमेव सूत्रमिति भावः ॥
ननु शब्दशास्त्रे पक्षद्वयं पदसंस्कारपक्षो वाक्यसंस्कारपक्षश्च । तत्र परस्परनिरपेक्षाणि पदानि संस्क्रियन्ते यत्रासौ पदसंस्कारपक्षः बाहुलकादधिकरणे घञ् । एवं वाक्यात्मप्तिङ. न्तचयरूपादुद्धत्य पदानि संस्क्रियन्ते यत्रासौ वाक्यसंस्कारपक्षः । उक्तञ्च भाष्ये वाक्या दुद्धत्य पदान्यन्वाख्यायन्त इति, तथा च-पदसंस्कारपक्षे कानि सन्तीत्यनयोः पृथनिष्प. नत्वात् 'अचः परस्मिन्नि' त्यस्याप्राप्त्या यणः शङ्का नोदयते । वाक्यसंस्कारपक्षे तु कानि सन्तीति वाक्ये प्रक्रियाक्रमेण पूर्व किम् शब्दस्तदुत्तरं जस् ततोऽस्धातुस्तदुत्तरं झीति किमः कादेशे जसः श्यादेशे नुमि दीयं च कानीत्यस्य सिद्धिः, अस् धातोः 'इनसोरल्लोप' इत्यल्लोपे 'झोऽन्त' इति झेरन्तादेशे सन्तीत्यस्य सिद्धिः। एवञ्च स्थानिभूतादकारात्पूर्वत्वेन दृष्टस्येकारस्य यणि कर्तव्येऽचः परस्मिन्निति स्थानिवत्वेनाकारस्य सद्भावादस्त्येव यणः प्रसक्तिः । नचात्र पक्षेऽपि विनिगमकाभावात्पूर्व सन्तीत्येव संसाध्य पश्चात्कानीत्यस्य संसाधने इकारस्याचः पूर्वत्वेन इष्टत्वाभावात्स्थानिवत्वाप्रसक्त्या नोक्तदोष इति वाच्यम् । पूर्वोपस्थितनिमित्तरूपान्तरङ्गत्वमादायान्तरङ्गाणां पूर्व प्रवृत्तिरिति कानीत्यस्यैव प्राक साधनादुक्तदोषस्य तादवस्थ्यादित्याशयेनाह-कानि सन्तीत्यादि । 'न पदान्त' सुत्रेण पदान्तविधौ स्थानिवत्वनिषेधान्न यणापत्तिरूपोक्तदोष इति भावः ।।
ननु 'उरण रपर' इत्यस्याद्गुण इत्यनेन सहैकवाक्यत्वेनान्वयादवर्णाहकारेऽचि परे पूर्वपरयोः स्थाने प्रसज्यमान एव गुणोऽकारो परो भवतीत्यर्थे स्थान्यादेशयोरान्तरतम्या. भावादपरत्वाप्रसक्तौ कृष्णद्धिरित्यादि न सिद्धयेदत आह-तत्रान्तरतम्योदिति । अरित्यम्य रेफशिरस्कस्य रेफद्वारा ऋकारेण स्थानसाम्यादिति तदर्थः । एतयोग्नान्तर्यामेवान्तर्यमिति भाष्याच साम्यम्बोध्यम् । नच कृष्णद्धिरित्यादौ पूर्वपरयोः स्थानित्वेन ऋकारस्यैव स्थानित्वाभावाद्रपरत्वं न स्यादिति वाच्यम् । पूर्वपरयोरिति द्विवचननिर्देशेन सहितयोरवयववोरेव स्थानित्वात् । उक्तं हि भाष्ये यो हि उभयोः स्थाने भवति लभतेऽ. सावन्यतरतो व्यपदेशमिति । अत एव द्वयोः स्थानिनोवादेशौ माभूतामित्येकग्रहणं कृतम् । वस्तुतस्तु गुणरूपविधेयगतैकत्वसंख्याविवक्षणात्पूर्वपरयोरुभयोरेकवाक्यतयैव विधेयान्वयादनयोः पूलयोः कटं कुर्वित्यादाविवोभयसम्बन्ध्येकविधेयस्य प्रतीतेरेकग्रहणं स्पष्टार्थ. मित्यन्यत् । नच रलपराणामादेशानाम्विधाने सूत्रं व्यर्थमिति वाच्यम् । 'आप ज्ञपधामीत्। 'भृमामिदि' त्यादौ दोषापत्तेवारत्वादिति दिक् ॥
Aho ! Shrutgyanam