________________
अथाच्सन्धिप्रकरणम् । मिति मन्त्रे तकारस्य द्वित्ववैकल्पिकत्वमुदाहृतम्भाष्ये । एवञ्च धात्रंश इत्यत्र द्वित्वन्न भवतीति कस्यचिदुक्तिरतीवासंगतेति बोध्यम् । नच निषेधविकल्पे विधिविकल्पो भवतीत्यस्य फलितत्वादनचि चेति सूत्रेणैव सर्वत्र द्वित्वसिद्धौ व्यथं सूत्रत्रयोपादानमिति वा च्यम् । मतभेदप्राप्तव्यवस्थासूचनार्थमावश्यकत्वादिति दिक् ॥
ननु वा हतजग्धयोरिति व्यर्थ द्वित्वस्य 'अनचि चेत्यनेनैव सिद्धत्वादिति चेन्न । पुत्रस्य द्वित्वं क्तान्ते चेद्धतजग्धयोरेवाक्रोश एवेति नियमार्थमावश्यकत्वात । तत्फलन्तु पु. त्रवित्तीत्यादौ द्वित्वाभावरूपम्बोध्यम् । नच पुत्रहतीत्यादौ हतशब्दपरत्वाभावेन द्वित्वं न स्यादिति वाच्यम् । (१)लिङ्गविशिष्टपरिभाषया हतशब्दपरत्वेन द्वित्वप्रवृत्तरिति भावः ॥
आदित्यो देवतेति । अदितेरादित्यस्य वाऽपत्यमादित्यः आदित्यशब्दाहेवताथें 'दित्यदित्यादित्यपत्युत्तरपदापण्य' इति ण्यप्रत्ययः 'यस्येति चे' त्यकारलोपे 'हलो यमामि' ति यलोपे आदित्यमित्येकयकारं रूपं सिध्यतीति भावः ॥ __ ननु गम्यूतिरित्यादौ 'लोपःशाकल्यस्ये' त्यनेन 'हलि सर्वेषामि' त्यनेन वा वलोपः स्यादित्याह-वान्त इत्यत्रेति । अयम्भावः, लुप्तनिर्दिष्टो वकार इति भाष्यात्सूत्रे 'लोपो व्योर्चली' ति लोपेन व कारः प्रश्लिष्यते तस्य प्रक्लिष्ट लुन वकारस्य वात्तिकेऽनुवृत्या युति शब्दे परे श्रूयमाणवकारान्त आदेशः स्यादिति तदर्थः सम्पन्नः। एवञ्च नोक्तप्रयोगे वकार. लोपप्रसक्तिः । नच गव्यं नाव्यमित्यादौ वलोपाभावाय सूत्रेऽपि प्रश्लेषल्यावश्यकत्वमिति वाच्यम् । तत्र यकारे पूर्वस्य भत्वात्पदत्वाभावेन सुतरां लोपाप्राप्तः । नच गव्यमिच्छति गव्यतीत्यादौ लोपाभावार्थमन्तु सूत्रे प्रश्लेष इति वाच्यम् । 'न: क्ये' इति नियमेन तत्र पदत्वासम्भवात् , एवं तर्हि वाति के एत्र प्रश्लेषफलमित्याशयेनाह-छकाराद्वेति । नच 'लोपो व्योरि ति सूत्रे वकारस्य भाष्यता प्रत्यारुपातत्वाल्लोपाप्राप्त्या प्रश्लेषो नाव. श्यक इति वाच्यम् । वलोपस्य लौकिकोदाहरणविषयत्वन्नास्तीति भाष्याभिप्रायवर्णनेना. दोषात् । अत एव 'इको गुणेति' सूत्रे 'अतोलान्ते' त्यत्र लुप्तनिर्दिष्टो वकार इति भाष्योक्तं सन्तमिति । नचैवं गव्यूतौ वकारोच्चारणस्य चरितार्थत्वेन विष्णवे इत्यत्र (२)वकारलोपः कुतो नेति चेन्मैवम् । छन्दसि दृष्टस्यैवानुविधानेन गव्यतिरित्यत्र लोपा. प्राप्त्या तत्रोच्चारणसामर्थ्यादेव लोपाप्राप्तः । अध्वपरिमाणेऽपि गव्य नौ न वलोपस्तस्य संज्ञाशब्दत्वेन संज्ञात्वभङ्गापत्तेः । संज्ञात्वभङ्गभियैव रघुनाथेति संज्ञाशब्दे नित्यमपि णत्वन्न भवतीति भावः ॥
ननु (३)लव्यमित्यादौ 'वान्तोयी' त्यनेनैव वान्तादेशे सिद्धे 'धातोस्तनिमित्तस्यैथे।
(१) लिङ्गविशिष्टपरिभाषयेति । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति परिभाषास्वरूपम् । सामान्यरूपेण विशेषरूपेण वो प्रातिपदिकबोधकशब्दग्रहणे सति लिङ्गबोधकप्रत्ययविशिष्टस्यापि तेन ग्रहणं बोध्यम् । अपिना केवलस्यापीति तदर्थः । समानाधिकरणाधिकारस्थे कुमारश्रम गादिभिरिति सूत्रे स्त्रीलिङ्गमगादिभिश्व कुमारीशब्दस्यैव सामानाधिकरण्यं नतु कुमारशब्दस्येति व्यर्थ: श्रमणादिशब्दो ज्ञापकः ।
(२) *वकारेति* । 'तस्य लोप' इति सूत्रेण ।।
(३) *लव्यमिति* । लुनातेरचो यत् । सार्वधातुकार्द्धधातुकयोरिति गुणः । आदिपदेनाs वश्यलाव्यमित्यस्य संग्रहः । अत्र लुनातेः 'ओरावश्यके' इति ण्यत् ।
Aho! Shrutgyanam