________________
फक्किकारत्नमञ्जूषायाम्---
ग्रहणस्योक्तपरिभाषया निषेधकरणाद् 'गुणा अभेदका' इति पक्षेऽपि न यणा सवर्णग्रहणमिति दिक् ॥
ननु सधी उपास्य इत्यत्र यणादेशे कृते 'अनचिच' इति धकारस्य द्वित्वन्न स्याद्यका• रस्य स्थानिवत्त्वेनापरत्वादनचीति निषेधप्रवृत्तरिति चेन्न । अनल्विधाविति स्थानिवत्त्व. निषेधात् । तथा हि-अनल्विधावित्यस्य द्विविधोऽर्थः-अल्त्वव्याप्यधर्मावच्छिन्नस्थानितानिरूपितादेशतावद्धम्मिकारोपप्रकारीभूतधर्मावच्छिन्नोद्देश्यतानिरूपकविधौ स्थानिवत्व. न्नेत्येको नव्यमतसिद्धः । स्थान्यवयवाल्वृत्ती योऽल्त्वव्याप्यो धर्मस्तदाश्रयविधौ न स्थानिवदिति द्वितीयः प्राचीनसम्मतः । नच 'अचः परस्मिन्निति स्थानिवत्वेऽपरत्वस्य तादवस्थ्येन कथं द्वित्वमिति वाच्यम् । 'न पदान्त' सूत्रेण धकारस्य द्विवंचने कर्त्तव्ये स्थानिवत्वस्य निषेधकरणादित्याशयेनाह-इति धकारस्य द्वित्वमिति । ननु सकारविसर्गाणां द्वित्वे कृतेऽधिकरूपस्य सम्भवाचत्वारीति कथनमयुक्तमिति चेन्न । धकारयकारयोद्वित्वविकल्पाञ्चत्वारीति ग्रन्थकर्तुराशयादित्याह-द्वित्वविकल्पाश्चत्वारि रूपा. णीति । नचान्तरङ्गाद्वित्वदृष्टया बहिरङ्गयणोऽसिद्धत्वेन द्वित्वं दुर्लभमिति वाच्यम् । अन्तरङ्गपरिभाषायास्त्रिपाद्यामप्रवृत्तः । नच कार्यकालपक्षे त्रिपाद्यामपि तत्प्रवृत्तिरिति वाच्यम् । एकतरपक्षेण लक्ष्यसिद्धौ पक्षान्तरमदलम्ब्य दोषदानस्य भाष्ये क्वाप्यदृष्टत्वात्। अत एव भाष्ये दध्यत्रेत्युदाहरणं 'यणो मयो द्वे वाच्ये' इत्यस्य दत्तमित्याहुः प्राञ्चः । अन्तरङ्ग परिभाषाया 'वाह ऊ' इति सूत्रस्थोट्ग्रहणज्ञापकसिद्धत्वात्सपादसप्ताध्यायीस्थ. त्वेन तदृष्टया त्रिपाद्या असिद्धत्वेन नात्र कार्यकालपक्षेऽपि तत्प्रवृत्तिः । अत एव 'तस्य दोषः संयोगादीति वार्तिकस्य साफल्यम् । अन्यथाऽन्तरङ्गसंयोगादिलोपदृष्टया बहिरङ्गयणादेरसिद्धत्वेनैव चक्री अत्रेत्यादिसिद्धौ वात्तिकं स्पष्टमेव निष्फलं स्यादिति नव्याः ॥
सुद्ध्युपास्य इति । ननु 'इकोऽसवणे शाकल्यस्येति प्रकृतिभावे कथं ? यणि ति चेन्न । 'न समासे' इत्यनेन समासे तनिषेधात् । नच नित्यसमास एवं तनिषेध इति वाच्यम् । भाष्यकृता नित्यग्रहणस्य प्रत्याख्यातत्वात् यथोत्तरं मुनीनां प्रामाण्यात् ।
ननु ध्यायतेः सम्प्रसारणेन सुधी शब्दस्य निष्पन्नत्वात् 'सम्प्रसारणाच' इति पूर्वरूपापत्त्या सर्वथा यणो दुर्लभत्वमेव तत्रेति चेन्न । सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणमिति वार्तिकेन तदप्राप्तः सम्प्रसारणस्थानिकादेशस्यासम्प्रसारणत्वाञ्चेति भावः ।
ननु 'न भूसधियोः' इति निषेधस्य जागरूकत्वात्सद्ध्युपास्य इत्यत्र कथमिको यण चीत्यस्य प्रवृत्तिरिति चेन्न । अन्तरङ्गत्वेन प्रत्यये परत एवोक्तनिषेधप्रवृत्तेः। (१)( अन. रस्येति न्यायेन 'एरनेकाच' 'ओ:सुपी' त्यनयोरेव निषेधकरणाचेति दिक-धात्रंश इति । अत्र 'दीर्घादाचार्याणामि' त्यनेन तकारस्य द्वित्वम् । यत्तूक्तसूत्रे आचार्यग्रह. णस्य पूजार्थकत्वान्नित्य एव निषेध एवञ्च द्वित्वन्नेति तन्न । पूजार्थतायाः प्रामाणिकैरनुतत्वात् । 'त्रिप्रभृतिषु शाकटायनस्ये त्पत्र शाकटायनग्रह गस्यापि पूजार्थकत्वापत्तेश्च । नचेष्टापत्तिः । संस्कत्तेति त्रिसकारपरकैयटहरदत्तादिग्रन्थविरोधात् । अत एव 'आत्वा रथ
(१)*अनन्तरस्येति । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति न्यायस्वरूपम् ।
Aho ! Shrutgyanam