________________
श्रथाच्सन्धिप्रकरणम् ।
अथ परिभाषाप्रकरणम् ।
ननु 'आदेः परस्य' इति परग्रहणघटितसूत्रकरणे योगविभागाङ्गीकारे च गौरवबाहुल्येन 'तस्मादित्युत्तरस्यादेरि' त्येव न्यासः करणीय इति शङ्कोत्थितौ समाधत्ते - अष्टाभ्य श्रशित्यादाविति । अयमभिप्रायः, परग्रहणयोगविभागाकरणलाघवायोक्तन्यासाभ्युपशब्दासि आत्वे अष्टा अस् इति स्थितौ 'अनेकाल शिदि' त्यनेन 'आदेः परस्य ' इत्यस्य परत्वाद्वाधाजापत्यादेरेवादेशापत्या विभक्तिसकारस्य रुत्वे विसर्गे च कृतेऽष्टावितीष्टरूपस्य सिद्धिर्न स्यात् । राद्धान्ते 'आदेः परस्ये' त्यपेक्षया अनेकालू शिदित्यस्य परत्वादनेन तस्य बाधे जस औशादेशे रूपमिष्टं सिद्ध्यतीति । नचोक्तन्यासस्य 'अनेका शिदि' - त्यतः प्राक् पाठे नोक्तदोषोद्घोष इति वाच्यम् । 'तस्मादित्युत्तरस्ये' तिवत् 'आदेः परस्ये' त्यस्याप्यागमविषये प्रवृत्या 'आजसेरसृगि त्यनेनाकारस्यालगागमे परसकारेस्य संयोगान्तलोपे पूर्वस्य रुत्वे विसर्गे च देवासः ब्राह्मणास इत्यसिद्धेः । नच तत्र 'असटी' ति न्यासे न दोष इति वाच्यम् 'अश्वक्षीरवृषलवणानामि' त्यनेनाखडापत्त्याऽश्वस्यतीत्यस्य सिद्ध्यनापत्तेः । नचात्र क्यचोऽविधाने न दोष इति वाच्यम् । तथा सति 'क्यचि चे' त्यनेनेत्वस्य दुर्वारत्वात् । न च 'क्यच्यगि' तिन्यासे नोक्तदोष इति वाच्यम् । बहुलाघवाभावादिति संक्षेपः ॥
इति परिभाषाप्रकरणम् ।
अथाच्सन्धिप्रकरणम् ।
ननु व्यक्तिपक्षे उच्चारित एव शब्दः प्रत्यायको नानुच्चारित इत्यणुदित्सूत्रभाष्योक्तेः वर्णसमाम्नाये हस्वानामेव पाठादिकपदोपस्थाप्येकारादिभिर्दीर्घादीनामग्रहणात्धी उपास्य इत्यादौ 'इको यणचि' इति यणादेशो न स्यादतः प्रत्याहारग्रहणेषु तद्वाच्यवाच्ये निरूढ़ा लक्षणा बोध्या । प्रत्याहारवाच्याकारादिवाच्ये दीर्घादौ लक्षणेति तदर्थः । अत्र प्रमाणम् ' दोघीज्जसि च' 'ल्वादिभ्य' इत्यादिनिर्देश एव । एवचेकपदेन षट्षष्टेर्ग्रहणं यण्पदेन च सप्तानामिति न यथासंख्य सम्भवः । नच लक्ष्यार्थबोधात्प्राग्भाविनं शक्यार्थबोधमा - दाय यथासंख्यमस्त्विति वाच्यम् । ऋकारॡकारयोर्मिथः सवर्णत्वेन ताभ्यां प्रत्येकं त्रिंशदुपस्थितौ वर्णस्थाने रेफस्य ऋवर्णस्थाने लकारस्य च प्रसङ्गापत्तेर्यथासंख्यसूत्रेण निर्वाहो नास्ति, किन्तु 'स्थानेऽन्तरतम' इति सूत्रेणैवेत्याशयेनाह - स्थानत श्रान्तदिति । जातिपक्षे यथासंख्यसूत्रेणापि निवार्ह इति स्पष्टं 'स्थानेऽन्तरतम' इत्यत्र भाष्ये । (१) भाव्यमानपरिभाषया यणा सवर्णग्रहणाऽप्रसक्त्याऽनुनासिकस्थाने निरनुनासिक एव यणिति बोध्यम् । अणुदित्सूत्रेण जातिपक्षेण गुणानामभेदकत्वेन च प्राप्तस्यापि सवर्ण
(१) * भाव्यमानेति । भाव्यमानेन सवर्णानां न ग्रहणमिति परिभाषास्वरूपम् । अणुदित्सुत्रेऽप्रत्यय इत्यनेन सामर्थ्यात्सूत्रप्राप्तं जातिपक्षेण प्राप्तं गुणाभेदकत्वेन च प्राप्तं सवर्णग्रहणं विधीयमानेन न भवतीत्यर्थः । अप्रत्यय इति प्रतिषेध इमां परिभाषां ज्ञापयति । ज्याद ईयस इत्येवान्तर्यतो दीर्घे सिद्धे ज्यादिति दीर्घोच्चारणमपि ज्ञापयतीति बोध्यम् ।
Aho! Shrutgyanam