________________
फक्किका रत्नमञ्जूषायाम्-
adraौकारौकारयोस्तुल्यत्वेन 'तुल्यास्य प्रयत्नं सवर्णम्' इत्यनेन परस्परं सावण्यं स्यादित्याह - ऐ औौजिति सूत्रारम्भसामर्थ्यादिति । उक्तवर्णद्वयस्य मिथः सवर्णत्वे एकारेणैकारस्यैवमो कारेणौकारस्य ग्रहणे सिद्धे पृथगैऔजिति सूत्रं व्यथं सत्तयोः सवर्णाभावत्वं ज्ञापयतीति तदाशयः । 'एचोऽयवायावः' इत्यत्र प्रत्याहारार्थमुक्तसूत्रस्य चारितार्थ्यमिति नाशङ्कनीयम् 'एडोऽयवायाव' इतिन्यासे 'स्थानेऽन्तरतम' इत्यनेनैव निर्वाहसम्भवात् । नच 'वृद्धिरादैच्' इत्यत्र प्रत्याहाराय तदिति वाच्यम् । अत्राप्येरित्येव पठितव्यं तत्र गुणसूत्रे च मिथः सवर्ण संज्ञावादिनये चतुर्णा ग्रहणेन दोषाभावात् । न च ( १ ) 'नय्वाभ्याम्' इत्यत्र (२)तदर्थं ( ३ ) तदिति वाच्यम् । अत्राप्यै औ इति स्वरूपेण पाठकरणेनैव निर्वाहादित्युक्तसूत्रस्योक्तार्थे ज्ञापकत्वं सुस्थमेव । ( ४ ) विवृततरविवृ त्तत्तमेति प्रयत्नद्वयेोरेचश्च भेदप्रतिपादने तु नोक्तसूत्रस्य वैयर्थ्यमिति दिक् ॥
ननु कण्ठस्थानित्वेन विवृतप्रयत्नवत्वेन च तुल्यत्वादकारहकारयोः सवर्णसंज्ञायां विश्वपाभिरित्यादौ हकारसवर्णाकारस्य होट' इति ढत्वं कुतो नेति चेन्मैवम् । नाज्झलाविति सावर्ण्यप्रतिषेधात् । नचात्राच्पदेन ह्रस्वस्यैवाकारस्य ग्रहणं वर्णसमाम्नाये हि स्व एवाकारः पठितः, दीर्घादेरपाठेन ग्रहणं न स्यात् । नचाचूपदे ग्रहणकशास्त्रप्रवृत्या दीर्घादोनां ग्रहणेन न निषेधानुपपत्तिरिति वाच्यम् । ( ५ ) प्रथमं वर्णानामुपदेश इत्यादि नाज्झला वितिसूत्रभाष्योक्तवाक्यापरिसमाप्तिन्यायात् । 'अणुदित्' सूत्रवाक्यार्थ बोधस्य 'नाज्झलावित्यतः प्रागनिष्पत्तेरिति दीर्घाकारहकारयोः सावर्ण्यनिषेधो न स्यादिति वा च्यम् । 'नाज्झलावि' त्यत्राचः प्रागाकारस्य प्रश्लिष्टत्वादाकारसहिताज्झलोः सवर्णसंज्ञानि - धादिति भावः । प्रश्लेषे प्रमाणं 'कालसमयवेलास' इतिसूत्रमेव । अन्यथाऽऽकारस्य हकारसवर्णत्वेनेत्वात् 'आदेशप्रत्यययोरि' ति पत्वापत्या निर्देशासङ्गतिः । नन्वेवमपि हे यि - यासो हे पिपासो इति भाष्यप्रयोगानुपपत्तिरुक्तरीत्या पत्वापत्तेरिति चेन्न । उक्तभाष्यप्रयोगप्रामाण्येन तत्र प्लुताऽऽकारस्यापि प्रश्लेषेण तस्यापि हकारेण सवर्णत्वनिषेधात् । ईषद्विवृतमुष्णां विवृतं स्वराणामिति रीत्या सावर्ण्यभावमुपपाद्य 'नाज्झलावि' ति सूत्रं प्रत्याचख्यौ भाष्यकार इति दिक् ॥
इति संज्ञाप्रकरणम् ।
( १ ) *नय्वाभ्यामिति । 'नय्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्' इति सूत्रस्वरूपम् ।
(२) तदर्थमिति । ऐच्प्रत्याहारार्थमित्यर्थः । (३) *तदिति । ऐ औजितिसूत्रमित्यर्थः ।
( ४ ) *विवृततरेति । एडो विवृततरप्रयत्नवत्वमैचश्च विवृततमप्रयत्नवस्वमित्येवं रू. पेण तयोः प्रयत्नभेदात्सावर्ण्यभावोपपत्तौ तदर्थमै औजिति सूत्रवैयर्थ्यद्वारा तयोः सावय. भावसाधनप्रयासो न करणीयः स्यादिति भावः ।
1
(५) *प्रथममिति । पूर्वं वर्णानामुपदेशस्तदुत्तरमित्संज्ञा तदुत्तरमादिरन्त्येनेति प्रत्याहारसिद्धिस्तदुत्तरकाला सवर्णसंज्ञा तदुत्तरकालमणुदिति एतेन सर्वेण समुदितेन अन्यत्र सवर्णानां ग्रहणम्भवति न स्वस्मिन्नापि स्वांगे नचात्रेकारः शकारं गृह्णातीत्येत्सर्वमादिपदेन बोध्यम् ।
Aho! Shrutgyanam