________________
संज्ञाप्रकरणम् ।
usicकमित्यादौ संवृतस्य हस्वाकारस्य विवृतेन दीर्घाकारेण सह प्रयत्नभेदात् ‘अकः सवर्णै दीर्घः' इति दीर्घो न स्यादित्यत आह-प्रक्रियादशायां तु विवृतमेवे - ति । साधनावस्थायां तस्य विवृतत्वं प्रतिज्ञेयमिति तदर्थः । एवञ्च तत्र दीर्घसिद्धिः सलभेति भावः । स्वस्य प्रयोगे संवृतमित्यत्र प्रमाणमाह-श्र अ इति । 'प सुलु'इति' विभक्त्योर्लुक आयोsकारो विवृतः परश्च संवृतः प्रयत्नभेदात्तत्र सन्धिनेति बोध्यम् ॥
ननु अ अ इति सूत्रेणाकारस्य संवृतत्वविधाने दण्डाढकमित्यादौ कथं दीर्घ इत्याहअस्य चाष्टाध्यायीमित्यादि । उक्तसूत्रस्य संपूर्णाष्टाध्याय्यामन्तिमत्वेना सिद्धत्वादुक्तप्रयोगे दीर्घसिद्धिरिति भावः ॥
の
पूर्वत्रासिद्धमित्यस्याधिकारत्वे फलमाह - त्रिपाद्यामपीति । अस्य त्रैपादिकशाखाणामादिभूतस्याधिकारत्वं विना स्वोत्तरदेशगमनासम्भवेन त्रिपाद्यामपि पूर्वं प्रति परशास्त्रमसिद्धमित्यर्थालाभात्पूर्वपदेन सापादिकस्यैव ग्रहणेन गोधुङ्मानित्यत्र परत्वात्कृतेषु जश्त्वानुनासिकेषु भष्भावानापत्तिः, अधिकारत्वे तुक्तार्थलाभेन परयोरपि जश्त्वानुनासि कयोर्भष्भावदृष्ट्याऽसिद्धत्वात्पूर्वं भष्भावे ततस्तावितीष्टसिद्धिः । वस्तुतस्तु घत्वे कृते 'झयः' इति वत्वापत्तिर्दोषो बोध्यः । नच परत्वाज्जश्त्वानुनासिकत्वयोः कृतयोर्न वत्वप्राप्तिरिति वाच्यम् । 'विप्रतिषेधे परम्' इत्यस्य यथोद्देशत्वेन त्रिपाद्यामप्रवृत्त्या पूर्वमुक्तकाद्वयस्याप्राप्त्या वत्वस्यैव प्रवृत्तेरिति भावः ॥
अनेन शास्त्रासिद्धत्वमेव विधीयते न कार्य्यासिद्धत्वम् । तथासति अम् इति न सिद्धयेत् । तथाहि — अटु अ औ इतिस्थितौ परत्वात्कृतस्य मुत्वस्य सापादिककार्य्य दृष्ट्या सिद्धत्वेsपि देवदत्तहन्तृहृतन्यायेनाकाराभावेन पररूपाद्यनापत्तेः शास्त्रासिद्धत्वे नोक्तदोषः, अन्त रङ्गत्वात्प्राकू प्रवृत्ते शास्त्र एवानेनासिद्धत्वबोधनात्पूर्वं पररूपे ततो वृद्धौ ततो मुत्ये च रूपसिद्धिरिति दिक् ॥
ननु अण्प्रत्याहारस्य पूर्वेणकारेण परणकारेण चोपपत्तिसम्भवादणुदित्सूत्रे परेण पूर्वेण वोक्तप्रत्याहारग्रहणमितिसन्देहप्रादुर्भावे सिद्धान्तमाह - श्रत्राणपरेण एकारेणेति । 'ऋत उत्' इत्यत्र तपरकरणमुक्तार्थे ज्ञापकम्बोध्यम् । तथा हि- पूर्वणकारेणोक्तप्रत्याहाराङ्गीकारे ऋकारस्याण्त्वाभावादणुदित्सूत्रेण सवर्णग्राहकताऽप्रसक्तौ तद्व्यावृत्यर्थं तत्र कृतं तपर करणं व्यर्थं सदुक्तार्थे ज्ञापकम् । परेण तदभ्युपगमे तु ऋकारस्याण्त्वेन ग्राहकशास्त्रप्रवृत्त्या प्राप्त सवर्णग्रहणव्यावृत्तये तपरकरणस्य सार्थक्यमिति तदाशयः ॥ वस्तुतस्तु नोक्तसूत्रघटकऋत इत्यत्र तपरकरणमुक्तार्थे ज्ञापकम् तस्य तपरसूत्रेण लकारग्रहणार्थमावश्यकत्वात् । एत्रञ्च ‘उर्ऋत्' इत्यत्रत्यतपरकरणस्योक्तार्थे ज्ञापकत्वं बोध्यम् । तथाहि - चुरादिण्यन्तात्कृत संशब्दने इत्यस्माद्धातोर्लुङि अचीकृतदित्यत्र दीर्घऋकारस्थाने ह्रस्व ऋकार एव यथा स्यादित्येतदर्थं तत्र तपरकरणं क्रियते, अत्र पूर्वणकारेणाऽण्ग्रहणे तु उद्देश्येन विधेयेन च ऋकारस्याऽभिन्नत्वेन भिन्नकालल्याऽग्रहणान्न तस्य स्थानित्वस्य न वाऽऽदेशत्वस्य प्रसक्तिरिति व्यर्थमेव तत् ज्ञापिते तूत्तार्थे ऋकारस्याऽण्त्वाद्ग्राहकशास्त्रेण सवर्णत्वबोधनादीर्घादेशापत्तिरिति तद्व्यावृत्यर्थं तपरकरणं स्वांशे चरितार्थमिति भावः ॥
"
ननु कण्ठतालुस्यानिनोर्विवृतप्रयत्रवतोश्चैका रैकारयोरेवं कण्ठौष्ठस्थानिनोविनृतप्रयत्न
Aho! Shrutgyanam