________________
फक्किकारत्नमञ्जूषायाम्-- तत्र 'इकोऽसवणे शाकत्यस्य' इतिप्रकृतिभावेन नोक्तदोषोदय इति वाच्यम् । तस्य वैकल्पिकत्वेन दोषस्य दुरित्वात् । प्रत्याहारेऽनुबन्धानां ग्रहणन्नेति ज्ञापनात्प्राक् ककारेऽ. च्त्वस्य सत्त्वेन तस्मिन् भसंज्ञाप्रवृत्तेश्च । न च यणं बाधित्वा परत्वात् 'यस्येति च' इतीकारलोपे यणोऽप्राप्त्या निर्देशाद्यणभावः सिद्ध इति शेखरोक्तं कथं संगतमिति वाच्यम् । इकारस्याचि परे यद्यत्प्राप्नोति तत्सर्वस्योपलक्षकत्वे तस्य तात्पर्यादिति दिक् ॥
ननु 'प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु ग्रहणन्न' इति वार्तिके प्रत्याहारशब्दस्य वर्णसमाम्नाये प्रसिद्धया प्रत्याहारेष्वितामित्यनुपपन्न मित्याह-श्रादिरन्त्येनेति । वार्तिके तादर्थ्यात्ताच्छब्द्यम्बोध्यम् । एवञ्च प्रत्याहियन्ते वर्णा एकत्रीक्रियन्ते यत्रासौ प्रत्याहार इति योगरूढिबलात्कृत्रिमन्यायाच्चैतस्यैव ग्रहणमिति भावः ॥
पाये इति । अत्र 'निपाता आधुदात्ता' इत्यनेन निपातस्याऽऽकारस्यायुदात्तत्वम् । यच्छब्दस्य तु प्रातिपदिकं फिट तस्यान्त उदात्त इत्यर्थकेन 'फिषोऽन्त उदात्त' इत्यनेनाs. न्तोदात्तत्वम् । जसः सुप्त्वात् 'अनुदात्तौ सुप्पितौ' इत्यनेनाऽनुदात्तत्वम् । एकारस्य उदातेन सहैकादेश उदात्त इत्यर्थकेन, 'एकादेश उदात्तेनोदात्त' इत्यनेनोदात्तत्वम् ॥
अर्वाङिति । अभिमुखवाच्यव्युत्पन्नं प्रातिपदिकमिदम् 'फिषोऽन्त उदात्तः' इत्यनेन तस्यान्त उदात्तः, प्रथमस्य यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्ज. यित्वा शेषं तत्पदमनुदात्ताच्कं स्यादित्यर्थकेन, 'अनुदात्तं पदमेकवर्जम्' इत्यनेनानुदात्तत्वम् । अन्तमञ्चतीत्यर्थे कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् ॥
अतन्त्रमिति । स्वशास्त्रस्केतितरूपेण नार्थबोधजनकमित्यर्थः । किन्त्वर्द्धमात्रारूपार्थबोधजनकमिति बोध्यम् । एवञ्च दीर्घादावप्यर्द्धमात्राया एवोदात्तत्वमिति नागेशाः। दीक्षितास्त-'एकाक्षरसमावेशे पूर्वयोः स्वरितः स्वरः । तस्योदात्ततरोदात्तादर्द्धमात्रार्द्धमेव वा' । इति प्रमाणबलेन दीर्घऽप्यर्द्धस्यैवोदात्तत्वमित्यभ्युपगच्छन्ति उदात्तानदासयोरेकस्मिन्समावेशे स्वरितो भवति तस्योदातापेक्षयोदात्ततरार्द्धमात्राऽर्द्ध मेवोदात्तम्वेत्युक्त. कारिकाऽर्थात् ।।
हस्वस्वरितोदाहरणम्-क्वेति । अत्र 'किमोऽत्' इत्यत्' 'क्वाति' इति क्वादेशे 'तिस्वरितम्' इति स्वरितः, व इति । 'अनुदात्तं सर्वमपादादौ' इत्यनेन व इत्यस्यापदादौ विद्यमानस्यानुदात्तत्वम् । दीर्घस्वरितोदाहरणम्-रथानामिति, येरा इति । 'स्वरितो वाऽनुदात्ते पदादौ' इत्यनेनैकारस्य स्वरितत्वम् । ननु 'नोदात्तस्वरितोदयम्' इत्यनेन निषेधे कथमेकारस्योक्तसूत्रेण स्वरितत्वमिति चेन्न (१)(अनन्तरस्येति) न्यायव. लेन 'उदात्तादनुदात्तस्य स्वरित' इत्यस्यैव तेन निषेधकरणात् ॥
स्वरितपरमुदाहरति-शतचक्रमिति । अहेरित्यर्थेऽह्यः वृत्रस्येत्यर्थः । नात्र गुण. श्शनीयः 'छन्दसि वा वचनं प्राणौ चङ्युपधाया' इति वचनस्य जागरूकत्वात् 'उदात्त. स्वरितयोः' इत्यनेन स्वरितत्वम् 'उदात्तयणो हल्पूर्वात्' इत्यनेन न सः छान्दसत्वात् य. च्छब्दस्य 'फिषोऽन्त उदात्त' इत्यनेनान्तोदात्तत्वं तदेकादेशस्य वा स्वरितत्वमिति दिक् ॥
(१) अनन्तरस्येति । अनन्तरस्य विधिर्वाभवति प्रतिषेधो वेति न्यायस्वरूपम् ।
Aho! Shrutgyanam