________________
संशाप्रकरणम् ।
मामांस्त्रायस्वेत्यत्रानुनासिकपक्षेऽनुस्वारापत्तिः (१)सोऽस्तीत्यादौ सुलोपाधापत्तिश्च स्यात् । तस्मादप्रामाणिकन्तस्यानुनासिकत्वम् ऋलवर्णयोः सावर्ध्यात् 'उरण रपरः' इत्यत्र लकारग्रहणमावश्यकमेवेति वदन्तीति दिक् ॥
ननु 'हयवर इत्यादावकारोच्चारणेन तस्य हलत्वप्रसङ्गापत्या पूर्वोक्तस्य मा मांस्त्रायस्वे. त्यत्रानुस्वारापत्तिरूपस्य सोऽस्तीत्यादौ सुलोपाद्यापत्तिरूपस्य च दूषणस्य दुर्वारत्वमित्यत आह-हकारादिष्वकार उच्चारणार्थ इति । अयम्भाव:-'न पुनरन्तरेणाचं व्यन्जन. स्योच्चारणमपि भवति' इति भाष्यात्तस्योच्चारणार्थत्वमेव, न ग्रहणार्थत्वमिति, एषा ह्याचार्य्यस्य शैली लक्ष्यते यत्तुल्यजातीयांस्तुल्यजातीयेषपदिशति अचोऽक्षु हलोहल्स्विति प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु नेति वार्तिकभाष्याच्च तस्योच्चारणार्थत्वमेवेति दिक् ॥
ननु वाक्यार्थबोधे पदार्थज्ञानस्य कारणत्वमपेक्षितमेवञ्च 'हलन्त्यम्। इत्यस्य वाक्यार्थबोधे हल् पदार्थज्ञानमावश्यकं तच्च 'आदिरन्त्येन सहेता' इत्यस्य वाक्यार्थबोधमन्तरा न संभवतीति हलन्त्यसूत्रस्य वाक्यार्थबोधे आदिरन्त्येनेत्यस्य वाक्यार्थबोधोऽपेक्षितः, एवमा. दिरन्त्येनेत्यस्य वाक्यार्थबोधे इत्पदार्थज्ञानमावश्यकं तच्च हलन्त्यसूत्रवाक्यार्थबोधाधीन. मित्युभयोर्वाक्यार्थबोधे उभयसूत्रवाक्यार्थबोधस्यापेक्षितत्वेन परस्परापेक्षितत्वरूपान्योन्या. श्रयस्य प्रादुर्भावादेकस्यापि वायार्थबोधो न स्यादन्योन्याश्रयाणि कार्याणि न प्रकल्पन्ते यथा--'नौ वि बद्धा नेतरत्राणाय भवति' इति भाष्यादित्यावृत्या तम्परिहरति-हलन्त्यमिति । आवृत्योभयहलन्त्यसूत्रस्य कल्पनात् पूर्वत्र सम्बन्धसामान्ये षष्ठ्या समासे हल सूत्रस्यान्त्यं यत्तदित्संज्ञमित्यर्थः । परत्र राहोः शिर इतिवदभेदे षष्ठ्या समासे हल्रूपान्त्यमित्यर्थः । एवञ्च पूर्वहलन्त्यसूत्रवाक्यार्थबोधस्य जातत्वेनेत्पदार्थज्ञानस्य सुलभत्वादादिरन्त्येनेत्यस्य वाक्यार्थबोधे जाते हलपदार्थप्रसिद्धौ द्वितीयहलन्त्यसूत्रवाक्यार्थबोधे कस्याप्यपेक्षाविरहात नान्योन्याश्रयशङ्काकलङ्कलेशोऽपीति भावः । आवृत्तौ 'न विभतौ' इति सूत्रमेव प्रमाणमन्यथा हलन्त्यमित्यस्य वाक्यार्थाऽनिष्पत्येत्वाप्रवृत्तौ निषेधो व्यर्थ एवेति दिक् ॥ ___ननु रट्लानामिति वक्तव्ये रलयोरिति मूलोक्तिर्न युक्ता टकारस्यापि मध्यवर्तित्वादि. त्याह-प्रत्याहारेवितां न ग्रहणमिति । अनुबन्धानां तत्र ग्रहणाभावे 'अनुनासिक' इति निर्देश एव ज्ञापकः । तथा हि-ककारस्याप्यच्प्रत्याहारमध्यगतत्वेन तत्वात्तस्मिन्निका. रस्य यणि निर्देशासङ्गतिः ज्ञापिते तूक्ता) ककारस्याच्त्वाभावेन यणोऽप्राप्त्या निर्देशः सुपपन्नः । नकार विधानसामर्थ्याधणोऽप्राप्तिरिति वाच्यम् । शास्त्रस्य साक्षाद्वाधकल्पना पेक्षया प्रत्याहारेऽनुबन्धानां न ग्रहणमित्यत्रैवेत्वविधानस्य ज्ञापकत्वे लाघवात् । न च
(१) ननूक्तस्थलीयदोषवारणाय हस्वत्वनिरनुनासिकत्वसमानाधिकरणाच्त्वजात्यव. च्छिास्यैव हल्त्वमास्तामित्यत आह-सोऽस्तीति । नच 'एतत्तदो. इति सूत्रारम्भसाम.
दिकारस्य हलत्वाभावज्ञापनान्न दोषः । अन्यथा एष विष्णुः स शम्भुरित्यादौ हलः परत्वेन हलक्ष्यादिसूत्रेणैव लोपसिद्धः सूत्रवैवर्थ्यस्य स्पष्टत्वादिति वाच्यम् । उक्तसूत्रारम्भसामा. लणसूत्राऽकारस्यैवाऽनुनासिकत्वाप्रामाण्यज्ञापने लाघवादिति भावः ।
Aho ! Shrutgyanam