________________
फक्किकारश्नमञ्जूषायाम् -
ननु चतुर्दशसूत्र्यामक्षरसमाम्नाय इति व्यवहारानुपपत्तिराम्नायसमाम्नायशब्दौ वेद एव प्रसिद्धौ वेदश्वानादिरस्याश्च पाणिनिकृतत्वेन सादित्वादित्यत आह-माहेश्वराणीति । महेश्वरादागतानीति तदर्थः । महेश्वरप्रसादालवानीति फलितम् । न महेश्वरेण कृतानि नापि पाणिनिना कृतानि किन्त्वानुपूर्विका श्रुतिरेवैषेति ध्येयम् । एवञ्चास्याः श्रुतित्वेनो कत्र्यवहारोपपत्तिः सुलभेति बोध्यम् । अत्र प्रमाणं- 'येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नम इति शिक्षावचनम् । अत एव 'वृत्तावसाने नटराजराजो ननाद ढक्कां नव पञ्च [१४] वारम्' | 'उद्धर्तुकामः सनकादिसिद्धानेतद्विम शिवसूत्रजालम्' इति संगच्छते । 'अत्र सर्वत्र सूत्रेषु अन्त्यं वर्णचतुर्दशम् 'धात्वर्थं समुपादिष्टं पाणिन्यादीष्टसिद्धये ॥ इति शिक्षावचनमिति दिक ॥
-
'अइउण्' इत्यादि चतुर्दशसूत्रघटकाऽन्त्यवर्णैर्णकारादिभिरणादिसंज्ञोपपत्तये आहएषामन्त्या इत इति ॥
ननु 'उरण् रपरः' इत्यत्र लपरत्वसिद्ध्यर्थं रप्रत्याहारोपपत्तिरावश्यकी सा च 'लण् सूत्रस्थाकारस्येत्संज्ञां विना न सम्भवतीति तत्सिद्धिप्रकारं प्रदर्शयति-लणसूत्रे ऽकारश्वेति । अत्र प्रमाणञ्च 'तुल्यास्य' सूत्रस्थं ' क्वचिदनन्त्येनापि प्रत्याहार इति कैयटीयव्याख्यानशालि 'लपरत्वं वक्ष्यामि इति भाष्यमेव । 'अतो लान्तस्य' इत्यत्र पाणिनिकृतलकारोवारणेनानित्योऽयं प्रत्याहारः । अन्यथा प्रत्याहारेणैव निर्वाहासत्र लकारोच्चारणं स्पष्टमेव व्यथं स्यात् । प्रफुलूत इत्यत्र 'रदाभ्याम्' इत्यनेन निष्ठातकारस्य नत्वाभावो. ऽनित्यत्वफलम् बोध्यमिति प्राञ्चः ॥
अत्र
नव्यास्तु 'लणू' सूत्रस्थाकारो नानुनासिकः, प्रत्याहारेणैव निर्वाहे पाणिनिकृतस्य 'अ तोलान्त' इत्यत्र लकारोच्चारणस्य वैयर्थ्यापत्तेः । अर्द्धमानालाघवाय प्रत्याहारेणैव व्यवहारस्य समुचितत्वाद्यण्प्रत्याहाराश्रयणस्य वैयर्थ्यापतेश्च 1 'आचारादप्रधानत्वाल्लोपश्च बलवत्तरः' इति भाष्योक्ततृतीयहेतोरव्यापकत्वापत्तेश्व । तथाहि, अनुबन्धाः प्रत्याहारजन्यबोधविषयत्वाभाववन्तः लोपशास्त्रीयोद्देश्यतावच्छेदकाक्रान्तत्वात् । प्रथमः पक्ष द्वितीयः साध्यस्तृतीयो हेतुः, पक्षतावच्छेदेन साध्ये हेतोः पक्षतावच्छेदकव्यापकत्वनियमः प्रकृते 'लण्' सूत्राकारस्यानुबन्धत्वेन पक्षत्वसत्वेऽपि पूर्वोक्तसाध्यत्वात् हल्प्रत्याहारसिद्धेः प्रागच्पदार्थासिद्धयोपदेशे ऽजित्यस्य बाक्यार्थाभावेन तस्येत्संज्ञालोपयोरभावालो परूपहेतोरसत्वेन तस्याव्यापकत्वापत्तिः तयोरभावे भाष्यकृता प्रत्याहारे (१) जातिग्रहणपक्षस्यैव सिद्धान्तितत्वेन हल्प्रत्याहारे लणित्यकारप्रवेशात्तस्य हल्ल्वेन (२)
( १ ) *जातिग्रहणपक्षस्यैवेति । ननु हल्प्रत्याहारसिद्धः प्राक् उपदेशेऽजित्यस्य वाक्यार्थबोधाभावेऽप्यण्प्रत्याहारकाले लणित्यकारस्येत्संज्ञालोपाभ्यामपहारसम्भवेनाक्षरसमाम्नायिकानामेव ग्राहकशास्त्रेऽणुपदेन ग्रहणेन साऽनुनासिकाकारस्याऽनण्त्वात्तेन दीर्घख्यानुनासिकस्य न ग्रहणसम्भव इत्याशङ्कामुत्तरयति - जातिग्रहणपक्षस्यैवेति ।
( २ ) *मा मांत्रायस्वेति । माम् आनू त्रायस्वेति पदत्रयम् । अत्राऽऽनिति अनितेः विबन्तस्य सम्बुद्धौ रूपम् । जातिग्रहणपक्षाश्रयणेन दीर्घत्वानुनासिकत्व समानाधिकरणाचत्वावच्छिन्नस्य हल्वादिह दोषः ।
Aho! Shrutgyanam