________________
संशाप्रकरणम् ।
स्योकार इन् प्रत्ययश्च । योऽवयवा यस्येति त्रयं त्रिशब्दात् 'संख्याया अवयवे तय! इति तयप 'द्वित्रिभ्यां तयस्यायज्वा' इत्ययच् मुनीनां त्रयं मुनित्रयमिति विग्रहः ॥
विषयश्चाधिकारश्च सम्बन्धश्च प्रयोजनम् । विनाऽनुबन्धं ग्रन्थादौ मङ्गलं नैव शस्यते, इत्यभियुक्तोक्तवैयाकरणेत्यादिना(१)ऽनुबन्धचतुष्टयस्य ग्रन्थादावावश्यकत्वं प्रदर्शयति । तच्च विषयप्रयोजनाधिकारिसम्बन्धरूपम्बोध्यम् । तथा च वैयाकरणसिद्धान्तज्ञानं विषयः । 'रक्षोहागमलध्वसन्देहा, इत्यादिभाष्योक्तमेव प्रयोजनम् (त्रैवर्णिक सत्यधीतकाव्यकोशादिः) तजिज्ञासरधिकारी, प्रतिपाद्यप्रतिपादकभावः संबन्ध इति सूचितम् ॥
(२)ननु 'संज्ञा च परिभाषा च' इत्यादिषड्विधसूत्रलक्षणस्य वृद्धैर्व्यवहृतत्वात् 'अइउण'. इत्यादीनां कथं सूत्रत्वमुपपन्न मिति चेन्न । एषामकारादिक्रमबोधकत्वेऽपि प्रत्याहारविधायकेन 'आदिरन्त्येन सहेता' इत्यनेनैकवाक्यत्वात् संज्ञासूत्रत्वे बाधकाभावेन तदुपपत्तेः, तथाहिआदिरकारादिरन्त्येनेता सदृशेन णकारादिना सहोच्चार्यमाण आद्यन्ताक्षिप्तानां संज्ञेति भा. वः । एवं प्रत्याहारविधायकोक्तसूत्रेण सहकवाक्यतया 'स्वौजसमौइत्यादीनामपि सुवादि संज्ञासूत्रत्वं स्वादिविधायकत्वञ्च बोध्यम् ॥ वस्तुतस्तु पूर्वोक्तयुक्या संज्ञासूत्रत्वव्यवस्थापने परिभाषासुत्राणामपि विध्येकवाक्यतया विधिसूत्रत्वापत्तिरतोऽकारः साधुरित्येवंक्रमेण साधुत्वविधानाद्विधित्वमेव युक्तमिति मिश्राः ॥
'अइउण' इत्यादिचतुर्यु सूत्रेषु (३)सन्धिकाय्यं न भवति (४) संहिताया अविवक्ष. णात् । अकारादिवर्णेभ्यः (५)कारप्रत्ययः कुतोनेति नाऽऽशयम् । बाहुलकात् । ननु कथमकारादिवणेभ्यो न विभक्तिरिति चेन्न । (६) अनुकरणत्वात्सौत्रत्वाच्चेति दिक् ॥
(१) *अनुबन्धचतुष्टयस्येति । ग्रन्थाध्ययनप्रवृत्तिप्रयोजकज्ञानविषयत्वमनुबन्धसामान्यलक्षणम् ।
(२) *ननु संज्ञा चेति* । 'संज्ञा च परिभाषा च विधिनियम एव च । 'अतिदेशोऽधि. कारश्च षड्विधं सूत्रलक्षणम् । इति स्वरूपम् ।
(३) सन्धिकार्यमिति । अकारेकारयोर्गुणस्तस्याऽयादेशः ऋकारस्य यण् । एकारस्याऽय् । ऐकारस्याऽऽयुरूपसन्धिकार्यमित्यर्थः ।
(४) *संहितायो अविवक्षणादिति । ननु 'संहितैकपदे नित्या नित्या धातूपसर्गयोः । 'नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ इत्युक्त्या सुप्तिचयरूपवाक्य एव संहिताया विवक्षाधीनत्वप्रतीत्या प्रकृते सुप्तिङ्चयरूपवाक्याभावात्कथमविवक्षेति चेदुच्यते-यत्र कार. कान्वितक्रियायाः प्रतीतिस्तत्रेव तादृशवाक्यत्वाङ्गीकारः । प्रकृते तु शक्तपदसमुदायस्य वा. क्यपदेन ग्रहणम् । यथा गवित्ययमाहेत्यस्य वाक्यत्वात्समासग्रहणं निर्वय॑त्वोपपत्तिः । नचै. ताशवाक्यत्वस्य वाक्ये तु सेत्यत्र ग्रहणे चक्रतुरित्यत्र कदाचिद्यणरहितः प्रयोगोऽपि स्यादि-- ति वाच्यम् । संहितैकपदे इत्यनेन तत्र संहिताया नित्यत्वबोधनादिति ।
(५) *कारप्रत्यय इति । 'वर्णात्कार' इत्यनेनेति भावः । *बाहुलकादिति । 'रोगा. ख्यायां ण्वुल बहुलम्' इत्यतोऽनुवृत्तबहुलग्रहणसामर्थ्यादित्यर्थः।
(६) *अनुकरणत्वादिति । अनुकार्यानुकरणयोरभेदविवक्षायामनुकरणशक्त्याऽर्थबोधकस्वरूपाऽर्थवत्त्वाभावेनाऽप्रातिपदिकत्वादिति भावः । * सौत्रत्वाच्चेति । अनुकार्यानकरणयो दविवक्षायामनुकरणशब्दस्य शक्त्याऽर्थबोधकत्वरूपाऽर्थवत्त्वेन प्रातिपदिकत्वाद्वि. भक्त्यनुत्पत्तिरिति भावः ।
Aho ! Shrutgyanam