________________
फकिकारत्नमञ्जूषायाम्
सिद्धान्ता वैयाकरणसिद्धान्ताः । मोदनं मुद् (मुद् हर्षे) भावे 'सम्पदादिभ्यश्च' इति क्विप् को पृथिव्यां मुदानन्दो यस्मादसौ कुमुच्चन्द्रस्तस्येयं कौमुदी । 'तस्येदम्' इत्यण । 'टिड्. ढाण' इति ङीप् । वैयाकरणसिद्धन्तानां कौमुदीव चन्द्रिकेवेत्यर्थः ॥
ननु (१) नमः स्वस्ति' इत्यनेन नमःशब्दयोगे चतुर्थीविधानेन मुनित्रयं नमस्कृत्येत्यनुपपन्नमिति चेन्न । (२) 'उपपदविभक्तः कारकविभक्तिर्बलीयसी' इति परिभाषया द्वितीयाया एवं प्राबल्यबोधनेन तदुपपत्तेः । पदमाश्रित्योत्पन्ना विभक्तिरुपपदविभक्तिः । क्रियामाश्रि. त्योत्पन्ना विभक्तिः कारकविभक्तिः । उत्कृष्टनिष्ठं यत्स्वनिष्ठापकृष्टत्वबोधनं तदनुकूलो व्यापारी नमश्शब्दार्थः ॥
तदुक्तीरिति । मुनित्रयाणामुक्तीरित्यर्थः । परिभाव्येति-विचार्येत्यर्थः । धातू. नामनेकार्थत्वात् । अत्र ज्ञापकं 'परौ भुवोऽवज्ञाने' इत्यत्रावज्ञानग्रहणमेव, तथाहि सर्वत्र परिसमभिव्याहारे भूधातोरवज्ञानार्थस्यैव सम्भवाद् व्यावाभावेन व्यर्थमवज्ञानग्रहणं ज्ञापयति धातूनामनेकार्थत्वमिति ज्ञापिते तु तस्मिन्नथें भूधातोरवज्ञानातिरिक्तार्थस्यापि सम्भवादन्यस्मिन्नथें प्रत्ययव्यावृत्त्यर्थमवज्ञानग्रहणस्य सार्थक्यमिति भावः । 'अनादरः परिभवः परीभावस्तिरस्क्रिया' इति कोशप्रमाणेन परिसमभिव्याहारे भूधातोस्तिरस्कारार्थत्वात्परिभाव्येत्यस्य तिरस्कृत्येत्यर्थाभ्युपगमे तदुक्तीरित्स्य प्राचामुक्तीस्तिरस्कृत्येत्यर्थो व्याख्येयः । उक्तकोशस्य तत्रोक्तानुपूर्वीविशिष्टे एवं शक्तिग्राहकत्वेन घनन्ताद्यन्तस्यैवानादुरार्थबोधकत्वादिह विचारार्थकत्वे न कापि बाधा दृष्टिपथे पथिकायते इति केचित् ॥ . इयं कौमुदी सिद्धान्तभूतसकलार्थप्रकाशजनिकेत्यर्थः । ग्रन्थरूपाया अस्याः कौमु द्या अर्थप्रकाशकत्वधर्मेण चन्द्रिकया साम्यमिति भावः, इयमिति प्रत्यक्षविषयकेनेदमा निर्देशो (३)भाविनोऽपि वस्तुनो बुद्धया विषयीकरणात् ॥ .. मन्तारो वेदशास्त्रार्थतत्वावगन्तारो मुनयः मन्धातोः 'मनेरुच्व' इति मकारात्पराकार.
श्रीगणेशाय नमः । (१) *नमःस्वस्तीति । 'नमास्वस्तिस्वाहास्वधाऽलवषड्योगाच' इति सूत्रस्वरूपम् ।
(२) *उपपदविभक्तरिति । इयं परिभाषा वाचनिक्येव नतु ज्ञापकसाध्या 'तत्र च दीयते' इति सूत्रभाष्यकैयटयोस्तथैवोपलम्भात्।
ननु कृधात्वर्थफलान्वयविवक्षायां द्वितीयाया, नमः शब्दार्थान्वयविवक्षायां चतुर्थ्याश्च, प्र. वृत्त्या भिन्नविषयादुक्तपरिभाषया द्वितीयाप्राबल्यबोधनमसङ्गन्तमिति चेन्न । नमः शब्दस्य निपातत्वेन द्योतकतया द्योतकवाचकसमभिव्याहारे विनिगमनाविरहेण विषयतायामुभयप्र. योज्यत्वस्य सिद्धान्ततया नमःपदप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वेन तात्पर्यविषयीभूतात्प्रातिपदिकाच्चतुर्थीति सूत्रार्थेन कृधात्वर्थफलेऽन्वयविवक्षायामुभयोः प्राप्त्या तत्सङ्ग. तेरिति भावः । नच नमस्कृत्येत्यस्य समस्तत्वेन जहत्स्वार्थायां नमःपदपर्याप्तप्रयोजकतानिरूपितविषयताया अभावाचतुर्थ्यप्रसक्त्या तदवस्थ एवोक्तदोष इति वाच्यम् । 'जहत्स्वार्था तु तत्रैवढियन्त्र विरोधिनी'इत्युक्त्याख्ढेोगार्थविरोधित्व एव जहत्स्वार्थोपगमादित्यलम् ।
(३) *भाविन इति । यथा भाविघटविषयेऽयं घटो भविष्यतीति व्यवहारस्तथेयमिति निर्देशः । सत्कार्यवादसिद्धान्ताश्रयणाद्वेयमिति निर्देश इति भावः । उपमानकौमुदीगतलिइस्यारोपाद्ग्रन्थे स्त्रीलिंगनिर्देशोऽप्युपपद्यत एव । बुद्धिसत्तासमाविष्टस्य शाब्दबोधविषयत्वमिति सिद्धान्त इति भावः।
Aho! Shrutgyanam