________________
* श्रीदुर्गामाधवगणेशा विजयन्तेतराम् *
श्रीविजयते।
फकिकारत्नमञ्जूषा।
विश्वनाथं प्रणम्याथ ध्यात्वा गुरुपदाम्बुजम् । फक्किकारत्नमञ्जूषा क्रियते छात्रहेतवे ॥१॥
अथ संज्ञाप्रकरणम् । ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते चमङ्गलमाचरणीयमिति शिष्टाचारात 'मङ्गलादीनि महालमध्यानि मङ्गालान्तानि च शास्त्राणि प्रथन्ते, वीरपुरुषकाण्यायुष्मत्पुरुषाणि च भवन्त्यः ध्येतारश्च सिद्धार्था यथा स्युः' इत्यादिभाष्यप्रामाण्याच्च मङ्गलमवश्यं कर्तव्यमित्यवधार्य प्रत्यवायप्रशमनाय समुचितऋषियनमस्काररूपमङ्गलमारचयति-मुनित्रयमिति। येन विना यदनुपपन्नं तत्तेनैवाक्षिप्यत, इति न्यायात् पीनोऽयं देवदत्तो दिवा न भुक्त इत्यत्र यथा-भोजनम्बिना पीनत्वानुपपत्त्या रात्रिभोजनाक्षेपस्तथैव प्रकृते विरच्यत इति कर्मप्रत्ययान्तक्रियापदस्य कर्तारम्बिनाऽनुपपत्त्या मया भट्टोजिदीक्षितेनेति सतीया कर्तपदस्याक्षेपः । अत एव भट्टोजिदीक्षितकृतिरित्यादिः श्लोकः संगच्छते । तथा च-मया भहोजिदीक्षितेनेयं वैयाकरणसिद्धान्तकौमुदी विरच्यते विविधगुणविशिष्टा क्रियता इत्यर्थः। किं कृत्वा मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च तिरस्कृत्य विचायेत्यर्थी वा । भटन्तीति भट्टास्तानुजेतुं शीलमस्येति भट्टोजिरत्रपृषोदरादित्वेनोदो दकारलो जिता. तोः किप तुगभाववागमशास्त्रस्यानित्यत्वात् । किंच छः शम्भुस्तस्माज्जातः उजो गणेशो. वरो वा सोऽस्यास्तीति उजी भट्टश्वासावुजी चेति भट्टोजी दीक्षणं दीक्षा दीक्ष धातोः गो. श्व हल' इत्यप्रत्ययः । दीक्षा संजाताऽस्येति दीक्षितः 'तदस्य संजातं तारकादिभ्य इतजा इतिसत्रेणेतर भोजीचासौ दीक्षितश्चेतिविग्रहस्तेन । व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणं व्यापूर्वककृधातोः 'करणाधिकरणयोश्च' इतिकरणे ल्युट् तस्य स्थाने यवोरनारे इत्यनादेशः । व्याकरणमधीयते विदन्ति वा वैयाकरणा इति विग्रहे 'तदधीते तद्वेदः इत्यानि "नय्वाभ्यामू' इत्यादिनैजागमः। असेधीदिति सिद्धः सिद्धो निष्पन्नोऽन्तो निर्णयो येषांक सिद्धान्ताः, यद्वा वादिप्रतिवादिभ्यां निर्णीतत्वेनाक्षेपरहिता अर्थाः सिद्धान्ताः, वैयाकरण
Aho! Shrutgyanam