________________
अजन्तपुल्लिङ्गप्रकरणम् । ननु बाधकामावादविशेषेणोपसर्जनेऽपि त्रयादेशः स्यादित्यत आह-गौणत्वे तु नेतीति । नोपसर्जन इति तदर्थः, । 'आमि सर्वनाम्न' इत्यस्य यथाऽनुपसर्जने एव प्रवृ. त्तिस्तत्साहचर्यादस्यापि तत्रैवेति भावः ।
ननु साहचर्यस्यासार्वत्रिकत्वं सूत्रान्तरस्य साहचर्याश्रयणे दृढतरप्रमाणञ्च नास्तीत्यरुचेराह-वस्तुतस्तु प्रियत्रयाणामिति । न च गौणमुख्यन्यायस्य तु जागरू कत्वात्कथमत्र त्रयादेश इति वाच्यम् । अप्रसिद्धत्व-गौणलाक्षणिकत्वरूपान्यतररूपगौण. स्वाभावात्तदप्रवृत्तेः । अत एव बार्तिककृतोपसर्जनानां सर्वनामत्वनिषेध आरब्धः । अन्यथोक्तन्यायेनैवोपसर्जनानां सर्वनामत्वनिषेधसिद्धौ तनिषेधवचनस्य वार्तिककृता कृतस्य स्पष्टमेव वैयर्थ्य स्यात् । किञ्च तस्य पदकार्यविषयकत्वेनात्र तत्वाभावादप्रवृत्तरित्यलम् ।।
ननु युष्मदस्मदोविशेषविहितैरात्व-यत्व-लोपैधेिन किमः कादेशविधानेन चाऽत्वा प्राप्त्या दोषाऽभावाद्विपर्यन्तग्रहणं व्यर्थमित्यभिप्रायेण शडते-द्विपर्यन्तानां कि. मिति । समाधत्ते-भवानिति । अयम्भावः, भवत्स इति स्थितौ तकारस्याऽत्वे 'अतो गुण' इति पररूपे 'उगिदचामिति नुमि सर्वनामस्थाने चाऽसम्बुद्धाविति दीघे 'हल्याबिति मुलोपे 'नलोपः प्रातिपदिकान्तस्ये ति नलोपे भवेति रूपापत्तिः । किञ्च चिनुणन्ते शमी शमिनावित्यादौ नुमोऽभावाय झल्ग्रहणस्याऽपकर्षणादुगिज्भलन्तस्यैव नुम्विधानेन प्रकृते स्थानिवत्त्वेनोगित्त्वेऽपि झलन्तत्वाऽभावान्नुमोऽप्राप्त्या रूपासिद्धिः, अतस्तदावश्यक सति च तस्मिन्न तत्प्राप्तिरिति न कश्चिदोषः । ननु त्यदादितः प्रागेव भवच्छब्दस्य पाठ. करणान्न प्रागप्रदर्शितलक्ष्यासिद्धिरित्यत आह-भवन्ताविति । त्यदादितः पूर्व भवच्छब्द. स्य पाठे (त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते ) इत्यनेन भवच्छब्दस्य शेषा. पत्तिर्दुर्वा रैवेति द्विपय॑न्तग्रहणं कर्त्तव्यमेवेति दिक् ।। __ ननु बहुश्रेयसीशब्दान्डौ तस्याऽऽमि बहुश्रेयसी आमिति स्थितौ 'हस्वनद्यापो नुडि'ति नुडापत्तिर्दुरिति शङ्का समाधत्ते-इह परत्वादिति । आट-नुटोः प्राप्तयोः परत्वादाटा नुटो बाधेन न नुट् । नचाऽऽटा नुटो बाधेऽपि बाधके प्रवृत्ते बाध्यस्य नुटः प्राप्त्या स स्यादिति वाच्यम् । (१)(सकृद्रगति) न्यायेन बाधे पुनर्वाध्याप्रवृत्तेः । नचाऽपवादो गदीर्घ. त्वस्येति 'दीर्घोऽकित' इति सूत्रस्थभाष्यादागमाऽऽदेशयोरपि बाध्य-बाधकभावाऽभ्युपगमेन निरवकाशेनाऽऽमाऽऽटो वाधे पुनराटोऽप्राप्त्या नुटा सहाऽऽटो विप्रतिषेधविचारासङ्गतिः सर्वथैवेति वाच्यम् । निरवकाशरूपापवादशास्त्रप्रवृत्युत्तरमुत्सर्गशास्त्रप्रवृत्तौ बाधकाऽभावे. नोक्तदोषाऽनवकाशादिति भावः ।।
ननु 'लक्षेमुट् चे त्यौणादिक ई प्रत्यये लक्ष्मीशब्दस्य निष्पन्नत्वान्न 'हल्ल्यावि' त्य (१)*सकृद्धतीति । सकृद्तौ विप्रतिषेधे यद्वाधितं तद्वाधितमेवेति तत्स्वरूपम् । विप्र. तिषेधे सति सकृत् यद्वाधितं तत् गतौ प्राप्तौ सत्यामपि वाधितमेव न पुनः प्रवर्तत इत्यर्थः । उभयरूपेण पूर्वशार संकोच इति यावत् । तत्र कचिच्चरितार्थयोरेकस्मिन्युगपदुभयोः कार्ययोरसम्भवेन बाधकाभावात्पर्यायेण तृजादिवच्छास्त्रद्वयप्रसङ्गे नियमार्थ विप्रतिषेधसूत्रमिति सकृद्रतिन्यायसिद्धिः।
Aho ! Shrutgyanam