________________
१३०
फक्किकारत्नमञ्जूषा। तवानिति भूते प्रयोगः । ब्रह्मादिषु भूतार्थाद्धन्तेः विवेवेतिकालनियमे पितृव्यं हतवान् पितृव्यघातीति भूतेऽपि प्रत्ययान्तरविशिष्टः प्रयोगः । ब्रह्मघातीति प्रयोगाभावो नियमफलं बोध्यम् । द्विविधो नियम इति भाष्यमिति । तथाच भाष्यमुभयतोऽयं नियमः ब्रह्मादिष्वेव क्विबेवेति च । युक्तञ्चैतत् श्रुत्योपस्थितोपपदप्रत्यययोरुपरोधापेक्षया प्रकरणलक्षणजघन्यप्रमाणोपस्थितधातुकालयोरेवोपरोधो न्याय्यः । एवञ्चैतद्भाष्यविरोधात्पूर्वोक्तमयुक्तमित्यलम् ॥
ननु पृषधातोराकारेत्संज्ञकत्वेन 'विभाषाभावादिकर्मणोरिति विकल्पे प्राप्ते तदंशे नित्यार्थो विधिः स्यात् ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपि 'आदितश्चेतिनिषेध एव स्यादत आह-भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्तीति । अनभिधानादिति भावः । अत्र प्रमाणमाह-अत एव नियमार्थमिति । तेन भावादिकर्मभ्यामन्यत्र वै. यात्याभावेऽपि न 'आदितश्चेति निषेधः । हरदत्त इति-अवैयात्ये भावादिकर्मणोरनभिधानाद्वैयात्ये च नियमादादित्वस्य साफल्यमस्त्येवेत्यभिप्रेत्याह-माधवस्तु भावादि. कर्मणोरवैयात्ये विकल्पमाहेति ॥
ननु 'द्वेचे'त्यनेन द्वित्वे कृतेऽपि प्रत्यासत्या पाष्ठद्वित्व एवाभ्याससंज्ञाप्रवृत्त्या ऽऽष्टमिके तदप्रवृत्या स न स्यादत आह-शिग्रहणादभ्याससंशेति ॥
इति पूर्वकृदन्तप्रकरणम्
अथोत्तरकृदन्तप्रकरणम् । ननु उणादयो बहुलमित्यत्रत्यबहुग्रहणल्यापरिपूर्णोणादिपरिपूर्णार्थकस्य फलं प्रदर्शयतिकेचिदविहिता अपीति । केचिदनुक्ता अपि धातवः प्रत्ययाश्चोणादिषु ऊह्याः तर्कणि या इत्यर्थः । तथाहि, शकुलेति प्रयोगदर्शनात् हृषेरुलजितिसूत्राद्विहित उलचप्रत्ययः शकिधातोरपि भवतीति । किञ्च कुत्राप्यविहितयोः फिडफिड्डप्रत्यययोरतिः प्रकृतिरूह्यते तयोः कित्वञ्च प्रल्प्यते । तथा षण्ढ इत्यत्र सत्वाभावश्चोह्यते ।
ननु द्वन्द्वान्ते श्रूयमाणपदस्य प्रत्येकमभिसम्बन्धस्य प्रसिद्धत्वेन शकषेति सूत्रस्थार्थग्रहणस्य तत्सूत्रस्थपदेष्वन्वयः स्यादित्याशंक्य समाधत्ते-अर्थग्रहणमस्तिनैव सम्बध्यत इति । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेतिन्यायेनाऽनन्तरेणास्तिनैवार्थग्रहणस्य सम्बन्धो नतु शकादिभिरिति भावः ।
पर्यायोपादानमर्थोपलक्षणार्थमिति-ननु कालशब्दोपादानादेव समयवेलाशब्दाभ्यामपि तुमुन्सिद्धौ पर्यायोपादानं व्यर्थमिति चेन्न । तस्याऽर्थोपलक्षणार्थत्वेन सार्थक्यात् । तथा च कालसमयवेलार्थेषूपपदेषु तुमुन्नित्यर्थेऽनेहाशब्दादपि तुमुन्सिद्धः ।
ननु सृस्थिर इति सूत्रेऽण्यन्तस्य सरतेरुपादानादतीसारो व्याधिरिति प्रयोगो नोपपयेतेत्यत आह–अन्तर्भावितण्यर्थोऽत्र सरतिरिति-अतीसार इत्यत्रोपसर्गेकारस्य 'उ. पसर्गस्य घञ् मनुष्येबहुलमित्यनेन दीर्घः ।
ननु श्रमेरुदात्तोपदेशत्वान्मान्तत्वाञ्च 'नोदात्तोपदेशस्य मान्तस्याऽनाचमेरिति वृद्धि
Aho! Shrutgyanam