________________
पूर्वकृदन्तप्रकरणम् ।
१२९
म्प्रसारणे इयडादेशे च ब्रह्मजिय इत्यापत्तः । नच कप्रत्ययेऽपि एरनेकाच' इति यणि रूपसिद्धौ डविधानं व्यर्थमेवेति वाच्यम् । अङ्गस्यैकाच्त्वेन ज्याधातोरेव प्रत्ययविधानेन विशिष्टादविधानेन च तदप्राप्तः । नच कर्मण्यधिकारे अकर्मकाज्याधातोः कथं डविधानमि. ति वाच्यम् । कविधौ सर्वत्रेति वचनसामर्थ्यात् ब्रह्म प्राप्तं जिनातीत्यर्थाच्चाऽकर्मकादपि ततस्माडविधानोपपत्तेः। वस्तुतस्तु अकर्मकेष्वपि सुपीत्यस्य सम्बन्धेन सुप्युपपदे धातोः प्रत्ययविधानेनाऽदोषादितिभावः ॥
श्राव इति । नचाऽत्र केऽपि आलोपं बाधित्वा सम्प्रसारणे ततो (वार्णादि) ति न्यायेन पूर्वरूपत्वं बाधित्वा लोपे तस्याभीयासिद्धत्वेनोवडोऽप्राप्तौ यणि आह्व इति सिद्वौ इविधानं व्यर्थमिति वाच्यम् । आभीयासिद्धत्वानित्यत्वे वार्णादिति न्यायानित्यत्वे वाऽस्य ज्ञापकत्वात् । तेन जुहुवतुरिति सिद्धमिति भावः ।।
अच्चौ किम् ाढयोकुर्वन्त्यनेनेति । ननु अन ख्युनोऽभावेऽपि करणाधिकरणयोश्चे'त्यनेन ल्युट् स्यादत आह-प्रतिषेधसामर्थ्यादिति । आढ्यीकरणमिति रूपस्य ल्युट्ख्युनोस्तुल्यत्वम् । नच ख्युनि मुम्हस्वौ स्यातामिति वाच्यम् । 'ऊर्यादिविडाचश्चेति निपातसंज्ञकत्वेन व्यन्तस्याऽव्यत्वेन मुम्विधायकेऽनव्ययस्येति पर्युदासेन तदप्राप्तः । नच ख्युनि 'उपपदमतिङिति नित्यसमासलाभो न ल्युटीति वाच्यम् । तत्रापि गतिसमामसम्भवेन तस्यापि नित्यसमासत्वात् । नच ङीबटाबभ्याम्बिशेष इति वाच्यम् । (नजस्नजी) ति वात्तिकेन ख्युन्यपि लीपो विधानात् । नच स्वरे विशेष इति वाच्यम् । ल्युट् ख्युनोलिनित्स्वराभ्यां कृन उदात्तत्वाऽविशेषादित्यलम् ॥ __ भाष्यविरोधादुपेक्ष्यमिति । उक्तं हि भाष्ये सुपीति वर्तमाने पुनःसुब्ग्रहणं किमर्थम् , अनुपसर्ग इत्येव तदभूत् । इदं सुप्मात्रे यथा स्यात् , उदासारिण्यः, प्रत्यासारिण्य इति ।
भाष्यकारवचनाच्द्रीशब्दस्य ह्रस्वो मुममोरभावश्चेति । अयम्भावः यथा प्रष्ठादिशब्दानां पुँयोगास्त्रियां वृत्तिः प्रष्टी गणिकेति तथेह श्रीशब्दः परित्यक्तस्वलिङ्गः क्लीबः सन् कुले वर्तते । तत्र 'हस्वो नपुसंके' ति हस्वः । नच क्लीबत्वे नुमापत्तिरिति वाच्यम् । अपवादेनाऽमा तद्वाधात् । स्वमोनसकादित्यमो लुक स्यादिति वाच्यम् । अ. म्विधानसामार्थेनैव तद्वाधादिति प्राञ्चः । शेखरकृतस्तु, अब 'स्वमोरिति लुग्न, बाध्यसामान्यचिन्तया 'सुपो धात्वि' ति लुग्वत् अस्यापि अस्विधिसामथ्येन बाधात् । किञ्च बहिरङ्गतयाऽपि नाऽमो लुक् । त्रिपाद्यां तदप्रवृत्तेः । तस्माच्छ्रियं मन्य इत्येव भाष्य. सम्मतमित्याहुः ॥ । चतुर्विधोऽत्र नियम इति। अत्र सूत्रे श्रुतत्वात्पूर्व ब्रह्मादय उद्देश्यास्ततोऽनन्तरं प्रकृतित्वाद्धन्तिः, ततः परिशेषाद्भूत इति क्विबिति सूत्रार्थः, तत्र विनिगमनाविरहेणाऽविशेपाञ्चतुर्ध्वपि एवकारसम्बन्धः । तत्र ब्रह्मादिष्वेव भूतार्थाद्धन्तेरिति प्रकृतिनियमे हन्तेरुपप. दान्तरसम्बन्धवृत्तिफलो धातुनियमः, ततश्च भूत इत्याश्रयणेन कालान्तरेऽपि भवति पुरुष हन्ति हनिष्यति वेत्यर्थे पुरुषहेति । ब्रह्मादिषु भूतार्थादेव हन्तेरिति प्रत्ययनियमे वर्तमा. नभविष्यत्कालयोः पूर्वप्रयोगसिद्धिः । ब्रह्मादिषु भूतार्थाद्धन्तेरेवेत्युपपदनियमे भूत इत्याश्रयणेन कालान्तरे धात्वन्तरादपि भवत्येव वृत्रं जयति जेष्यति या वृत्रजित् । न वृत्रं जि
Aho! Shrutgyanam