________________
उत्तरकृदन्तप्रकरणम् ।
निषेधे विश्रम इति प्रयोगो न स्यादत आह-विश्राम इतित्वपाणिनीयमिति-श्रमेणिजन्तादच् विधाने तु विश्राम इति प्रयोगःसाधुरेव भवितुमर्हति, अत एव धुर्यान्विश्रामयेति स इति रघुकाव्यपद्यसङ्गतिः । नच णिच्यपि वृद्धिनिषेधः स्यादितिवाच्यम् । नोदात्तोपदेशेत्यत्र कृतीत्यस्यानुवर्तनेन णिचि वृद्धि निषेधाप्राप्तेः । 'मितां हस्व' इति ह्रस्वोऽपि नाशङ्क्यः । वेत्यनुवर्तनाद्व्यवस्थितविभाषाश्रयणेन हस्वाभावात् । एवं चोक्तरीत्या प्रयोगस्य साधुत्वेऽप्यर्थभेदः स्यादेव । वस्तुतस्तु - निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिति विवक्षायां न दोष इति भावः ।
1
ननु 'श्रिणीभुवोऽनुपसर्गे'' इति सूत्रेऽनुपसर्गपदसद्भावादनुपसर्गाद्भुवो धनो विधानादुपसर्गात्ततो धनोऽविधानात्प्रभाव इति प्रयोगो न स्यादित्यभिप्रेत्य शंकते - कथं प्रभावो राज्ञ इति । समाधत्ते - प्रकृष्टो भावइति । प्रादिसमास इति । अनुपसर्गाद्भुवो चविधानेन भाव इति संसाध्य पश्चात्प्रशब्देन सह प्रादिसमासे प्रभाव इति प्रयोगोपपत्तिरिति भावः ।
ननु श्रणीभुव इति सूत्रेण नयतेर्घत्रि नाय इत्यस्य साधुत्वे नय इति न स्यात् तथाच वक्ष्यमाणप्रयोगो विरुध्येतेत्याह- कथंराज्ञोनय इति । समाधत्ते - बाहुलकादिति । सूत्रे बहुलग्रहणानुवृत्त्या घाञो वैकल्पिकत्वेनोक्तप्रयोगसिद्धिरिति भावः ।
अस्याधिकाराः किल पुस्तकस्य मुहुर्मुहुर्मुद्रणकादयश्च । प्रकाशकाधीनता हि सर्वे नान्यस्य कस्यापि जनस्य सन्ति ||
इति ठक्कुरोपनामकश्रीकन कलालशर्मणः कृतौ फक्किकारलमञ्जूषायां कारकादिकृदन्तान्तो द्वितीयः खण्डः समाप्तः ॥
१३१
सर्वविधपुस्तक प्राप्तिस्थानम् -
श्रीहरिकृष्णनिबन्धभवनम्,
बनारस सिटी |
Aho! Shrutgyanam