________________
१२४
फक्किकारत्नमञ्जूषा ।
र्तृत्वकमंत्वसत्त्वादेवैकस्मिन् संयोगानुकूलक्रिया संयोगो वा सैवाऽपरस्मिन्कर्तरीति कर्मस्थक्रियकर्तृसत्वात्प्राप्तिः । आश्रयभेदेन च तुल्यत्वम् । नच स्पर्शस्य कर्तृस्थत्वेन कथमेतत्प्रवृत्तिरिति वाच्यम् । तयोः कर्मणोरन्योऽन्यसंयोगकृतहर्षादिलक्षणविशेषदर्शनात्कर्मस्थत्वेन तत्प्रवृत्तेरिति भावः ॥
अजा ग्राम नयतीति-गमनानुकूलव्यापाररूपेणाऽजानिष्ठफलेन नेतृव्यापारेण वा तत्र विशेषादर्शनेन कर्मस्थक्रियत्वाऽभावादिदं चिन्त्यम् । यदि ग्रामसंयोग एव तथेत्युच्यते तर्हि ग्रामं गच्छतीत्यादौ ग्रामेऽपि पुरुषसंयोगरूपविशेषदर्शनेन गम्यर्थस्यापि कर्मस्थत्वं स्यात् । अत एव अन्योऽन्यमाश्लिष्यत इत्येवोदाहृतम्भाष्ये इत्यलम् ॥
विध्यर्थमिदमिति । उपवासादितपः तापसन्तपति दुःखयतीत्यर्थः । एवञ्च तापसस्य कर्मत्वे तपेर्दुःखजननमर्थः । तापसस्य कर्तृत्वे तु अर्जनमर्थः तापसस्तपस्तप्यते अर्जयतीत्यर्थः। एवञ्च क्रियाभेदात्सकर्मकत्वाच्चाऽप्राप्ते विधिरितिभावः । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिण इति । भाष्ये तु (सकर्मकाणां प्रतिषेधो वक्तव्यः) इत्यस्य प्रत्याख्यानाय एवकारसामर्थ्यान्नियमार्थत्वमुक्तं तपेरेव सकर्मकस्य नान्यस्येति दिक् ॥
इति कर्मकर्तृप्रक्रिया समाप्ता ॥ इति मैथिलवंशोद्भवस्य ठक्कुरोपनामकधीकनकलालशर्मणः कृतौ
फकिकारत्नमञ्जूषायामुत्तराद्ध तिङन्तप्रकरण समाप्तम् ॥
अथोत्तरार्द्ध कृदन्तप्रकरणम् । प्रणम्य तावच्चरणारविन्दं श्रीविश्वनाथस्य ततो गुरोश्च ।
कृतेनिजायाः क्रियते शुभायाः कृदन्तभागः कृतिना मयाऽस्याः॥१॥ ननु 'कृदतिङि' त्यनेन तिभिन्नप्रत्ययस्य कृत्संज्ञाविधानेन कृताञ्च तिज्ञानाधीनज्ञानेन तिनिरूपणोत्तरमेव कृन्निरूपणस्यौचित्यात्तिडं निरूप्य कृतं निरूपयितुमारभते-धा. तोरिति । नच 'स्पृशोऽनुदके' 'ऋत्विक दधगि' त्यादिशास्त्रेण प्रागेव तिनिरूपणाक्विन्नादिकृतानिरूपितत्वात्पुनरिह तेषान्निरूपणमयुक्तमिति वाच्यम् । तत्र तेषां प्रसङ्गतो निरूपणेऽपि प्राधान्येनाऽत्रैव कृतां निरूपणस्यौचित्येनोक्ताशंकानदयादित्यलम् ॥
प्राग्लादेशाद्धात्वधिकार इति पक्षस्यायुक्तत्वं ध्वनयितुमाह-श्रातृतीयसमाप्तेरिति । तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः । लादेशात्प्रागधात्वधिकारे तु 'तिशित्सार्वधातुकमित्यत्र धात्वधिकाराभावाच्छित्प्रत्ययमात्रस्य सार्वधातुकसंज्ञाविधानेन शसोऽ. प्युक्तसंज्ञापत्तौ तस्य च 'सार्वधातुकमपिदिति डित्वे हरीनित्यादौ घेडिती' ति गुणो दुवारः स्यादिति भावः । विधेयानिर्देशात्स्वरितत्वाच्चाधिकारसुत्रमिदमित्याह-अधिकारोयमिति-एतदधिकारसूत्रसत्त्वे एव सोपसर्गाणामंगत्वव्यावृत्तिर्भवति । अयम्भावः, एतत्सूत्राऽभावे 'वर्तमाने लडि'त्यादेवर्तमानाद्यर्थे प्रत्यासत्या तादृशार्थप्रतिपादकेभ्यो ल. डादयः स्युरित्यर्थे सोपसर्गाणामपि तादृशार्थप्रतिपादकत्वेन तेषामंगत्वापत्तावडाद्यव्यव
Aho ! Shrutgyanam