________________
कर्मकर्तृप्रक्रियाप्रकरणम् ।
१२३
ननु शास्त्रातिदेशेऽपि लक्ष्यसिद्धौ कार्यातिदेशांगीकरणं किमर्थमिति चेन्न । शास्त्र. स्यापि कार्यार्थत्वेन मुख्यत्वात्कार्यातिदेशस्यैवाङ्गीकारादित्याह-कार्यातिदेशोऽयमिति ।
ननु सौकर्यातिशयबोधनार्थ कर्तृव्यापारविवक्षणेन कर्मादेः कर्तृत्वेन धातोरकर्मकत्वेन ततः कर्तृभावयोलकारविधानेन तत्र भावे लकारविधाने कर्तुरनभिहितत्वातिदेशेन तस्य कर्मवद्भावेन द्वितिया दुरित्याशयेनाह-द्वितीया स्यादिति । नचैतदपेक्षया तृतीयायाःपरत्वादेतदापत्तिप्रदर्शनस्यैवौचित्येन द्वितीयापत्तिप्रदर्शनमयुक्तमिति वाच्यम् । अतिदिश्यमा. नकार्याणां कार्यातिदेशस्यैव देशत्वमित्यर्वाचीनमते द्वितीयायाः परत्वेनादोषात् । भाष्यमते तृतीयापत्तिरेव, तस्याश्च 'न दुहस्नुनमा यचिणौ' 'कुषिरजोरि' त्याद्यारम्भसामर्थ्यात्परस्मैपदे विधीयमानशप्परस्मैपदबाधेऽपि प्रथमाबाधे मानाऽभावः समाधानम् । तथा च पू. ोक्तापत्तिस्तदवस्थैवेति चेन्न । भावे प्रत्यये कृते कर्तुर्लकारेणानुपस्थित्याऽतिदेशाप्रवृत्तेः । (व्यत्ययो बहुलं) (लिङ्या शिष्यङि)ति संहितापाठेऽनुस्वारस्य परसवर्णेन जाते लकारे द्विलकाराल्ल इत्यनुवृत्त्या लकारवाच्यस्यैव कर्तुः कर्मवद्भाव इत्यर्थलाभेन यगादिकमेव नतु द्वितीयेति भावः । अत एव कृत्यक्तखला न कर्मकर्तरि किन्तु भाव एवेति भावः । लकारेणैव कर्मकर्तुरुपस्थानेन कृदादिप्रसक्तिर्न, उक्तार्थानामप्रयोगात् । लविधेः पूर्व तु सुतरां न तत्प्रसक्तिर्लकारोपस्थाप्यकर्तुरभावेन कर्मवत्त्वाऽभावादितिभावः ॥
ननु तुल्यत्वं नाम सादृश्यं तस्य च भेदनिबन्धनत्वेन प्रकृते कर्मणः कर्तृत्वविवक्षायां कर्मस्थफलरूपक्रियाया एव कर्तृस्थत्वेन भेदाऽभावात्सूत्रमिदमसंगतमित्याशंकते-ननु प. चिभिद्योरिति । वास्तविकभेदाऽभावेऽप्युपाधिकृतभेदोऽस्त्येवेत्यभिप्रेत्य समाधत्ते-कर्मत्वकर्तृत्वेति-यथा पीतघटो नीलघटभिन्न इत्यत्र विशेषणभेदाभेदस्तथैव कर्तृत्वसमाना. धिकरणा कर्मत्वसमानाधिकरणा च क्रिया भिन्नैवेति भावः ॥
तुल्यत्वव्यवहार इति । प्रत्यासत्या समानधातौ कर्मस्थक्रियया तुल्यक्रियाश्रय. णात् पचत्योदनं देवदत्त इत्यत्र कर्मणो राध्यत्योदन इत्यत्र कर्तृत्वेऽपि न कर्मवद्धाव इति भावः । कर्मणेति किमिति । एतदभावेऽसिस्थाल्योापारसत्त्वात्क्रियया तुल्यक्रियत्वस्याक्षतत्वादोषः । तत्सत्त्वे तु सामर्थ्यादृश्यमानकर्मनिष्ठविशेषप्रयोजककर्मस्थक्रियाया ग्रह. णान्न साध्वसिरित्यादौ दोष इति भावः ॥
नन करणत्वाद्यवस्थायां वस्तुतः सन्नप्यसिस्थाल्योापारो, न धातूपात्तः, प्रकृतसू. त्रे च 'धातोरेकाच' इत्यतो धातोरित्यनुवर्त्य धोतोर्वाच्यक्रियया तुल्यक्रिय इत्यर्थे न दोषोsत आह-किचेति । कर्मणेत्येतत्सामथ्येन दृश्यमानकर्मनिष्टविशेषप्रयोजककर्मस्थक्रिया लक्ष्यत इति भावः ॥
. गच्छति ग्राम इत्यादि । अत्र गम्यमानग्रामादिकर्मनिष्ठविशेषप्रयोजककर्मस्थक्रियाया अभावात्कर्तृस्थक्रियात्वमिति भावः ॥
सकर्मकाणां प्रतिषेध इति । सौकर्यविवक्षणाऽभावेपि प्राप्तकर्मवभावनिषेधार्थ वार्तिकमिदम् । पच्यते ओदन इत्यत्रात एव दोषो न ।
अन्योऽन्यं स्पृशत इति। अयम्भावः, कर्मपदेन तत्स्थक्रिया लक्ष्यते नतु तेन कर्मत्वोपयोगिनी तत्स्था क्रिया मानाभावात् , एवञ्चाऽन्योऽन्यमित्यादावुभयोः शब्दभेदेन क
Aho! Shrutgyanam