________________
१२२.
फविकारत्नमञ्जूषा।
वचनमिति सूत्रस्याप्राप्तप्रापणार्थत्वेनाऽविशेषात्सर्वविभक्त्येकवचनविधायकत्वन्तथा प्रकृतेऽपि सर्वेषाम्पुरुषाणामेकवचनानि प्राप्नुवन्ति । उक्तप्रकारेणैकवचनमित्यस्य नियमत्वे तु येषाम्प्रत्ययानामेकवचनञ्चान्यच्च प्राप्नोतीत्याकारकोक्तिबोध्यत्वं तेष्वेकवचनमेवेतिनियमे प्रथम पुरुषैकवचनमेव भवतीति भावः ॥
ननु आर्द्धधातुक इत्यादेविषयसप्तमीत्वाद्वधादेशस्यान्तरंगत्वेन चिण्वत्वं बाधित्वा व. धादेश एव स्यादत आह-प्राशीलिङि वधादेशस्येति । अपवाद इति । वाक्यार्थ. बोधवेलायां बाधनाऽभावेन हन्तेरपि सीयुटा सम्बन्धेन तस्य निरवकाशत्वात्तस्यापवादत्व. म् । भाष्ये तु वधिभावात्सीयुटि चिण्वत्त्वं विप्रतिषेधेनेत्युक्तम् । एवञ्चायुक्तमेवापवादत्ववर्णनमित्यलम् ॥
ननु चिण्वद्भावेन चिणि दृष्टकार्यस्य विधानादवधीत्यादौ चिणि वधादेशस्य दृष्टत्वाद. त्रापि वधादेशो दुर्वार इत्याशंकते-नच स्यादिष्विति । समाधत्ते-अंगस्यैवातिदे. शादिति । चिनिमित्तकांगसम्बन्धिकार्यस्यैव विधानादवधीत्यादौ लक्ष्यानुसारिव्याख्या नान्न चिनिनित्तकवधादेश इति ॥ __ ननु हस्वपदानुवृत्त्यैव विकल्पसिद्धौ ‘चिण्णमुलोरित्यत्र दीर्घग्रहणमनावश्यकमित्यभि प्रेत्याह-प्रकृतो मितां ह्रस्व एव तु न विकल्पित इति ॥
दीर्घविधौ हि णिचो लोपोनस्थानिवदिति । 'न पदान्त' सूत्रेण दीर्घविधौ स्थानिवत्वनिषेधादिति । नच 'असिद्धवदत्रे ति णिचोऽसिद्धत्वमिति वाच्यम् । समानाश्रयत्वाऽभावेनाऽऽभीयासिद्धत्वाऽप्राप्तेः । भाष्ये तु उक्तनिषेधसूत्रे दीर्घविधेः प्रतिदीन इत्युदाहरणदानात् त्रैपादिकदीर्घस्यैव ग्रहणेनोचितमेव तत्प्रत्याख्यानमित्यर्वाचामभिप्रायः ॥ __नन्वेवं ण्यन्ताण्णौ दीर्घविकल्पानापत्तिर्व्यवधानादत आह-णाविति जातिपरो निर्देश इति । दीर्घग्रहणं मास्त्विति । हस्वविकल्पेनापीष्टसिद्धिरिति भावः । वस्तुतस्तु 'चिण्णमुलोरि तिसूत्रस्थं दीर्घग्रहणमावश्यकमेव, घटादिपठितहेडेश्चिणि अहिडि अहीडीति रूपसिद्धयर्थ दीर्घग्रहणं, हस्वविकल्पे तु अहेडीतिस्यात् । एवं ण्यन्ताणिचि रूपसिद्धयर्थमपि दीर्घग्रहणमिति दिक् ॥
- इति भावकर्मप्रक्रिया ।
अथ तिङन्ते कर्मकर्तृप्रक्रिया । यदा सौकर्येति । मुखेन कर्तुं योग्यः सुकरस्तस्य भावस्सौकर्यम् । क ापारो न विवक्ष्यत इति-सौकर्यातिशयबोधनाय कर्मादिकारकव्यापारस्यैव प्रधानधात्वर्थत्वेन विवक्षणात्कारकान्तराणामपि स्वस्वव्यापाराश्रयत्वेन कर्तृत्वाक्षतेः । सकर्मका अपि प्रायेणाऽर्मका इति-व्यापारव्यधिकरणफलाश्रयाभावेन तेषामकर्मकत्वम् । द्विकर्मधातूनां कर्मणः कर्तृत्वात्प्रायेणेत्युक्तम् । तेन यगात्मनेपदचिचिण्वदिटः स्युरिति । ननु कार्यातिदेशेऽप्यतिदिश्यमानकार्याणामुत्पत्तिदेशस्यैव देशत्वाङ्गीकारात्परत्वाच्छप्परस्मैपदे एव नतु य. गात्मनेपदे इति चेन्न । 'न दुहस्नुनमामित्यादिसामर्थ्यात्परस्यापि बाधेन तदप्राप्तेरिति
भावः ॥
Aho ! Shrutgyanam