________________
भावकर्मप्रक्रियाप्रकरणम् ।
१२१
त्पत्याश्रयबोधकत्वेन द्रव्यादिषु सन्चात्स्थीयत इत्यत्र स्थितेरुत्पत्यभावादनुपपत्रमिति वा. च्यम् । कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थत्वरूपस्यैव फलत्वात् । कर्मणि प्रत्यये विशेषण. विशेष्यभावव्यत्यासेऽपि फलव्यापारयोः फलत्वासम्भवनिरासाय कर्तृप्रत्ययसमभिव्याहार इति विशेषणम् । विशेष्यता च न केवलमुख्यविशेष्यतैव, किन्तु प्रकारत्वावच्छिन्नविशेध्यताऽपि गृह्यते । विशेष्यताशब्देनैतादृशविशेष्यताग्रहणादेव गत्यर्थकधातुप्रकृतिकणिजन्तस्थले संयोगस्य फलत्वोपपत्तिः । तद्धात्वर्थत्वं तद्धातुवाच्यत्वम् । चेतनाचेतनवृत्तिफूत्कारयत्नादीनां क्रियात्वधात्वर्थत्वयोर्बोधनायाऽनेकपर्यायशब्दोपादानम् । क्रियाया धातुवाच्यत्वादेव व्यापारार्थककृमा विवरणविव्रियमाणयोः समानार्थत्वस्य, कथं ज्ञायते क्रियावचनाः पचादयः यदेतेषां करोतिना सामानाधिकरण्यमित्यनेन 'भूवादि' सूत्रस्थभाष्ये स्पष्टप्रदर्शनम् । क्रियात्वञ्च धातुवाच्यत्वसमानाधिकरणो जातिविशेषः । भूवादिसूत्रमेव तत्परिचायकमिति बोध्यम् ।
सामानाधिकरण्याभावादिति । असत्वभूतक्रियायाः सत्वार्थकयुष्मदादिसामानाधिकरण्यासम्भवादिति भावः ॥
तिवाच्यभावनाया असत्वरूपत्वेनेति । असत्वरूपत्वञ्च, लिङ्गाद्यनन्वयित्वं सर्वनामपरामर्शयोग्यत्वं वेति ॥ तदुक्तम्
असत्वभूतो भावश्च तिङ्पदैरभिधीयते । इति औत्सर्गिकत्वेनेति । द्विबह्वोद्विवचनबहुवचने एकवचनमिति भाष्योक्तन्यासेनैकव. चनमित्यस्यौत्सर्गिकत्वं बोध्यमिति प्राञ्चः । शेखरकृतस्तु एकक्रियेति 'रूपबादि' सूत्र. स्थभाष्येण क्रियाया एकत्वमस्त्येव, तस्य प्रकृत्यर्थेऽन्वयादेकवचनं, स्वोत्तरतिङ्वाच्यकारकगतस्य द्वित्वादिकस्य तत्रारोपात्कर्तृकर्मतिक्षु द्विवचनादेः सिद्धिः । द्वित्वादिक. स्यापि प्रकृत्यर्थे एवान्वयः। यथा हतशायिकाः शय्यन्ते इत्यादौ हतशयनसदृशानि शयनानीत्यर्थ उपमाने बहुत्वोपादानसामर्थ्यादुपमेये तिर्थक्रियारूपे उपमानगतबहुत्वारोपेण बहुवचनं तद्वत्तिवाच्यकारकगताया एवारोपो नत्वन्यकारकगताया इत्यत्राऽर्थशक्तिस्वभाव एव हेतुरिति । तदुक्तं हरिणा
एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया ।
भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः । इति ॥ ननु प्रथमपुरुषस्यापि शेषसमानाधिकरणत्वनियतत्वात्सोऽपि न स्यादिति चेन्न । शेषग्रहणं त्यक्त्वा प्रथमस्योत्सर्गत्वकरणेन तदुपपत्तेः । भावाख्यातस्थले एकवचनमेवेति वदतो दीक्षितस्य (तव) मतेऽपि यत्रैकवचनञ्चान्यच्च प्राप्नोति तत्रैकवचनमेवेति नियमांगीकार एवेष्टसिद्धिः । अन्यथा द्वित्वे द्विवचनमेव बहुवचनमेवेति नियमेन द्विवचनबहुवचनयोरनियतत्वादेकत्वेऽप्यापत्तिः । किन्त्वेकवचनमेव तस्यौत्सर्गिकत्वेन संख्यानपेक्षणादिति दी. क्षितोक्तिस्तु न समोचीना, वक्ष्यमाणप्रकारेण प्रथमपुरुषैकवचनोपपत्तेः । तथाहि, यथा कर्म. ण्येव द्वितीयेत्यादिरीत्या प्रत्ययनियमेऽव्ययेभ्यो विभक्तिसामान्याऽभावप्रसक्तौ सत्यामेक
Aho! Shrutgyanam