________________
१२०
फक्किकारत्नमञ्जूषा। तिस्तत्र कर्मपदस्य कर्मकारकबोधकत्वम् , तथा च, ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव ण्यन्तेनोच्येत अणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यान्नत्वाध्यान इति तदर्थः । एतदुदाहरणानि तु अपरिस्पन्दनसाधनसाध्याः कर्तृस्थभावकाः सपरिस्पन्दनसाधनसाध्याः कर्तृस्थक्रियाश्च, एतच्च तथाहीत्यादिना मूले एव स्पष्टत्वान्नोपपादितम् ॥
ननु पश्यन्तीत्यादिना निवृत्तप्रेषणक्रियाम्प्रतिपाद्याऽध्यारोपितप्रेषणक्रियाम्प्रतिपादयति-यद्वेति । हेतुत्वारोपादिति । प्रेषणांशत्यागात्प्रेषणान्तरारोपेणापि सौकर्यप्रतीतेरनुभवसिद्धत्वादत्रापि सौकर्यविवक्षाया एव हेतुत्वमिति भावः । अर्थः प्राग्वदिति । पक्षद्वयेऽप्युदाहरणीभूतान्त्यकक्षाद्वयस्य प्रेषणांशप्रतीत्यभावादिति भावः। आधिक्यादिति । अत्र पक्षे णौ चेत्यनेनाऽधिक्यमात्रस्य व्यवच्छेदो नतु न्यूनत्वस्यापि सः । अन्यथा तृतीयकक्षायामपि न स्यात् । प्रकृत्युपात्तप्रेषणांशत्यागेन न्यूनत्वापत्तेरिति भावः ।।
इत्यात्मनेपदप्रक्रिया ॥
अथ तिङन्ते परस्मैपदप्रक्रिया । ननु 'अनुपराभ्यां कृजः' इत्यनेन कर्तरि परस्मैपदविधानात्कर्मकर्तर्यपि तत्प्रसक्तिरिति चेन्न । कार्यातिदेशशास्त्रातिदेशपक्षद्वयमध्ये कार्यातिदेशपक्षस्यैव प्राधान्यात्कर्मकर्तयात्मनेपदादिविधायकस्य 'कर्मवत्कर्मणे'त्यस्योक्तसूत्रापेक्षया परत्वादनेन तद्बाधेन तदप्रसक्तः । नत्र कार्यातिदेशपक्षेऽप्यतिदिश्यमानकार्याणामुत्पत्तिदेशस्यैव देशत्वांगीकारात् , शास्त्रातिदेशपक्षे कर्मवत्कर्मणेत्यनेनात्मनेपदाद्यविधाने तद्विधायकं 'भावकर्मणोरिति शास्त्रस्य वातिदेशात्तस्य च अनुपराभ्यामित्यतः पूर्वत्वेनानेनैव तद्बाधादोषस्तदवस्थ एवेति वाच्यम्। 'कर्तरि शप' 'शेषादि' तिसूत्रद्वयात्कर्तृपदानुवर्त्तनेन कर्तृरूपे कर्तयेव परस्मैपदं नतु कर्मरूपे कर्तरी तिव्याख्यानेनादोषादिति भावः । नच कर्तेव यः कति व्याख्याने पदार्थतावच्छेदकैक्येन(१)घटो घट इत्यत्रेव शाब्दबोधो न स्यादिति वाच्यम् । एकस्य कर्तृशब्दस्य स्वतन्त्रपरत्वादपरस्य व्यापाराश्रयपरत्वेन स्वतन्त्राऽभिन्नव्यापाराश्रय इत्यर्थे पदार्थतावच्छेदकस्य भेदेनादोषादित्यलम् ॥
__ इति परस्मैपदव्यवस्था ।
अथ तिङन्ते भावकर्मप्रक्रिया । नन उत्पत्त्यर्थकाद्भवतेर्णिजन्तात् 'एरचि' इत्यचि निष्पन्नस्य भावशब्दस्य विवरणमाह-भावनेति । भवतेरुत्पत्यर्थत्वं ण्यन्तस्य भवतेः शुद्धेन करोतिना समानार्थत्वं च दर्शयति-उत्पादना क्रियेति । उत्पादना च फलोत्पत्यनुकूलव्यापारः । न च फलशब्दस्यो
(१) (अभेदान्वयबोधश्च विरूपोपस्थितयोरेवे) तिव्युत्पत्यनुरोधाद्विरुद्धधर्माभ्यामुप. स्थितनामार्थद्वयस्यैवाऽभेदान्वयलाभेन नीलो घट इत्यादौ विरुद्धधर्माम्यां नीलवघटत्वाम्या. मुपस्थितयोनीलघटपदार्थयोरभेदान्वयो भवति । घटो घट इत्यत्र तु घटत्वधर्मस्यैक्येन पदार्थयोर्विरुद्धधर्माभ्यामुपस्थित्यभावान्नाभेदान्वय इति भावः ।
Aho! Shrutgyanam