________________
पूर्वकृदन्तप्रकरणम् ।
१२०
स्थापत्तेरिति । नच तृतीयाध्यायसमाप्तिपर्यन्तं 'धातोरेकाजिति सूत्रस्थधातोरित्यस्य सम्बन्धेन धातोरेव लडाद्यापत्त्या नतु सोपसर्गाणामंगत्वप्रसक्तिरिति वाच्यम् । द्वितीयस्य धातोरित्यस्याऽधिकारसूत्रस्याऽभावे 'तिशिदित्यस्य 'आर्द्धधातुकमि' त्यस्य च धातोर्य तिङः शितश्च ते सार्वधातुकाभिन्नास्तेभ्योभिन्नाश्चार्द्धधातुकाऽभिन्ना इत्यर्थापत्त्या क्विबन्तलूपूप्रभृतीनामपि धातुत्वेन लूभ्यां पूभ्यामित्यादौ भ्याम आर्द्धतुकत्वस्य सत्वादिडापत्तिः। द्वितीयधातोरिति सत्त्वेन उक्तसूत्रयोर्धातोर्धातोरित्येवमानुपूर्वीकशब्दोच्चारणेन विहितानान्ते संज्ञे इत्यर्थे न भ्याम आर्द्धधातुकत्वप्रसक्तिरिति भावः ॥
भावे औत्सर्गिकमेकवचनं क्लीबत्वञ्चेति-भावे प्रत्ययविधानात्तत्र च लिइसंख्याऽभावेन सामान्ये नपुंसकमिति नपुंसकत्वमुत्सर्गतश्चैकवचनं भवति । यत्र लिङ्ग. त्रयमध्ये कस्यापि लिङ्गस्य विवक्षा न तत्र नपुंसकलिङ्गमेव भवति, यत्र च कल्याश्चिदपि संख्याया न विवक्षा तत्रैकवचनमेव भवतीति भावः ॥
वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याहेति-(केलिमर उपसंख्यानमि). तिवार्तिकविहितकेलिमरप्रत्ययः कर्मण्यथें भवति नत्वन्यस्मिन्नर्थ इति सिद्धान्तः, तत्रोक्त. प्रत्ययस्य कर्मणि कर्मकर्तरिचेत्युभयस्मिन्नर्थे विधानमङ्गीक्रियते वृत्तिकृतेति दीक्षित उक्तवान् । परमेतन्मतमयुक्तमित्याह-तद्भाष्यविरुद्धमिति । तत्र हि भिदेलिमा इत्यस्य भेतव्या इतिविवरणं प्रदर्शयद्भाष्यकृन्नये कर्मण्येवोक्तप्रत्ययो लभ्यते नतु कर्मकर्तर्यपीत्यतो भाष्यकृन्मतावृत्तिकृन्मतं विरुद्धमिति तन्मतमुपेक्ष्यमिति भावः ॥
विहितविशेषणं किम् । यका व्यवधानेऽपि यथास्यात् । प्रयाप्यमाणं प. श्यति । विहितविशेषणकरणे प्रपूर्वकयातेणिचि पुकि ण्यन्तस्य धातुत्वेन वर्तमाने कर्मणि लटि तत्स्थाने शानचि तस्य शित्वात्सार्वधातुकत्वे यकि णिलोपे मुकि शानचो ण्यन्ताद्विहितत्वेन तन्नकारस्य विभाषेति णत्वे व रूपं सिद्धयति । विहितविशेषणाकरणे तु ण्यतात्परस्योपसर्गस्थनिमित्तोत्तरकृत्स्थनकारस्य णत्वं वेतिसूत्रार्थे शानचो यका व्यवायेन ण्यन्तात्परत्वाभावाण्णत्वाऽप्राप्त्या रूपं न सिद्धयति । नच अड्व्यवायेऽपीति सुत्रेणैव णत्वसिद्धौ विहितविशेषणमनावश्यकमेवेतिवाच्यम् । विभाषेत्यत्र ण्यन्तकृतोरव्यवधानस्यापेक्षणादग्रहणेन वारणाऽसम्भवेन विहितविशेषणास्यावश्यकत्वादिति भावः ॥
ननु 'इजादेः सनुमः' इत्यस्य प्रमङ्गनीयमित्यत्र 'कृत्यचः' इत्यनेन प्राप्तणत्वव्यावृत्तये विहितविशेषणांगीकारेऽपि न नियमार्थत्वं नुमो नकारेण व्यवधानात्कृत्यच इत्यस्याऽप्राप्त्या प्रेन्वनमित्यत्र विध्यर्थत्वादत आह-नुमग्रहणमनुस्वारोपलक्षणार्थमिति । 'अट कुप्याङ् नुमित्यत्रेव प्रकृतेऽपि नुमाऽनुस्वारस्य लक्षितत्वान्न शंकाकलंकलेशोऽपीति भावः ॥
ननु ण्यन्तस्य प्रकृत्यन्तरत्वेन प्रकृतिग्रहणेनाऽग्राह्यत्वान्निषेधानापन्या प्रभापनीयमि. त्यादौ गत्वं दुर्वारमेवेत्यत आह-एयन्तभादीनामुपसंख्यानमिति । केचित्तु हेरच. डी ति सूत्रेऽचडीति पर्युदासेन (प्रकृतिग्रहणे ण्यधिकस्याऽपि ग्रहणमि)ति ज्ञापनात्सिद्धमिदमित्याहुस्तन्न, ज्ञापनस्य कुत्वमात्रविषयपरत्वेन भाष्यादौ सिद्धान्तितत्वादित्यलम् ॥
ननु प्रख्यानीयमित्यत्र, अट्कुम्वानुमित्यनेन णत्वं दुर्वारमित्यत आह-खशात्रः
Aho ! Shrutgyanam