________________
स्त्रीप्रत्ययप्रकरणम् ।
१०९
एवायमिति प्रतीतेश्च तज्जातीयोऽयममित्यप्रतीतेश्च । अत एवेन्द्रत्वादिकं न जातिः । न च पञ्चेन्द्रोपाख्यानादेः पुराणादौ प्रसिद्धत्वादिन्द्रत्वादेर्जातित्वे को बाध इति वाच्यम् । अनेकेषां पञ्चेन्द्रोपाख्यानादिभिः समकालिकत्वेऽपि सवषां संस्थानस्यैकत्वे मानाsभाचात् । न च दुर्गा अपर्णेत्यादौ डीप कुतो नेति वाच्यम् । स्त्रीविषयत्वादपि ङीषोऽप्रवृत्तेः । एवं जलसमीपस्थलविशेषदर्शनेन ज्ञातत्वात्तत्वमपि जातिः । नन्वेवं वृषलत्वादीनां जातित्वं न स्थात् । वृषलादेरनवयवसंस्थानस्य ब्राह्मणादेरविशिष्टत्वेन तस्या आकृतिग्रहणत्वाऽभावात्किन्तु साक्षादुपदेशगम्या सेत्यत आह-लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्येति । लिङ्गानामिति कर्मणि षष्ठी, या सर्वाणि लिङ्गानि न भजति साsपि जातिरिति प्रथमदलस्यार्थः । न च सर्वशब्दस्य लिङ्गाऽपेक्षत्वेनाऽसामर्थ्यात्कर त्रिसमासाविति वाच्यम् । भाष्यप्रामाण्यात् । ओख्यातमाख्यानमुपदेशः । सदाख्यातेन निर्ग्राह्या ज्ञानगोचरीभूता जातिरिति द्वितीयदलस्यार्थः । एतेन मूलोक्तमर्थ समायातं विद्धि, तच असलिङ्गत्वे सत्येकस्यां व्यक्तावित्यादि अयं वृषल इत्युपदिष्टे तत्पित्रादौ च कथनं विनैव वृषलत्वज्ञानमुपपद्यते । नन्वेताभ्यामप्यौपगवी कठीत्यादेः संग्रहोऽनुगतसंस्थानव्यङग्यत्वाऽभावात्सर्वलिङ्गत्वाद्देश्यत आह-गोत्रञ्च चरणैः सहेति । अपत्यप्रत्ययान्तः,चकारात शाखाऽध्येतृवाची च शब्दो जातिकार्य्यं लभते इत्यर्थः । जातिकाय्र्यञ्च ङीष् वचादि । अत्र शास्त्रीयगोत्रस्यैव ग्रहणमिति भावः ॥
ननु अलावूरिति भाष्योदाहरणादुत इत्यस्याऽसम्बन्धात्कथमुकारान्तत्वलाभ इत्यत आह - रज्वादिपर्युदासादुवर्णान्तिभ्य इति । स च पर्युदासः सदृशग्राहीति तदाशयः । नचाऽलावूशब्दाडूविधाने किम्फलमिति वाच्यम् । 'नोधात्वोरिति विभक्त्युदात्तत्वप्रतिषेधस्यैव तत्फलत्वात् । न च प्रथमान्तद्वितोयान्तोदाहरणं विहाय तृतीयान्तोदाहरणप्रदर्शनमसङ्गतमिति वाच्यम् । तत्रोक्तप्रयोजनस्यात्सम्भवात् । ऊङ्घात्वोर्यणः परे शसादय उदात्ता न स्युरिति तदर्थः । ऊङि ङकारोच्चारणस्येदमेव प्रयोजनम् । अन्य. था यवाग्वेत्यादावपि निषेधाऽऽपत्तिः स्यात् । न च रूपाणां सवर्णदीर्घेणैव सिद्धावूङि दी - घच्चारणमव्यर्थमिति वाच्यम् । दीर्घोच्चारणस्य प्रश्लेषेणोकारद्वयविधानद्वारा ब्रह्मबन्धुरित्यादिबहुव्रीहौ परकनिवृत्यर्थत्वेन सार्थक्यात । न च श्वश्रूरित्येतत्सिद्वयर्थं दीर्घोचारणस्याऽवश्यकत्वात्कथं तद्वैयर्थ्यमाशंकितमिति वाच्यम् । उक्तरूपस्य श्वशुरः श्वश्रे तिनिर्देशादेव सिद्धेरिति भावः ॥
एवञ्च
उपचारादिति । शफशब्दप्रवृत्तिनिमित्तस्योरुपदार्थे आरोपादित्यर्थः । समासस्योपमानोपमेयाभावाऽबोधकत्वान्न पूर्वसूत्रप्राप्तिः । शफशब्दप्रवृत्तिनिमित्ताssरोपे चोपमानोपमेयभावो निमित्तमित्यन्यदिति भावः ।
ननु सर्वस्योरुमवेन तत्समभिव्याहारे सहशब्दप्रयोगस्य व्यर्थत्वात्सहोरूरिति प्रयोगस्यैवाऽभावात् (सहितसहाभ्यां चे ) ति वार्त्तिके शहशब्दग्रहणं व्यर्थमित्यत आह-सहेते इति । रतिश्रममिति शेषः । सहौ विद्यमानावूरू यस्या इत्यर्थ इति कैयटः । अतिरमणीयाविति तदभिप्रायः । कमलानीतिवदित्यलम् ॥
ननु छन्दसि संज्ञायामसंज्ञायां च 'कद्रुकमण्डल्वोश्छन्दसी' त्यनेनैवोङः सिद्धौ 'संज्ञा - १० फ०र०
Aho! Shrutgyanam