________________
११०
फकिकारत्नमञ्जूषायाम्यामिदं सत्रं किमर्थमित्यत आह-अच्छन्दोऽथं वचनमिति । लोके नागमातुः संज्ञायाः करिति सिद्धयर्थ वचनमिदमिति भावः ॥
नृ-नरयोवृद्धिश्चेति । ननु नारीत्यस्य नृशब्दात् आद्यची वृद्धया 'ऋन्नेभ्यः इति डीपा च नारीत्यस्य च योगलक्षण ङीषा सिद्धौ वात्तिके नराहणं व्यर्थमिति चेन्न । नरत्वजातिमात्र प्रतिपादनेच्छायां मरीत्यस्य व्यावृत्यर्थत्वेन सार्थक्यात् । न च नरशब्दे. ऽचद्वयस्य सत्वात्कस्य वृद्धिरिति न यम् । लक्ष्याऽनुसारादादरेवाऽचो वृद्धरिति भावः ।
ननु 'यूनस्तिरित्येतद्विहिततिप्रत्ययस्य तद्धितसंज्ञाविधानस्य प्रातिपदिकसंज्ञासिद्धि. रेव फलं सा चोतरज्ञा (लिडविशिष्ट ) परिभाषदैव सिद्धति व्यर्थमुक्तसूत्रे तद्धिताs. धकार इत्यत आह-लिङ्गविशिष्टपरिकापरव सिद्ध इत्यादि । न च तद्धिताs. धिकारस्योत्तरार्थत्वेन तवाधिकारूस कर्टमुचितत्वादिह करणं व्यर्थमेवेति वाच्यम् । उक्त परिभाषाऽनित्यत्वज्ञापनार्थत्वेनेह करणस्य सार्थक्यादिति भावः । ____ना 'यूनस्तिरित्यनेन युवनशब्दाक्तिप्रत्ययविधानेन बहुयुवेत्यत्रापि तिप्रत्ययो दुर्वार इत्यासंक्याह-अनुपसर्जनादित्येवेति । अयम्भावः, उक्तसूत्रेऽनुपसर्जनादेव युवनशब्दातिप्रत्ययविधानेनोक्तप्रयोगघटकयुवनशब्दस्य दहवो युवानो यस्यामिति बहुव्रीहावन्य. पदार्थविशेषणत्वेनोपसर्जनत्वान्न तस्मात्तिप्रत्ययः किन्तु 'ऋन्नेभ्यो दीप'इत्यनेन प्राप्तस्य नान्तलक्षणडीपः 'अनो बहुव्रीहेः' इति निषेधे डावेवेति । ननु 'युवतीकरनिर्मितं दधीति प्रयोगोऽनुपपन्न इत्यत आह-यौतेः शत्रन्तान्डीपि बोध्यमिति दिक् ।
इति स्त्रीप्रत्ययप्रकरणम् ।
इति ठक्कुरोपनामकश्रीकनकलाल शर्मणः कृतौ फक्किकारत्न.
मञ्जूषायां स्त्रीप्रत्ययान्तः प्रथमखण्डः समाप्तः ॥
ज्येष्ठेऽसितेऽचितविधौ दिवसे तदीये एषा कृतिमम सुपूर्तिमगादनल्पा । बाराणसीपुरपतेरपि चान्नपूर्णादेव्या अजस्रकृपया नगरे तदीये ॥१॥
कृतिरेषा मम श्रीश्रीभवानीविश्वनाथयोः।
कण्ठे समर्पिता भूयान्नित्यं प्रीतिकरी तयोः॥२॥ अस्याधिकाराः किल पुस्तकस्य मुहर्मुहुर्मुद्रणकादयश्च । प्रकाशकाधीनकृता हि सर्वे नान्यस्य कस्यापि जनस्य सन्ति ॥
Aho ! Shrutgyanam