________________
१०८
फक्विकारत्नमञ्जूषायाम्णिस्थत्वाऽभावेऽपि प्राणिनि दृष्टत्वात्तत्र डीसिद्धिः । ननु प्रतिमादिगतस्तनस्य प्राणिनि कदाऽप्यदृष्टत्वात्मस्तनी प्रतिमेत्यत्र ङीष् न स्यादित्याह-तेन चेत्तत्तथायुतमिति । अप्राणिनोऽपि यदि स्वाङ्गं तेन तज्जातीयेन वस्तुना प्राणी यथा सम्बद्धस्तथाऽप्राणी सम्ब. तुश्चेत्तदपि स्वाङ्गमिति तदर्थः । एवञ्चोक्तप्रयोगे म काऽप्यनुपपत्तिरिति दिक ।
ननु 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधादि'त्यनेनैव विकल्पङीविधानात तुङ्गनासिकी, तुङ्गनासिकेति रूपद्वयोपपत्तौ 'नासिकोदरौष्टजंघादन्तकर्णभंगाच्चे'त्यत्र नासिकोदरग्रहणम्व्य. र्थमित्यत आह-प्राद्ययोबह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्याया दिति । अयम्भावः, नासिकोदरग्रहणाऽभावे नोक्तद्विविधरूपोपपत्तिः, पूर्वसूत्रप्राप्तस्य ङीषो 'न क्रोडादिबह्वचः' इत्यनेन निषेधात् । नासिकोदरग्रहणे कृते तु सामर्थ्यादुक्तनिषेध. स्य प्रतिषेधेन रूपद्वयोपपत्तिः सुलभैवेति । न च नासिकोदरग्रहणसामर्थ्याद्वह्वज्लक्षणनिषेध. प्रतिषेधवत् सह नतित्यस्यापि प्रतिषेधेन सहनासिकेत्यादिप्रयोगो न स्यादिति वाच्यम् । ( पुरस्तादपवादा अनन्तरान्विधीन्वाधन्ते नोत्तरान् ) इति परिभाषया वह्वज्लक्षणनिषेध स्यैव प्रतिषेधेन सहनजित्यस्याऽप्रतिषेधात् । पूर्वोपस्थितबाधेन चारितार्यो पश्चादुपस्थित. बाधे मानाऽभावः, आकांक्षाभावश्चेत्येतस्योक्तपरिभाषोयां बीजत्वादिति दिक् ।
ननु ओष्ठायंशे ङीषनिषेधत्वावच्छिन्नबाधकत्वे सहननित्यस्यापि बाधः स्थादित्या. शां समाध-श्रोष्ठादीनाम्पश्चानामसंयोगोपधादित्यादिना । अयम्भावः, ( मध्येऽपवादाः पूर्वान्विधीन्वाधन्ते नोत्तरान् ) इति न्यायेनोष्टादिपञ्चानामसंयोगोपधा. दिति डोषनिषेधस्यैव बाधकत्वन्न तु सहननित्यस्यापीत्यलम् ।
निपातानामनेकार्थत्वादाह-इति शब्दः प्रकार इति । अयम्भावः, इतिशब्दस्य प्रकारार्थकत्वे सूत्रे भाषायामिति नाऽऽवश्यकम् । न च भाषायामित्यस्योऽग्रहणे छन्द स्यपि डीष स्यादिति वाच्यम् । 'दिक्पूर्वपदान्डी' इत्यत्राऽस्वस्तित्वाच्छन्दसीत्यस्या. ऽसम्बन्धेनेहापि तदसम्बन्धसिद्धरिति प्राश्चः ॥
नव्यास्तु 'दिकपूर्वपदान्डीप' 'वाहः' इतिसुत्रद्वये छन्दसीत्यनुवर्तत एव लोकेत्व न्तोदात्तमेव, एवञ्च 'सख्यशिश्वी ति सुत्रे छन्दसीत्यस्य निवृत्यर्थ भाषाग्रहणमावश्यकम् । इति शब्दश्चाऽथें तेन छन्दस्यपीत्याहुः क्वचिदिति । (१)छन्दसि सर्व विधीनां वैकल्पिक. त्वेन सखा सप्तपदी भवेति सिन्द्रं वचिदाद्युदात्तत्वन्तु छान्दसत्वादिति भावः ।।
ननु भिन्नेष्वभिन्नाऽभिधानप्रत्ययनिमित्तं जातिः, नित्यमेकमनेकाऽनुगत सामान्य. मिति च शुक्लादिगुणस्यैकत्वनित्यत्वपक्षे तत्राऽतिव्याप्तं, जननेन प्राप्यते सा जातिरिति च युवत्वादावब्याप्तमित्यत आह-प्राकृतिग्रहणा जातिरिति । आकृतिरवयवसन्निवेश. विशेषः, गृह्यतेऽनेनेति ग्रहणं, करणे ल्युट, सामान्ये नपुंसकम् । आकृतिम्रहणं यस्याः सा आकृतिग्रहणा, आकृतिज्ञानजन्यज्ञानविषया जातिरित्यर्थः । एकत्र गां दृष्ट्वा तदवयव. सन्निवेशविशेषदर्शनेनाऽन्यस्यामपि ब्यक्तावियं गौरिति बुद्धः मुलभत्वाद्गोत्वं जातिः । तदाह-अनुगतसंस्थानव्यङ्ग्येति । न च बालाद्यवस्थाभेदभिन्नानेकदेहवृत्तिदेवदत्त. त्वादेराकृतिव्यङ्गत्वेन तत्र जातित्वमतिव्याप्तमिति वाच्यम् । समानकालिकाऽनेकव्यक्तिवृ. त्यनुगतसंस्थानव्यग्येति तदर्थ करणेनाऽदोषात् । अवस्थाभेदेऽपि तदभेदाऽप्रतीतेश्च स (१) *छन्दसीति । तदुक्तं सब विधयश्छन्दसि विकल्पन्ते ।
Aho ! Shrutgyanam