________________
स्त्रीप्रत्ययप्रकरणम् ।
१०७ अस्वाङ्गपूर्वपदाद्वा । न स्वाङ्गमस्वाङ्गं पूर्वञ्च तत्पदं पूर्वपदं अस्वाङ्गञ्च तत्पूर्वपदञ्च, अस्वाङ्गापूर्वपदं तस्मादस्वाङ्गापूर्वपदादिति कर्मधारयः अस्वागभूतात्पूर्वपदात्परं यत कान्तं तदन्तबहुब्रीहेर्वा डीषिति तदर्थः । नन्वत्र कर्मधारयाऽऽश्रयणे किम्प्रमाणमिति चेन्न । उत्तरसूत्रस्थभाष्यस्यैव प्रमाणत्वात् । तथा हि, उत्तरसुन्ने भाष्ये कल्याणपाणिपा. देत्यादौः ङीषवारणाय 'अस्वाङ्गापूर्वपदादित्यनुबवं कर्मधारयाऽऽश्रयणादिहाऽपि तथैवोचि. तम् । कल्याणपाणिपादेत्यादौ यदुपसर्जनं पाणिपादेति समुदायो नाऽसौ स्वाङ्ग, स्वाङ्ग. समुदायस्य स्वाङ्गशब्देनाऽग्रहणात् यच स्वाङ्गं पादेति न तदस्वाङ्गपूर्वपदात्परमिति न तत्र डीषित्युक्तम् । नचाऽस्वाङ्गापूर्वपदादिन्यत्र कर्मधारयाऽऽश्रयणेऽस्वाङ्गादित्येव सिद्धेऽत्र सूत्रे पूर्वपदादिति व्यर्थमवेति वाच्यम् । उत्तरसूत्रेऽनुवृत्त्यर्थत्वेन सार्थक्यात् । उत्तरसूत्रे ता. शाऽर्थाऽऽश्रयणेन करमुखीत्यादयः प्रयोगा असाधव एवेति । अस्वाङ्गपूर्वपदेत्यत्रापि जाति. पूर्वपदादित्यस्य सम्बन्धः । अन्यथा बहुननादीनामस्वाङ्गत्वेन तत्पूर्वके विकल्पस्य दु. वारत्वात् । तत्सम्बन्धे सत्येव समाननिमित्तकत्वलाभेन नित्यशास्त्रबाधकत्वमिति भावः ।
उपसर्जनास्किम् । शिखेति । अयम्भावः, 'स्वाङ्गातिसूत्रे उपसर्जनग्रहणा. ऽभावेऽनुपसर्जनाऽधिकारेणाऽनुपसर्जनादपि ङीषापच्या शिखेति न स्यादित्यावश्यकन्तत् सति तस्मिन् तस्योपसर्जनत्वाऽभावान्न तदापत्तिः । न कल्याणपाणिपादेत्यादौ डी. वारणाय, 'अस्वाङ्गपूर्वपदाद्वेत्यनुवर्त्तनात्पर्युदासाऽऽश्रयणेन स्वाङ्गभिन्नपूर्वपदात्स्वाना. न्डीपित्यथें शिखेत्यादौ पूर्वपदत्वाऽभावान्डोषोऽप्राप्त्या कथमिदं प्रत्युदाहरणमिति वा. च्यम् । एवं सति शोभना शिखा सुशिखेत्यस्यैव प्रत्युदाहरणत्वात् । यतु उपसर्जनादि. त्यस्याऽभावेऽनुपसर्जनाधिकारात्सूत्रस्यैव वैयर्थ्यमित्याहुः केचित्तन्न 'बहुव्रीहेश्चान्तोदा. त्तादित्यत्र बहुब्रीहिग्रहणसामर्थ्यादनुपसर्जनाधिकारानुवृत्तेः । नागेशास्तु शिखेत्येव प्रत्युदाहरणं शोभनेत्यादि मशिखान्तं प्रक्षिप्तः पाठः विशिष्टेऽनदन्तत्वेन सूत्राऽप्राप्तः । यत्तु भाष्येऽशिखेत्येव प्रत्युदाहरणं तस्याऽप्येकदेश एव तात्पर्यमित्याहुः । न च ( उपस. अनिष्यमाणनिमित्तोऽप्यपवाद उपसम्जातनिमित्तमप्युत्सर्ग बाधते ) इति परिभाषया प्राक्टापोऽप्राप्त्या युक्तमेव सुशिखेत्यादिप्रत्युदाहरणमिति वाच्यम् । अपवादशास्त्रप्रवृत्ति. मन्तरा यत्रोत्सर्गशास्त्रस्य न प्रवृत्तिस्तत्रैव तत्प्रवृत्तेः । यथा दधतीत्यादो, नाऽत्र तथा, अपवादशास्त्रप्रवृत्तिमन्तराऽपि टापः प्रवृत्तेरित्यलम् ॥ ___ ननु स्वाङ्गाच्छे ति सूत्रे स्वाङ्गपदेन स्वमङ्ग स्वामिति विवक्षिते समुखा शालेत्यवाऽपि लीषापत्तिः स्यान्मुखस्य शालाङ्गत्वात् , सकेशी रथ्येत्यत्र च न स्यात्केशानां रथ्याऽङ्गत्वाऽभावादित्याह-स्वाङ्गं त्रिधेति । क्रमेणोदाहरति-पद्रवमिति । अद्र वत्वे सति मूर्तिमत्त्वमिति तल्लक्षणं पर्यवसितम् । एवञ्च मुस्वेदेत्यादौ मूर्तिमत्वेऽपि लक्ष. णघटकाऽद्रवत्वरूपविशेषणाविशिष्टतया स्वाङ्गत्वाऽभावात्सूत्राऽप्राप्त्या न ठीष । सुज्ञाने. त्यादावद्वत्वेऽपि मूर्तिमत्वाऽभावान्न ङीष् । नन सुमुखा शालेत्यत्र डीष् स्यादित्याहप्राणिस्थमविकारजमिति । प्राणिस्थत्वे सति विकारजभिन्नत्वमिति लक्षणं बोध्यम् । एवञ्चोक्तप्रयोगे मुखस्य विकारजभिन्नत्वेपि प्राणिस्थत्वाभावात् ससोपेत्यादौ प्राणिस्थ. त्वेऽपि विकारजाऽन्यत्वाऽभावान्न ङीष् । ननु सकेशी रथ्येत्यत्र केशस्येदानी प्राणिस्थत्वा. ऽभावात्पूर्वलक्षणेन सिद्धिर्न स्यादित्याह-प्रतत्स्थं तत्र दृष्टञ्चेति । सम्प्रति प्राणिस्थत्वाऽभावेऽपि प्राणिनि दृष्टं यत्तदपि स्वाङ्गमिति तदर्थः । एवञ्च केशस्य सम्प्रति प्रा.
Aho! Shrutgyanam