________________
१०६
फक्किका रत्नमञ्जूषायाम्-
म् । तथा सति पीतेत्यत्र डीष्वारणाय तदावश्यकत्वादिति दिक् ॥
श्रक्तिन्नर्थात्किम् । श्रजननिरिति । ननु सर्वतोऽक्तिन्नर्थादिति किमर्थम्, समुदा. यद्वारावयवे प्रश्नः, अर्थादर्थग्रहणं किमर्थमिति प्रष्टुरभिप्रायः । न च तदभावेऽजननिरित्यत्र ङीषापत्तिरिति वाच्यम् । अक्तिन्ग्रहणसामर्थ्यादेव तत्र दोषोद्धारसम्भवात् । न. arfarera न्निन्तादपि ङीषापत्तिस्तद्व्यावृत्यर्थं तस्याऽऽवश्यकत्वेन सामर्थ्य बिरहात्तेन कथमुक्तस्थलीयदोषोद्धारसम्भव इति वाच्यम् । एवं सति वह्नादिगणेपद्धतिशब्दपाठस्य वैयर्थ्यापत्तेः । एवञ्च व्यर्थमक्तिन्ग्रहणं ज्ञापयति इकारान्ताद्यदि ङीष् स्यातर्हि चिन्नन्तभिन्नादेवेति । एतन्नियमबलादेव पद्धतिशब्दपाठो गणे चरितार्थः । तथा च क्तिन्नन्तभिन्नत्वेनाजननिरित्यत्र ङीष् स्यादित्यर्थग्रहणमावश्यकम् । सति तु तस्मिन् क्तिन्नन्तभिन्नत्वेऽपि तदर्थष्फप्रत्ययान्ततया नोक्ताऽऽपत्तिलेशोऽपीति भावः ॥
ननु सूत्रे ब्रह्मन्शब्दस्याऽग्रहणादानुगनुपपत्त्या ब्रह्माणीति न स्यादित्याशयेनाशङ्कते - कथं ब्रह्माणीति । उत्तरयति - ब्रह्माणमानयतीत्यादिना । ण्यन्तात् 'अन प्राणने ' इत्यस्मात्कर्मण्यणि 'णेरनिटि' इति णिलोपे 'टिड्ढाणनि' ति ङीषि 'पूर्वपदात्संज्ञायामि' ति णत्वे च ब्रह्माणीतिरूपसिद्धिरिति भावः । नचाऽऽनुकि दीर्घोचारणं ज्ञापयति क्वचिद. न्यत्राऽण्यानुग्भवतीति ब्रह्माणीतिरूपसिद्धौ मूलोक्तप्रयासो व्यर्थ इति वाच्यम् । आकारोच्चारणाऽऽभावे पररूपापत्तेर्दुब्र्बारत्वेन तद्वयावृत्त्यर्थं दीर्घोच्चारणस्याऽऽवश्यकत्वात्साम
विरहेणोक्तकल्पनाऽसम्भवेन मूलोक्तप्रयासस्य सार्थक्यात् । नचाडका रोच्चारणसामर्थ्यान पररूपाऽपत्तिरिति वाच्यम् । अल्लोपोऽन:' इति लोपवारणायाsकारोच्चारणस्याऽऽवश्यकत्वात्तेन पररूपबाधाऽसम्भवात् । न च (१) ( लक्षण - प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहनम् ) इति परिभाषया प्रकृत्यकारघटितस्यास्यानो लाक्षणिकत्वेनाऽग्रहणान्न लोपप्राप्ति. रिति वाच्यम् । 'बहुव्रीहेरूधसो ङीष् इत्येतत्सूत्रस्थभाष्यादल्लोपोऽन इत्येतद्विषये प्रति - पदोक्तपरिभाषाया अप्रवृत्तेः । न च नकारमात्रविधानेनैवोपपत्तावागमलिङ्गककारोच्चारणसामर्थ्यादेव लोपो नेति वाच्यम् । 'न संयोगाद्वमन्तात्' इति निषेधेन लोपाऽप्राप्त्या सर्बाणीत्यत्र ककारोच्चारणस्य चरितार्थत्वात् । एवञ्च लोपव्यावृत्त्यर्थमकारोच्चारणस्याऽऽवश्यकत्वात्तत्सामर्थ्यात्पररूपबाधनाऽसम्भवेन तद्वारणाय दीर्घोच्चारणस्य सत्त्वात्तेनोक्तकल्पनायाः कर्तुमशक्यत्वादुक्तप्रयोगानुपपत्त्या युक्त एव मूलोक्तप्रयास इति दिक् ॥
ननु (गति - कारकोपपदानां कृद्भिः सह समासवचनम् ) इति परिभाषासत्त्वात्सुबुत्पत्तेः प्रागेव समासे तदानीमदन्तत्वेन 'क्रीतात्करणपूर्वादि' त्यनेन डीप् न स्यादित्याशङ्कय समाधत्ते - क्वचिन्न, धनक्रीतेति । 'कर्तृकरणे कृता बहुलमि' त्येतत्सूत्रस्थबहुलग्रहणेनोक्तपरिभाषाऽनित्यत्वज्ञापनात्क्वचित्वबुत्पत्य नन्तरमपि समास इत्यन्तरङ्गत्वात्समासात्प्रागेव दापि ततः समासे करणपूर्वत्वे ऽप्यदन्तत्वाऽभावान्नोक्ताऽऽपत्तिरिति समाधातुराशयः । श्रन्ये तु, उक्तपरिभाषाऽनित्यत्वस्य कर्तृकरण इति सूत्रे भाष्ये बहुलग्रहणफलत्वेनाऽनुक्तत्वात् हृदिस्थ इत्यादौ पत्वाभावाय 'अम्बाम्बे' ति सूत्रे गवादिग्रहणस्यापि नियमार्थमावश्यकत्वादुक्त परिभाषाऽनित्यत्वाभावादुक्तप्रयोगोपपत्तये सत्यभिधानेऽजादित्वाट्टाबिति बदन्तीत्यलम् ॥
( १ ) *लक्षणेति । लाक्षणिकमित्यर्थः । लक्षणेन निष्पन्नं लाक्षणिकम् । तत्तच्छन्दानुवादेन विहितत्वं प्रतिपदोक्तत्वम् ।
Aho! Shrutgyanam