________________
१०५
स्त्रीप्रत्ययप्रकरणम्। ग्रहणे किम्प्रमाणमिति वाच्यम् । 'आकडारादेका संज्ञा' इत्येतत्सूत्रस्थभाष्यस्यैव प्रमा. णत्वात् । उक्तसूत्रस्थभाष्यपालोचनेन तादृशशब्दानामेवोक्तसंज्ञालाभात् । तत्र हि प्रातिपदिकमात्रस्य गुणवचनसंज्ञाम्प्रतिपाद्याऽग्रे तद्वाधकत्वेनैताः संज्ञाः क्रमेण पठिताः । गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनगुणिवाचकानामेव तादृशानां गुणवचनसंज्ञेति न रूपा. दीनां ग्रहणम् । तत्र जातिपदेनाऽकृतिग्रहणद्रव्यवृत्तिजातिवाचकानामेव ग्रहणादिति दिक् ॥ . यत्तु-भाष्ये अत्र सूत्रे गुणवाचनशब्देन ।
सच्चे निविशतेऽपैति पृथग्जातिषु दृश्यते ।
आधेयश्चाऽक्रियाजश्च सोऽप्लत्वप्रकृतिर्गुणः ॥ इति गृह्यते तन्न, एतद्भाष्यस्यैकदेश्युक्तित्वात् । इत्थमुक्तकारिकाव्याख्या । तथा हि-सत्त्वं द्रव्यम् तत्रैव निविशते समवैति, यो गुणो द्रव्यमानसमवेत इत्यर्थः । एतेन सत्ताब्यावृत्तिः । सत्ता हि न केवलं द्रव्ये वर्तते किन्तु द्रव्यगुणकर्मम् । ननु द्रव्ये एव व्यत्वं तत्राऽतिव्याप्तिरित्याह-अपैतीति । अपगच्छतीत्यर्थः । अर्थात्लत्वादेवाऽपगच्छतीति यावत् । यथा पीततायां जातायां फलादेर्नीलताऽपैति न तथा द्रव्यत्वं द्रव्यादपैति । नन्वेवमपि गोत्वं गोषु वर्तते, अश्वादेश्चाऽपैति तत्राऽतिव्याप्तिरित्यत आह-पृथग्जातिष द्रश्यत इति । गोत्वं हि द्रव्यत्वाऽवान्तरनानाजातिषु न दृश्यते गुणस्तु दृश्यते । यथा, अभ्रे दृष्टा नीलता तृणादिष्वपि दृश्यते एतेन सकलजातेय॑वच्छेदः । एवं तहि कर्म द्रव्ये वर्तते ततोऽपैति पृथाजातिषु दृश्यते चेति तत्राऽतिव्याप्तिरित्यत आह-आधेयश्चाक्रियाजश्चेति । उत्पाद्याऽनुत्पाद्य इति तदर्थः । उत्पाद्यो यथा घटादेः पाकजो रूपादिः, अनुत्पाद्यो यथा, आकाशादेमहत्त्वादिः । क्रिया तु सर्वाऽप्युत्पाद्यैव न नित्येति तस्या द्वैविध्याऽभावाद्गुणत्वाऽभावः । नन्वेवमपि द्रव्यस्य गुणत्वं प्राप्नोति, अवयविद्रव्यं ह्यवयवद्रव्ये निविशते, असमवायिकारणसंयोगनिवृत्तौ विनाशात्ततोऽपैति, भिन्न जातिषु हस्तपादादिषु च दृश्यते । द्विविधं च भवति । नित्यानित्यभेदेन निरवयवस्यात्मपरमा. ण्वादेनित्यत्वात्तदवयविद्रव्यस्य तु घटादेरनित्यत्वादत आह-असत्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः ॥ ___ ननु गुणवाचिनो वा ठोपित्यथनैव मृद्वी मृदुरित्यादिसिद्धौ 'वोतो गुणबचनादि'त्यत्रोत इति व्यर्थमित्यभिप्रेत्य शङ्कते-उतः किमिति समाधत्ते-शुचिरिति । शुचेरौणादिके किदिनि तत्सिद्धिः । अयम्भावः, सूत्रे तदग्रहणे शुचिरित्यादौ ङीषापत्तिः । न च तत्रोत इत्यस्यासत्वेऽजाद्यतष्टावित्यस्मादत इत्यस्य सम्बन्धेनोदाहरणस्यैवाऽसिद्धया प्रत्युदाहर णदानमसङ्गतमिति वाच्यम् । एवं सति खरुरित्यादौ ङीषोऽप्राप्त्या तद्वयावर्त्तक ( खरु. संयोगोपधान्ने )ति वात्र्तिकाऽऽरम्भसामादुक्तसूत्रादत इत्यस्याऽसम्बन्धेनोदाहरणसिद्धौ वाधकाऽभावात्प्रत्युदाहरण दानस्य सङ्गतत्वात् । नचोक्तप्रत्युदाहरणे ( कृदिकारादक्तिनः) इति ङीष इष्टापत्तौ कथं तस्य प्रत्युदाहरणत्वमिति वाच्यम् । तथा सत्ति शुक्लेत्यस्यैव प्रत्युदाहरणत्वात् । नचाऽत्राऽपि ( खरुपयोगोपधादि )ति निषेधान्नोक्ताऽऽपत्तिरिति वा. च्यम् । खरुसाहचर्य्यादुकारान्तसंयोगोपधादेव तेन निषेधेन तत्राऽऽपत्तेर्दुरित्वात् । न च साहचर्य्यपरिभाषाया अनित्यत्वादुकारान्तसंयोगोपधादेव तेन निषेध इत्यस्य वक्तु. मशक्यतया वार्तिकस्य सामान्यार्थकरणे शुक्लेत्यत्र दोषाभावाद्वयर्थन्तद्ग्रहणमिति वाच्य
Aho! Shrutgyanam