________________
१०४
फक्किकारत्नमञ्जूषायाम्-- पि विशुद्धत्वसाधाददातशब्दप्रवृत्तिसम्भवादिति भावः ॥
लघावन्ते द्वयोश्च बह्वषो गुरुरिति । अन्ते नाम एकस्मिन् लघौ द्वयोर्लयोश्च पश्तो बह्वषो वह्वच्कस्य गुरुरुदात्त इत्यर्थः ।
ननु पितामहीत्यादिरूप सिद्धयर्थ 'पितृव्य-मातुल-मातामहेति सूत्रस्थस्य (मातरि षिच्चे)ति वचनस्याऽऽवश्यकत्वेन तेनैव पित्वविधानातल्णङ्गोषि मातामहीत्यस्याप्युपपत्ती गौरादिषक्तशब्दपाठो व्यर्थीभूय ज्ञापयति पिल्लक्षणो डीपनित्य इति तेन दश्यतेऽनेन दष्टे. त्पादौ दशेः ष्ट्रनि न पित्बप्रयुक्तलीषापसिः किन्तु टावेवेति भावः ॥
ननु 'उत्सादिभ्योऽञ्' इत्यनेन तत्र भव इत्यर्थे जनपदशब्दादमि तल्लक्षणडीपि च कृते जानपदीत्यस्य सिद्धौ सूत्रे तद्ग्रहणम्व्यर्थमिति चेन्न । ङीषा रूपोपपत्तावपि डीप्याधदात्तत्वे प्राप्तेऽन्तोदात्तत्वार्थमिहाऽपि सदावश्यकत्वात् । जानपदी वृत्तिः । जनपदभ. कानुच्छेद्या जीविकेत्यर्थः । ___ अमत्रे हि स्त्रीविषयत्वादिति । कमण्डलुरूपे इत्यर्थः । कुण्डी-कमण्डलौ जारात्पतिवत्नीसतः पुमानिति विश्वकोशात्कमण्डलुवाच्ये कुण्डशब्दो नित्यस्त्रीलिङ्ग इति भावः । यदि तु पिठरे तु न ना कुण्डमिति विश्वकोशे नपुंसकत्वमप्युक्तं पिठराऽमत्रशब्दो कायौ पिठरं स्याल्युषा कुण्डमित्यमरे नपुसकत्वमात्रोक्तिरेकदेशाऽनुवाद इत्युच्यते तदाऽनेकविधसंस्थानेषु अमत्रेषु कुण्डव्यवहारेण कुण्डत्वे जातिलाऽभावादप्राप्तो डी बि. धीयते न तु नियम्यते । एवञ्च स्त्रीविषयत्वादिति जातित्वाऽभावादित्यस्योपलक्षणं बोध्यमिति बहवः । अन्ये तु कमण्डलुसंस्थानस्याऽनुगतत्वात्तद्रूपामात्रवाचिनो जातित्वस्य सरवाजातेरस्त्रीत्येव ङीषः सिद्धौ सूत्रमिदं नियमार्थमेवेत्याहुः । अमृते जारजायां कुण्डे. त्येव । गोणी प्रावपनं चेदिति । आवपने च मित्यस्त्रीत्वादप्राप्तस्य डोषो विधानम् । आवपममिति सामान्ये नपुंसकम् ।
_ ननु गजवाचकनागशब्दस्य जातिवचनत्वेन 'जातेरस्त्रीविषयादयोपधादित्येव डीषि सिद्ध व्यर्थ मेवाऽन्न सूत्रे तद्ग्रहणमित्याशंक्य समाधत्ते -गजवाची नागशब्द इत्या. दिना । कस्यांचित् स्त्रियां स्थौल्यगुणदर्शनादारोप्य तत्र नागत्वमियं नागीति प्रयुक्त तस्यैकव्यक्तिमात्रवृत्तित्वेन जातित्वाभावाजातेरिति डीपोऽप्राप्त्या तदर्थ मिह नागग्रहण नावश्यकम् । नचाऽऽरोपितनागत्वविशिष्टस्त्रीबोधकनागशब्दस्य गौणत्वेन (गौणमुख्य) न्यायेन तस्याऽत्राऽग्रहणान्न डीषः प्राप्तिरिति व्यर्थमेव तद्ग्रहणमिति वाच्यम् । मुख्यना. गशब्दाजातेरित्येव डीपः सिद्धावेतत्सूत्रस्थनागशब्दस्य गौणे ङीषविधानेनैव चारिता
र्थ्यात् । किञ्चोक्तन्यायस्य पदकार्यविषयकत्वेनेहाप्रवृत्तेः । विधित्वाऽनुरोधादस्य सूत्रस्य गौणेऽपि प्रवृत्तेश्चेति भावः । ननु मुख्यनागाब्दाजातेरित्येव गौणनागशब्दाच्चैतत्सूत्रेणैव डीषि सिद्धे सुत्रे स्थौल्यग्रहणं किमर्थमित्यारंक्य समाधत्ते-सर्पवाची नागशब्द. स्त्विति । दैर्घ्यगुणविशिष्टां काञ्चित्स्वियमवलोक्य नागत्वं तत्राऽऽरोप्येयं स्त्रो नागा सपि. णोति प्रयुक्त ततो ङीष्व्यावृत्तये सूत्रे स्थौल्यग्रहणमिति । एवञ्च गौणनागशब्दस्यैवैतत्सू. त्रोदाहरणत्वं प्रत्युदाहरणत्वञ्चेति भावः ॥
वोतो गुणवचनात् । अत्र सूत्रे गुणवचनशब्देन समस्त-कृदन्त-तद्धितान्त-सर्वनाम-जाति-संख्या-संज्ञाशब्दाऽतिरिक्तानां शब्दानां ग्रहणम् । न च गुणवचनशब्देनेदृशानां
Aho! Shrutgyanam