________________
स्त्रीप्रत्ययप्रकरणम् ।
६०३
निषेधेन केवलपतिशब्दस्यतदन्तत्वाऽभावात्सूत्राऽप्राप्त्या दोषाभावात्सपूर्वस्येति व्यर्थमेवेति दिक् ॥
ननु 'वृषाकप्यग्नी'ति सूत्रे भाष्ये वृत्तौ च वृषाकप्यर्थमुदात्तग्रहणमन्यथा 'लघावन्ते द्वयोश्च वषो गुरुरिति मध्योदात्तापत्तेरित्युक्तम् । कुसिदशब्दस्य दीर्घमध्यत्वे तु कुसिदा • र्थमप्युदात्तग्रहणस्य वक्तव्यत्वात्तदनुक्त्या ह्रस्वमध्यत्वमेवोक्तशब्दस्य न तु दीर्घमध्यत्वमि - त्यत आह- कुसिदशब्दो हस्वमध्यो नतु दीर्घमध्य इति ॥
ननु 'वर्णादनुदातेति सूत्रेऽधिकृतस्यानुपसर्जनादित्यस्य ( श्रुतानुमितयोरिति न्यायेन गृह्यमाणविशेषणत्वात् त्रीण्येतान्यस्या इति बहुबीहावेतशब्दस्याऽन्यपदार्थे विशेषणत्वेनोपसर्जनत्वान्डीब्नत्वे न स्यातामित्याशंक्य समाधत्ते - त्र्येण्या च शलल्येतीति । अयम्भावः लक्ष्याऽनुरोधेनोक्तन्यायं बाधित्वोक्ताधिकारस्य तदन्तविशेषणत्वमेवोचितम् । तथा च तत्रैतशब्दस्योपसर्जनत्वेऽपि तदन्तस्याऽनुपसर्जनत्वान्न डीब्नत्वयोः किमपि प्रतिबन्धकमिति । अत एव गृह्यसूत्रवृत्तिकृता नारायणेनोक्तप्रयोगे बहुब्रीहिँ कृत्वा डोब्नत्वमि - त्युक्तमिति प्राञ्चः । नव्यास्तु -- 'उपमानानी' ति सूत्रस्थभाष्यस्वरसात् 'टिड्ढाणञिति सूत्रेऽनुपसर्जनादित्यस्य गृह्यमाणविशेषणत्वमेवोचितम् । अत एव कुम्भकपालं लोहित मिवेति विग्रहे कुम्भकपाललोहिनीत्यत्र लोहितशब्दस्योपसर्जनत्वाद्वर्णादनुदात्तादित्यनेनाऽनुपसर्जनलक्षण ईकारो न प्राप्नोतीत्याशंकितमुपमानानीति सूत्रे भाष्ये । एवञ्च त्रिषु स्थानेषु पुनी त्र्येणीति सिद्धमित्याहुरिति दिक् ॥
ननु 'अन्यतो डीपिति सूत्रेण तकारोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकान्डी विधानेन पिशङ्गशब्दस्य 'लघावन्ते द्वयोश्च वषो गुरुरित्यनेन मध्योदात्तत्वाच्छेवस्य 'अनुदात्तं पदमेकवर्ज मिश्स्यनेनाऽनुदात्तत्वविधानादुक्तशब्दस्यानुदात्ताऽन्तत्वात्तस्मा. न्ङीथि प्राप्ते डोबधं वार्त्तिकमवतारयति - पिशङ्गादुपसंख्यानमिति । वर्णवाचिनः पिशङ्गशब्दान्हीप् स्यादिति तदर्थः स च ढोप् न नित्यः किन्तु वैकल्पिक इति पिशंगेति. रूपवयसिद्धिः । न च डीविधानेनैवोपपत्तौ तं विहाय डी विधाने को विशेष इति वा - च्यम् । स्वरे विशेषादिति भावः ॥
छन्दसि नमेक इति । वर्णादनुदात्तात्तोपधात्तो न' इत्यनेन, असित पलितयोस्तकारस्य प्राप्तं नत्वं बाधित्वा क्नमाऽऽदेशं तत्सन्नियोगेन ङीपं चेच्छन्त्येके आचार्या इत्यर्थः । अत्र छन्दसीत्युक्त्या भाषायां क्नमादेशस्य भाष्यासम्मतत्वात्तत्र गतो गणस्तूर्णमसिक्निकानामित्यादयः प्रयोगाः प्रामादिका एवेति प्राञ्चः । वस्तुतस्तु, छन्दस्येके इत्यन्वयात छन्दस्येवैके क्नमाऽऽदेशमिच्छन्ति । श्रन्ये तु भाषायामपीति पर्यवसितोऽर्थः, तथा च नोक्तप्रयोगे काऽप्यनुपपत्तिः । अनैकग्रहणमेव प्रमाणमन्यथा भाष्यकारो नैकग्रहणं कुर्यादित्याहुरिति भावः ॥
ननु पूर्वका हैप शोधने इत्यस्माद्धातोः क्तप्रत्यवे 'आदेच उपदेशेऽशिती' स्यात्वे नि. ष्पन्नस्यावदातशब्दस्य विशुद्धवाचित्वेन वर्णवाचित्वाऽभावाद्वर्णादनुदात्तादिति डीपोsप्राप्त्या टावेवेत्यत आह- श्रवदातशब्दस्तु न वर्णवाची किन्तु विशुद्धवाची । तेन श्रवदातेत्येवेति । न च, अवदातः सितो गौरी वलक्षो धवलोडजुन इत्यमरकोशेऽवदातशब्दस्य वर्णवा चित्वदर्शनात्तत्र डीपो दुर्वारत्वेन कथमवदात इत्युक्तमिति वाच्यम् । तत्रा
Aho! Shrutgyanam