________________
१०२
फकिकारत्नमञ्जूषायाम्-- निकनकारघटितोऽयमेव पतिशब्दः स्वपूर्वत्वसम्बन्धेन डीविशिष्टः स्वभावास्त्रियाम्प्रव. र्तत इति तदाशयः । सम्बन्धश्च यज्ञफलप्रतियोगिकैश्वर्यवचन्तदाह-तत्कर्तृकयज्ञस्य फलभोक्त्रीति ॥
ननु ‘पत्यु! यज्ञसंयोगे' इत्यत्राऽधिकृतस्याऽनुपसर्जनादित्यस्य पत्युरिति षष्टयन्तेन सामानाधिकरण्याऽनुरोधात् षष्ट्यन्तत्वकल्पनादनुपसर्जनस्य पत्युरिति तत्सम्बन्धिनोऽ. नुपसर्जनस्येत्यस्य 'पूतक्रतोरि त्युत्तराऽथं 'विभाषा सपूर्वस्ये त्यत्राऽनुवृत्तावपि न पत्यु. विशेषणत्वं किन्तु पतिशब्दाऽन्तस्येत्याशयेनाह-अनुपसर्जनस्येतीहोत्तरार्थमनुवृ. त्तमपि न पत्युबिशेषणं किन्तु तदन्तस्येति । सपूर्वस्येत्यत्र व्याख्यानात्सहशब्दस्य विद्यमानवाचित्वं पूर्वशब्दस्य पूर्वाऽवयवपरत्वं तत्र पतिशब्दस्य विद्यमानपूर्वावयवत्वास. म्भवाव्यभिचाराच सामर्थ्यात् ( ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती) तिप्रतिषेधं बाधित्वा पतिशब्देन तदन्तस्य ग्रहणात्केवलस्य पतिशब्दस्याऽत्राऽभावात्सपूर्वविशेषणसद्भावात्कथमनुपसर्जनस्येति केवलपतिशब्दस्य विशेषणम्भवितुमर्हतीति भावः । अनुपसर्ज. नस्येत्यस्य तदन्तविशेषणत्वे फलमाह-तेन बहुब्रोहावपीति । दृढ़ः पतिर्यस्या इति विग्रहे वत्यन्तस्याऽनुपसर्जनत्वाद्विकल्पेन नकारे दृढ़पत्नी दृढ़पतिरितिरूपद्वयसिद्धिः अनुपसर्जनस्येत्यस्य पत्युर्विशेषणत्वे तूक्तविग्रहे पतिशब्दस्योपसर्जनत्वाद्रूपद्वयं न सिद्ध्येत् । बहवो वृषलपतयो यस्या इति कर्मधारयोत्तरपदबहुब्रीही पतिशब्दान्तस्य वृषलपतीत्यस्योपसर्जनत्वात्तत्रातिप्रसङ्गवारणायेहाऽप्यनुपसर्जनपदसम्बन्ध इत्यन्ये । (१)इदमुपसर्ज नस्योपलक्षणम् , अतः पतिमतिक्रान्ताऽतिपत्नोति सिद्धमितिति भावः ।
ननु 'विभाषा सपूर्वस्येत्यत्र सहशब्दस्य विद्यमानाऽवयववाचित्वेन विद्यमानावयव. पूर्वस्य पतिशब्दान्तप्रातिपदिकस्य नवमित्यर्थे समास एवास्य प्रवृत्तिः स्याद्वाक्ये न स्यात् । न च 'पत्युनों यज्ञसंयोग' इत्यनेन वृषलस्य पत्नीति वाक्येऽपि मुलभ एवादेश इति वाच्यम् । तत्राऽपि यज्ञसंयोगे इत्यस्य सत्त्वाद् वृषलत्वेन यज्ञसंयोगाऽभावादस्याऽ. ध्यप्रवृत्तेरित्याशयेनाशंकते-अथ वृषलस्य पत्नीति ब्यस्ते कथमिति चेदिति । समाधत्ते-पत्नीव पत्नीत्युपचारादिति । अग्निसाक्षिकपाणिग्रहणाश्रयणादित्यर्थः । यज्ञफलप्रतियोगिकैश्वर्ट वत्त्वस्याऽऽरोपादिति केचित् । बृषलस्त्रियां बहुधर्माचरणदर्शनादियं वृषलस्य पत्नी वशिष्ठस्य वेति लोकप्रवाद इत्यन्ये । नन्वेवं यज्ञसंयोग इति व्या. वर्याऽभावाद्वयर्थमित्याशंक्य समाधानान्तरमाह-यढेति । वस्तुतस्तु, आचारविबन्तप्र. कृतिककर्तृक्विपि दृढ़प्रमाणाऽसत्त्वादियं प्रौढौक्तिः । पूर्वसूत्रे यज्ञसंयोगे इत्यस्य तु वृषलस्य पतिः स्त्रीत्यस्य साधनेन सार्थक्यमिति भावः ॥
ननु 'विभाषा सपूर्वस्ये' त्यत्र पत्युरित्यस्य प्रातिपदिकविशेषणत्वेन 'येन विधिरिति तदन्तविधौ पतिशब्दान्तस्येत्यर्थे दृढपत्नीत्यादिसिद्धाववयववाची पूर्वशब्दः किमर्थ इत्याशयेनाऽऽशंकते--सपूर्वस्य किमिति । प्रत्युदाहरणमुखेन समाधत्ते-गवां पतिः स्त्रीति अयम्भावः, तदभावे केवलस्यापि पतिशब्दस्य व्यपदे शिवद्भावेन पतिशब्दान्तत्वादुक्तस्थ. लेऽतिप्रसङ्गः स्यादिति तदावश्यकं सति तु तस्मिन् गवामित्यस्य पूर्व सत्त्वेऽपि तस्य प. तिशब्दाऽवयवत्वाऽभावान्नाऽतिप्रसङ्ग इति । वस्तुतस्तु, व्यपदेशिवदावोऽप्रातिपदिकेनेति (१) *इदमिति । बहुव्रीहावपीतीत्यर्थः।
Aho! Shrutgyanam