________________
स्त्रीप्रत्ययप्रकरणम् ।
ननु 'दाम - हायनान्ताच्चेति' सूत्रे 'संख्याऽव्ययादेर्डीप्' इत्यस्मादव्ययग्रहणस्याऽस्यरितत्वेन भाष्यकृतोऽनुवर्तितत्वादुद्दामेत्यत्रो कसूत्राऽप्राप्त्या डाप्-डीप-निषेधेतु बहुराज्ञी. वद्रूपत्रर्थं भत्रत्येवेत्यत आह-श्रव्ययग्रहणाननुवृत्तेरुद्दामा वडवेत्यत्र डान्निषेधावपि पक्षे स्त इति । अपिना अन उपनेति ङीपश्च संग्रहः, नवोक्तसब्दघटका ग्नोऽनर्थकवेन कथमन उपवेत्यस्य प्राप्तिरिति वाच्यम् । (अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तद्तविधि प्रयोजन्ती ) ति परिभाषयाऽन्ग्रहणेऽनर्थकस्यापि तस्य ग्रहणादिति भावः ||
ननु संज्ञाशब्दानां नियताऽऽनुपूर्वीकत्वेनाऽनादित्वाच्छन्दसि दृष्टस्यैवाऽनुविधानात्तत्र द stoभावविशिष्टस्य प्रयोगासम्भवात्तादृशप्रयोगस्य च 'अन उपवेत्येव सिद्धौ 'नित्यं संज्ञाछन्दसोरिति सूत्रं व्यर्थमिति चेन्न । केवल - मामक- भागधेये 'त्युत्तरार्थत्वेन सार्थक्यात् । नचोत्तरायं कृतस्य नित्यं संज्ञा-छन्दसोरित्यस्याऽऽरम्भसामर्थ्यादेव नित्यत्वलाभेऽत्रत्यनित्यग्रहणं विफलमेत्रेति वाच्यम् । उत्तरसूत्रे विकल्पाननुवृत्यर्थत्वेन साफल्यादिति भावः || ननु ममेयमित्यर्थेऽ मिच्छन्दात 'युष्मदस्मदोरन्यतरस्यां खञ्चेत्यनेनाऽणि 'तवक-ममकवेकवचने' इति ममकाऽऽदेशे आद्यवो वृद्धौ मामकेत्यस्याऽण्णन्तत्वादेव ङीपि सिद्धे 'केवल - मामक - भागधेयेति सूत्रस्थं मामकग्रहणं व्यर्थमेवेति चेन्न । अण्णन्तान्मामकशब्दाद्यदि ङीप् स्यात्तर्हि संज्ञा-छन्दसोरेवेति नियमार्थत्वेन सार्थक्यादित्यत आह-मामकग्रहणं नियमार्थमिति । नचाइनेन मामकशब्दान्ङीप एव विधानात् (मामक - नरकयोरुरसंख्यानम् ) इत्यत्र मामकग्रहणं व्यर्थमिति वाच्यम् । मं मातीति मामः मामं कायतीति मामिकेत्यत्रेत्वविधानार्थं तद्ग्रहणस्य सार्थक्यात् । नचान्नापि केवल-मामकेत्यस्य प्राप्तिरिति वाच्यम् । भागधेयशब्द साहचय्र्येण तद्धितान्तस्यैव मामकशब्दस्यात्र ग्रहणात् । नियमस्य व्यावर्त्त्यमाह-तेन लोकेऽसंज्ञायां मामिकेति । न च मामक-नरकयोरितिवात्तिं काऽऽरम्भसामर्थ्यान्ङीबभावकल्पनेन कथं मामिकेत्यस्य नियमत्र्यावर्त्यत्वमिति वाच्यम् । उक्तवार्त्तिकस्याऽऽप्परत्वाऽभावेऽपीत्वविधानेन चरितार्थत्वात्सामर्थ्याविरहेण ङीबभावस्य कल्पयितुमशक्यतया ङीपो दुर्वारत्वेनोक्तप्रयोगस्य नियमव्यावर्त्यत्वस्य सुलभत्वादिति भावः ॥ 'तस्यास्त्यस्मिन्निति मतुबिति सूत्रस्य तदितिप्रथमान्तात् षष्ठ्यर्थे सप्तभ्यर्थे चाऽस्तिना स्वामानाधिकरण्ये सति मतुष्स्यादित्यर्थेऽस्तीत्यत्र तिर्थकर्त्रा सह प्रथमान्तस्याSभेदान्वयेन प्रथमान्तान्मतुप् सिद्ध्यति, तथा च, अन्तरस्त्यस्यां गर्भ इति विग्रदे मध्ये इत्यर्थकस्याऽन्तःशब्दस्याऽधिकरणशक्तिप्रधानत्वादस्तिसामानाधिकरण्याऽभावान्मतुप् स्यात् । नचोक्तमतुब्बिधायक सूत्रेऽस्तिग्रहणस्याऽस्ति सामानाधिकरण्याऽभावेनाऽरितशब्दान्मतुब्विधानार्थत्वादुक्तप्रयोगे मतुप् सुलभ वेति वाच्यम् । तेन प्रथमान्तादेव मतुपो विधानात् । अत एवाऽस्तिना सामानाधिकरण्याऽभावादप्राप्तो मतुप् निपात्यते इति भाष्योतं सङ्गच्छते । एवञ्चोक्तरीत्या प्रकृते मतुप् नैव स्यादित्याशंकां समाधत्ते - गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते इति । नुक्सन्नियोगेन मतुपो विधानं वत्वं तु 'मादुपधायाश्च मतोर्वोऽयवादिभ्य' इत्यनेनैव सिद्धिमिति भावः ॥
न
ननु 'पत्युर्नो यज्ञसंयोगे' इति सूत्रे संयोगपदं सम्बन्धोपलक्षणमित्यत आह-2 - यज्ञेन सम्बन्ध इति । स्त्रिया इत्यर्थः । यद्यपि पतिशब्दः पुल्लिङ्गस्तथापिः स्ववाच्यकर्तृकयज्ञफलनिरूपित विलक्षण सम्बन्धो यदा स्त्रियां विवक्षितस्तदा पुंवाचकोऽपि तकारोत्तरे कारस्था
Aho! Shrutgyanam
१०१