________________
१००
फक्किकारश्नमञ्जूषायाम् -
तस्तदन्तान्डीबू नेत्यर्थस्यापि सम्भवादध्यर्द्धकार्षापणिकी, अध्यर्द्धसाहस्री वडवेत्त्राऽपि निषेधप्रसक्तेः । अत्र च 'विभाषा कार्षापणसहस्त्राभ्यामिति विकल्पेन लुग्विधानं लु. भावपक्षे चोक्तरूपम्, तत्र निषेधो दुर्बारस्तस्माल्लुग्ग्रहणं कर्त्तव्यम्, कृते च तस्मिन्न दोषस्तद्धितलुकि सत्येव निषेधविधानादिति दिक् ॥
ननु परिमाणशदस्य परितः सर्वतः परिणाहतश्च मीयते येन तत्परिमाणमित्यर्थस्तथा च षोडशहस्तप्रमाणदण्डवा चककाण्डशब्दस्याऽऽयाममात्रपरिच्छेदकत्वात्प्रमाणत्वेनाऽपरिमा त्वादनेनैव तदन्तादपि डीनिषेधसिद्धौ ' काण्डान्तात्क्षेत्रे' इति निषेधसूत्रं व्यर्थमिति चेन्न । तस्य काण्डान्ताद्विगोर्डी निषेधश्चेत्क्षेत्रे एवेति नियमार्थकत्वेन सार्थक्यात । एवञ्च द्वे काण्डे प्रमाणमस्याः सा द्विकाण्डा क्षेत्रभक्तिरित्यत्रैव निषेधो न तु द्विकाण्डी रज्जुरित्यत्रापि इह काण्डस्य क्षेत्रेऽविद्यमानत्वादित्याशयेन प्रत्युदाहरति-क्षेत्रे किम्, द्विकाण्डी रज्जुरिति । निषेधस्य पूर्वसूत्रेण सिद्धत्वादेतत्सूत्रारम्भफलमपीह डीवेवेति बोध्यमिति भावः ॥
agat पुरुषौ प्रमाणमस्या इत्यर्थं प्रमाणशब्दस्यापरिमाणत्वादपरिमाणाचितेत्यनेनैव सिद्ध' पुरुषात्प्रमाणे 'ति सूत्रे व्यर्थमिति चेन्न । पुरुषस्योदूर्ध्वाधर दिगवस्थितवस्तुमात्रपरिच्छेदकत्वेनोन्मानत्वादुन्मानान्तानां निषेधस्त विस्ताद्यन्तादेवे. ति नियमादुक्तसूत्रेण निषेधाऽप्राप्तौ 'द्विगोरिति प्राप्तनित्यङीपं बाधित्वा वैकल्पिकङी विधानार्थ मावश्यकत्वेन सार्थक्यात् । अन्न सूत्रे प्रमाणशब्दो नायासपरिच्छेदकवाचा किन्तु परिच्छेदकमात्रपरः प्रमाणशब्दस्य परिच्छेदकमात्रपरत्वादेव, पुरुषविशेषणत्वं तस्य संगच्छते । प्रमाणशब्दस्याऽऽयामपरिच्छेदकवाचित्वे तु पुरुषस्याऽऽयामपरिच्छेदकत्वाभा वात्तद्विशेषणत्वं तस्य सङ्गतं न स्यात् । जातिवचनस्याऽपि पुरुषशब्दस्य परिच्छेदकवाचित्वं 'पञ्चरत्नि: पुरुष:' इति शूल्वसूत्रादत्र प्रमाण इति विशेषणाल्लोकव्यवहाराच्चेति वोध्यम् ॥
ननु लाघवात् 'ऊधसोऽनङित्यस्य स्थाने ऊधसोन इत्थमेव सूत्रकरणस्य समुचितत्वे. ऽनविधानं व्यर्थमेवेति वेन्न । तस्य 'धनुषश्चेत्युत्तरार्थत्वेन सार्थक्यात् । अन्यथाऽच्परत्वाडभावाद्यणोऽनापच्या शार्ङ्गधन्वेति प्रयोगो नोपपद्येतेति केचित् । केचिच्च, अनविधानस्ये. हार्थमप्यावश्यकत्वमेव, अन्यथाऽस्याऽनो लाक्षणिकत्वेन ( लक्षणप्रतिपदोक्त ) परिभाषया तदग्रहणात् 'अल्लोपोऽनः' इत्यस्याप्राप्त्या कुण्डोधनीति प्रयोगो न सिध्येदित्याहुस्तन्न । एतत्सूत्रस्थभाष्यप्रामाण्यादुक्तपरिभाषाया अलोपोन इत्येवद्विषयेऽप्रवृत्तेः ॥
.
ननु 'उसोऽनङिति पृथक् योगं विहाय 'बहुव्रीहेरूधसो ङीष्' 'नश्चेत्येवाऽस्तु सूत्रम्, 'अनङश्चेति वा समासान्तेषु 'ऊधसोऽनङित्येव च पठ्यतामिति चेन्न । तथा सति समाraat वैकल्पिकत्वेन तद्भावपक्षे लब्धाऽवकाशस्योक्तसूत्रस्य कपा बाधाऽऽपत्तेः । धनुपोsafeति तथा न्यासे तु, अनङः समासान्तत्वेन शेषत्वाऽभावान्न कवापत्तिरिति भावः ॥
ननु ऊधसोऽनङ्’ 'बहुब्रीहेरूधसो ङीष्' इति सूत्रद्वये स्त्रियामित्याधिकाराभावे कुण्ड - मिबोधो, यस्य धेनूनां समूहस्येत्यर्थ के कुण्डोधो धैनुकमिति प्रयोगेऽनङ् ङीपोरापत्तिः । तदधिकारे तु स्वरूपार्थस्य तन्त्राऽगम्यमानत्वेन न तयोरापत्तिरित्यभिप्रायेण प्रत्युदाहरति - स्त्रियां किम् । कुण्डोधो धेनुकमिति । तत्र हेतुमाह तद्विधौ स्त्रियामि त्युपसंख्यानादिति । उक्तकार्य्यद्वयविधायकशाखये स्त्रियामित्यस्याऽधिकारात्स्त्रीत्व-रूपाऽर्थे गम्यमाने सत्येव तद्विधानादिति तदर्थः ।
Aho! Shrutgyanam