________________
स्त्रीप्रत्ययप्रकरणम् ।
व्यर्थमेवेति चेन्न । तस्य प्राचां ष्फतद्धित इत्यत्राऽपकर्षणेन बाधकविषयेऽपि प्राचामित्यस्य प्रवृत्तिसम्पादनेन सार्थक्यात् । उक्तसूत्रस्य बाधकविषयेऽपि प्रवृत्यभ्युपगमेन, आवव्यायनीत्यत्र 'आबट्याच्चेति चापं बाधित्वा प्राचाम्मते ष्फप्रत्यय एव । न च चापोऽपवादत्वात् तेन ष्फप्रत्ययबाधे कथमसाविति वाच्यम् । उदीचाम्मते ङीबबाधनेन चापश्चारितार्थ्यात् । प्राचां ष्फ इत्यत्र सर्वत्रग्रहणाच्चापो डीपूबाधकत्वमेव नत्वनन्तरष्फबाधकत्वम् । चापि कृते न ष्कप्राप्तिरत इत्यधिकारादित्यलम् ॥
९९.
टापू ङीषोरपवाद इति । 'कौरव्य - माण्डूकाभ्यां चे 'त्येतद्विहितः ष्फप्रत्ययस्तयोबधिक इत्यर्थः । 'जातेरखी 'ति सूत्रेण योपधभिन्नाज्जातिवाचकान्डी विधानात्कौरव्यशब्दस्य जातिवाचकत्वेऽपि योपधभिन्नत्वाऽभावादुक्तसूत्र विहितङीषोऽप्राप्त्या तस्माट्टाप् मेण्डूकशब्दस्य जातिवाचकत्वाद्योपधभिन्नत्वाच्च ङीषिति विवेकः । टाप्-डीपोरित्येव पाठो यद्यपि प्रायो दृश्यते तथापि ङीविति लेखकप्रमाद एव, अथवा पारिभाषिकस्य पुत्र-पौत्रभृतिगोत्रस्यैव जातित्वेन न डोषिति मतान्तरेण तादृश: पाठ उपपाद्य इति । कौरव्यसाहच मण्डूक शब्दोऽप्यपत्यप्रत्ययान्त एवात्र गृह्यते । तेन मण्डूकस्येयं भाय्यैत्यर्थं 'तस्येदमि' त्यणन्तस्य माण्डूकशब्दस्याऽग्रहणात् यद्यसौ कूपकाण्डूकीति भट्टिप्रयोगोपपत्तिरिति दिक् ॥
परिमाणान्तात्तु - द्वयाढकीति । ननु न तद्धितलुकीत्येव सिद्धे सूत्रेऽपरिमाणग्रहणंव्यर्थमिति चेन्न । अपरिमाणग्रहणाभावे आढकस्य परिमाणत्वेन तदन्तादपि ङीपूनिषेधाssपच्या द्वयादकीत्यस्याऽसिद्धयापत्तेः । न च परिमाणान्तान्ही निषेधाऽभावाय सूत्रेऽपरिमाणग्रहणकरणादेव द्विवस्तेत्यादेरपरिमाणान्तत्वात्ततोऽपि डीप निषेधसिद्धौ विस्तादिग्रहणं व्यर्थमेवेति वाच्यम् । अचितशब्दस्य परिमाणत्वेन ततो ङीपनिषेधाऽनाऽपच्या तस्मादपि निषेधायाऽऽचितशब्दग्रहणस्याऽऽवश्यकत्वात् । नचाऽपरिमाणाऽऽचिताभ्यान्न तद्धितलुकीत्येतावतैव सूत्रेण विस्त- कम्बल्ययोरुन्मानत्वादपरिमाणत्वेन तदन्ताभ्यामपि निषेधसिद्धौ सूत्रे तयोर्ग्रहणं स्पष्टमेव व्यर्थमिति वाच्यम् । उन्मानान्तान्डी निषेधश्चेत् तर्हि विस्त-कम्बल्यशब्दान्तादेवेति नियमार्थत्वेन सार्थक्यात् । एवञ्च सूत्रे विस्त- कम्बल्यशदान्त भिन्नत्वेन संकोचाद्विस्त- कम्बल्यशब्दान्तभिन्नादपरिमाणान्तादाचितशब्दान्ताच्च द्विगोने ङीबित्यर्थेऽपरिमाणाऽचिताभ्यान्न तद्धितलुकीति योगेन विस्त- कम्बल्यशब्दान्ताभ्यां डीनिषेधानाच्या तदर्थं तयोर्ग्रहणस्याऽऽवश्यकत्वेन स्वांशे चारिताथ्यं जातम् । फलञ्च नियमस्य द्विनिष्कीत्यत्र डीब्निषेधाऽभावः । अन्न सून्ने |
परिमाणशब्देन
'उदूर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः ।
आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ॥
इति पारिभाषिकस्य ग्रहणात् द्विवर्षे भूता - द्वाभ्यां शताभ्यां क्रीतेत्यर्थे द्विवर्षा, द्विशतेत्यादौ तिर्य्यङ्माने द्विहस्ता भित्तिरित्यादौ च निषेधसिद्धिरिति । 'अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धिते' इत्येवास्तु सूत्रे मास्तु च तत्र लुग्ग्रहणं द्विगोरित्य - स्यानुत्तिः तद्धितपदस्य तद्धितार्थं परत्वम् तथा च तद्धितार्थे विद्यमानो यो परिमा णान्तो द्विगुस्ततो ङीब नेत्यर्थे समाहारे पञ्चाश्वीत्यादिद्विगौ न निषेधः पञ्चाश्वेत्यपरिमाणान्तद्विगोस्तद्धिताथऽविद्यमानत्वादिति केचित्तन्न । अपरिमाणाद्यन्तादुद्विगोर्यस्तद्धि
,
Aho! Shrutgyanam