________________
फक्किकारत्नमञ्जूषायाम्त्यर्थः । अपत्यार्थभिन्नादपत्यार्थेऽप्यपत्याधिकारस्थभिन्नाच्च न डीबिति पर्यवसितोऽर्थः । तथा च द्वीपे भवा द्वैप्येत्यत्र न डीप । तत्र 'द्वीपादनसमुद्राद्या' इति विहितयको भवार्थ. कत्वेनाऽपत्यार्थभिन्नत्वात् । एवं देवस्या प्रत्यं दैव्येत्यत्राऽपि न डीप, अत्र 'देवाद्यनावि. ति विहितस्य यजः प्राग्दीव्यतीयत्वेनाऽपत्याऽधिकारबहिभूतत्वात् । 'तेन दीव्यती'त्यतः प्राग्येऽपत्यादयोऽस्तित्रैवास्य यजो विधानं नत्वपत्याधिकार इति भावः नचोक्तस्याऽप. त्यग्रहणं कर्त्तव्यमिति वार्तिकस्य भाष्यकृता प्रत्याख्यातत्वात्कथमुक्तकल्पनेति वाच्यम् । उक्तयोगविभागाकार प्रश्लेषादिकरणात याश्चेत्यत्राऽपत्याधिकारस्थस्यैव यत्रो ग्रहणमिति भाष्यकारव्याख्यानाच्वोक्तार्थकल्पनाऽसम्भवादित्यलम् ॥
ननु षित्वविधानसामर्थ्यादेव प्रातिपदिकत्वाऽभावेऽपि डीसिद्धौ ‘प्राचां फतद्धित' इत्यत्र तद्धितग्रहणं व्यर्थमित्याशंक्य समाधत्ते-तद्धितान्तत्वात्प्रातिपदिकत्वमिति । अयम्भावः, अन सूत्रे तद्धितग्रहणे कृते सति फप्रत्ययस्य तद्धितसंज्ञाविधानेन तदन्तस्य प्रातिपदिकत्वात् "षिद्गौरादिभ्यः इतिडीविधायकशास्त्र प्रातिपदिकविशेषणे सति तद्धितग्रहणस्याऽऽवश्यकत्वम्भवति परमुक्तविशेषणस्यैव तत्र फलाऽभावाद्वैफल्यमिति वाच्यम् । (१)तस्य नपा क्षमा भृजेत्यादौ धातोः षित्वान्डोषव्यावृत्यर्थत्वेन साफल्यात् । एवञ्च प्रातिपदिकत्वाऽथं तद्धितग्रहणमावश्यकमेव परमेतदयुक्तम् , त्रपा क्षमेत्यादौ धातोः पित्वस्याङ्प्रत्ययसम्पादनाच्चारितायेंन लामर्थ्यविरहात्तत्र डीपोऽप्राप्त्या तदर्थ डीविधायकशास्त्रे प्रातिपदिकविशेषणस्याऽनावश्यकत्वेन तद्धितग्रहणस्याऽप्यनावश्यकत्वात् । न च गाग्र्यशब्दात्ष्फप्रत्यये कृते यमोऽकारस्य 'यस्येति चेति लोपाऽर्थ तद्धितग्रहणमस्त्विति वाच्यम् । सवर्णदीघेणाऽपि रूपसिद्धेः । एवञ्च व्यर्थीभूतं तद्धितग्रहणं ज्ञापयति क्वचिदि जन्तादपि ष्फो भवतीति तेन ( आसरेरुपसंख्यानम् ) इति वचनं सिद्धम् । तद्धितग्रहण. ज्ञापितार्थफलितमेवैतद्वचनं नाऽपूर्वमिति दिक ।
ननुष्फप्रत्ययस्य स्त्रियामेव विधानादुक्तार्थानामिति न्यायेन पुनस्तदथें डीए न स्यादि. ति प्रादुर्भूतं पूर्वपक्षं निराकरोति-षित्वसामर्थ्याम्फेणोक्तेऽपोत्यादिना । अयम्भा. वः, पित्वविधानसामर्थ्यादुक्तन्यायबाधेन एफप्रत्ययस्य स्त्रियां विधाने न कश्चित्प्रतिबन्धक इति । वस्तुतस्तु पञ्चकं प्रातिपदिकाऽर्थ इति सिद्धान्तसम्मते पक्षे प्रत्ययानां द्योतकत्व. स्यैव युक्तत्वात् । तथा च द्योतकविषये नोक्तार्थानामप्रयोग इति न्यायप्रवृत्तिः । अत एव (द्विर्बद्ध मुबद्धमि)ति न्यायबलेन व्यतिलुनीते इत्यादौ द्योतकसमुच्चयस्य दर्शनम् । एत. द्विषये उक्तन्यायाऽप्रवृत्ताविदं षित्वमपि ज्ञापकमन्यथा स्पष्टमेवैतस्य वैयथ्यं स्यात् । अत एव, अक्षणा काण इति प्रयोगो 'येनाङ्गविकार इति सूत्रभाष्योक्तः सङ्गच्छते । अन्यथा काणशब्दस्याऽक्षिगतविकारवाचकत्वेन तदुपादानादेवार्थादक्ष्गो लाभे पुनरक्षिशब्दप्रयोगस्योक्तन्यायेनाऽप्राप्त्याऽक्ष्णा काण इति प्रयोग एव न स्यादित्यलम् ॥
सर्वत्र लोहितादीति । सर्वत्रेत्यस्य सर्वेषाम्मते इत्यर्थस्तेन नित्यत्वलाभस्तथा च लोहितादिभ्यो यजन्तेभ्यः कतशब्दान्तेभ्यश्च यमन्तेभ्यो नित्यं ष्फप्रत्ययः स्यात् । लौहित्यायनी, कात्यायनीति । लौहित्यशब्दात्कात्यशब्दाच ष्फप्रत्यये तस्याऽऽयनादेशे षित्वा. न्डीपि तत्सिद्धिः नन्वत्र प्राचामित्यस्य निवृत्त्यैव नित्यत्वसिद्धौ तदर्थ कृतं सर्वत्रग्रहण (१) *तस्येति । प्रातिपदिकविशेषणस्येत्यर्थः ।
Aho! Shrutgyanam