________________
स्त्रीप्रत्ययप्रकरणम् |
९७
ssar ङित्वात् 'याडाप:' इति याडागमस्य सिद्धिरित्याशयेनाऽऽह = बदयमाणेत्यत्र टित्वादुगित्वाच्च ङीप्राप्त इति । समाधत्ते - यासुटो ङित्वेनेति । अयम्भावः, यासुट् परस्मैपदेषूदात्तो ङिच्चेति सूत्रेण लिङ्गादेशतिबादीनां यामुडागमस्य ङित्वं विधीयते परमेतद्विफलं लिङ्गतङित्वस्य स्थानिवद्भावेन तत्स्थानिकादेशे सुलभत्वात् (१) (यदागम) परिभाषया या विशिष्टेऽप्यतिदेशात् । एवञ्चोक्तसूत्रविहितं विश्वं व्यर्थं सज्ज्ञापयति लाऽऽश्रयमनुबन्धका नादेशानामिति । लकारवृत्तीत्पदघटिताऽल्मात्रवृत्तिधर्म्माऽतिदेशेऽनल्वि धाविति निषेधः प्रवर्त्तत एवेति तदर्थः । तथा च प्रकृतेऽनल्विधाविति निषेधात्विगित्वयोरनतिदेशान्न तत्प्रयुक्तोक्ताऽऽपत्तिरिति । ननु 'सार्वधातुकमपिदिति सूत्रेऽपिदिति योगं विभज्य तत्र 'गाङ्कुटादिभ्यो णिन्डिदित्यतो डिग्रहणमनुवर्यो भयोरावृत्ति कृत्वाऽपि - दिति प्रसज्यप्रतिषेधञ्चाश्रित्य ङिच्च पिन्न भवतीत्युक्ताभाष्ये, अत एव ब्रूतादित्यत्र 'ध्रुव इट्' इतिी न भवति तथा व स्यात् स्तुयादित्यादावुक्तभान्यात्तदुभयोम्ससमावेशाऽसम्भवात्साक्षात्पित्वेनाऽऽतिदेशक ङित्ववाचे गुणनिषेधानुपपच्या गुणनिषेधाय ङित्ववि . धानस्य साफल्ये लाऽऽश्रयेतिवचनज्ञापनाऽसम्भवाद्वक्ष्यमाणेत्यत्र दोषस्तदवस्थ एवेत्यरु - चेराह - श्नः शानचः शित्वमिति । शानचि शित्वस्य 'सार्वधातुकमपिदिति ङित्वेन 'डिति चे 'ति निषेधेन पुषाण, मुषाणेत्यादौ गुणाऽभावः प्रयोजनम् तच्च तत्र शित्करणमन्तराऽपि श्नावृत्तिशिवस्य स्थानिवद्भावादानचि सुलभत्वादुक्तरीत्योपपन्नमेवेति व्यर्थं शाविशिखं ज्ञापयति क्वचिदनुबन्धकाय्र्येऽप्यनल्विधाविति निषेधः प्रवर्त्तत इति । तथा चैतेन ज्ञापितार्थेन न ल्यपीति ज्ञापिताऽर्थबाधेन न ङीबापत्तिः स च बाधो न सार्वत्रिक इति तत्र कचिदित्युक्तम् । न च शानचः शिवस्य भाष्ये प्रत्याख्यातत्वादुक्काऽर्थं तस्य ज्ञापकत्वाऽसम्भवेन कथमत्र ङीबभाव इति वाच्यम् । सत्यभिधाने बक्ष्यमाणेत्यस्याज्जादौ पाठेन तदुपपत्तेः । टापो ङीबादेर्बाधकत्वान्न ङीबिति भावः । 'न मुने' इति सूत्रे टायामादेश इति भाष्यप्रयोगादजादेस्त्वाकृतिगणत्वेन न कश्चिद्विवाद इति दिक ॥
ननु चुरा शीलमस्या इति विग्रहे 'शीलं छत्रादिभ्य' इतिणेऽणत्वाभावेने टिड्ढाणञि. त्यस्याऽप्राप्त्या ङीबभावेन चौरीति ङीबन्तप्रयोगो न स्यादित्याशङ्कय, समाधत्ते - ता. च्छीलिके ऽपीति । उक्तसूत्रेण णप्रत्यये कृतेऽणपरत्वाभावादेव 'अन' इति प्रकृतिभावस्याप्राप्त्या 'नस्तद्धिते' इति टिलोपेनैव का इति सिद्धावन इत्यस्य बाधनार्थं कृतं ताच्छील्येऽर्थे कार्म्म इति निपातनं व्यर्थ सज्ञापयति अणि सति यत्कार्य्यं तत्ताच्छीलिके णेsपि भवतीति नोक्तप्रयोगाऽसिद्धिरूपदोषाऽवकाश इति भावः । उक्तज्ञापने ताच्छीलिकेत्यस्य फलं 'तदस्यां प्रहरणमिति विहितणान्ते दाण्डेत्यादौ ङीबभावरूपम्, ण इत्यस्य फलं पुष्पाण्याहरति तच्छीला पुष्पाहरेत्यच्प्रत्ययान्ते ङीबभावरूपमिति बोध्यम् ।
ननु 'प्राचां ष्फ तद्धित' इत्यत्र यञ् एवाऽनुवृत्त्यर्थं टिड्ढाणञिति सूत्रात्पृथक् 'यत्रश्वेति योगविभागः कृतस्तत्र वार्त्तिककारेणाऽपत्यग्रहणं कर्त्तव्यमिति यद्यपि पठितं तथापि तदपत्याधिकारपरं तादृशश्च 'गर्गादिभ्यो यञिति विहित एव तदन्तादेव च ङीप् नाऽन्यमादित्याशयेनाह - श्रनपत्याधिकारस्थान ङीबिति । अपत्याधिकारस्थ भिन्नादि
( १ ) *यदागमेति । ( यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ) इति परिभाषा - स्वरूपम् । अत्र नेटि, णेरनिटीतिसूत्रेऽनिटीति च ज्ञापकम् ।
९ फ०र०
Aho! Shrutgyanam