________________
फक्विकारत्नमञ्जूषायाम्गतिकारकपूर्वस्यापि ग्रहणमि ) ति परिभाषया समुदायादेव डीबुत्पत्त्या तस्मादेव च ढकि न काऽप्यनुपपत्तिरिति वाच्यम् । उक्तपरिभाषायाः कृन्मात्रग्रहण एव प्रवृत्तः स्वीका. रादित्यलम् ॥
ननु टिड्ढाणनिति सूत्रेऽनुपसर्जनादित्यधिकारादनुपसर्जनं यहिदायन्तं तदन्तं प्रातिपदिकं ततो डीबित्यर्थ बहवः कुरुवरा यस्यामिति बहुब्रीहौ कुरुचरशब्दस्याऽन्यपदार्थे विशेषणत्वेनोपसर्जनत्वान्न तद्धटितवहुकुरुचरशब्दान्डीपः प्रसक्तिरित्याशयेनाऽऽह-उपसर्जन. स्वान्नेह, बहु कुरुचरेति । न च ( समासप्रत्ययविधौ प्रति षेधः ) इत्यनेन तदन्तविधिनिषेधाटिदुपं यत्प्रातिपदिकमित्यर्थस्यैव सम्भवेन नोक्तस्थलीयोक्तापत्तिः । नचोतार्थस्वीकारे कुरुचरशब्दस्याऽपि टिदपप्रातिपदिकत्वाऽभावान्डापोऽप्रसत्या कुरुचरीत्यपि न स्यादिति वाच्यम् । ( अवयवेऽचरितार्था अनुबन्धाः समुदायोपकारका भवन्ती) ति न्यायात्कुरुचरघटकचरेत्यत्राऽनुबन्धस्याऽचरितार्थत्वेन कुरुचरेति समुदाये टिस्वस्य बोध. नात् । नचोक्तन्यायेन बहुकुरुचरेति समुदायस्याऽऽपि टिद्रूपत्वादुक्ताऽऽपत्तेस्तादवस्थ्यमेवेति वाच्यम् । यं समुदायं यो न व्यभिचरति स तस्योपकारको भवतीति स्वीकारेणोक्तसमुदाये टिद्धपत्वस्य व्यमिचारात्तत्राऽऽपत्तेरसम्भवादिति वाच्यम् । अनुपसर्जनाऽधिकारेण स्त्रीप्रत्यये तदन्तविधिज्ञापनात्तत्र चोक्ततदन्तविधिनिषेधकवातिकाऽप्रवृत्तेश्च ज्ञाप. नात् । नचोक्ताधिकारेण तदन्तविधिज्ञापनेऽपि बहुकुरुचरेति समुदायेऽनुपसर्जनत्वस्यैव सत्त्वान्डीपो दुर्वारत्वेन कथमेतदनुपसर्जनाऽधिकारव्यावर्त्य मिति वाच्यम् । (१)तेनैव सामर्थ्यागृह्यमाणविशेषणत्वस्यापिऽगृह्यमाणस्य कुरुचरेत्यस्योपसर्जनत्वेन व्यावय॑त्वसम्भवात् । नचाऽनुपसर्जनादित्यस्य गृह्यमाणत्वात्तस्य च स्त्रियाविद्यमानत्वेन दोषाऽभावात्कथं व्याव_मिति वाच्यम् । अनुपसर्जनादित्येतत्सामर्थ्यात्वियामित्यस्य तदन्तवि. शेषणत्वज्ञापनादिति भावः ॥
ननु बधातालट तत्स्थाने शानचि स्यप्रत्यये वच्यादेशे मुगागमे चकारस्य कुत्वे सकारस्य षत्वे कार्यागे वक्ष्यमानशब्दाट्टापि गत्ये सति बक्ष्यमाणेति सिद्धम् । अथाऽत्र ल्टष्टित्वयोः स्थानिवद्भावेनाऽऽदेशभूते शानचि मुलभत्बाट्टापं बाधित्वा (२) डोषा भवितव्यम् । नचाऽनल्विधाविति निषेधात्स्थानिवद्भावाऽप्राप्त्या टित्वोगित्वयोरनतिदेशेन नोक्ताऽऽपत्तिलेशोऽपाति वाच्यम् । 'न ल्यपीति ज्ञापकात् ( अनुबन्धकार्ये) इत्पद. घटितालमात्रवृत्तिधर्मघटितधर्मावच्छिन्नोद्देश्यताके काय्येऽनल्विधाविति निषेधाऽप्रवृ. त्तिज्ञापनात् । (३)अन्यथा प्रधाय, प्रदायेत्यादावनल्विधाविति क्त्वावृत्तिकित्वस्याऽनतिदशात् 'धुमास्थागापे'तीत्वाऽप्रात्त्या तन्निषेधार्थ न ल्यपीत्यस्य स्पष्टमेव वैयथ्य स्यात् । (४)अत एव रमायामित्यादौ परत्वात् 'डेरामि' त्यामि कृते स्थानिवद्भावेना.
(१) *तदैवेति । अनुपसर्जनाऽधिकारेणैवेत्यर्थः । (२) *ङीषेति । टिड्ढाणनिति, उगितश्चेति सूत्राभ्यामित्यर्थः । (३) *अन्यथेति । अनुबन्धकाय्येऽष्पनल्विधाविति निषेधप्रवृत्तावित्यर्थः ।
(४) *अत एवेति । न ल्यपीति ज्ञापकेनाऽनुबन्धकायेऽनल्विधावितिनिषेधाऽप्रवृत्तेखेत्यर्थः ।
Aho ! Shrutgyanam