________________
स्त्रीप्रत्ययप्रकरणम् ।
श्यकत्वात्तदन्तविधिज्ञापकत्वं न सम्भवतीति वाच्यम् । तदन्तविधिज्ञापकतापरभाष्यप्रा. माण्यादाचारक्विबन्तप्रकृतिकर्तृक्विबन्तानामनभिधानेन ज्ञापकत्वस्य सुस्थत्वात् । न च पञ्च स्त्रीगोव्यक्तयो धनानि यस्य स पञ्चगवधन इत्यत्र पञ्चगवेत्यस्योपसर्जनत्वेन तत्र डीबनिवृत्त्यर्थन्तस्य चरितार्थत्वेन कथं ज्ञापकत्वमिति वाच्यम् । अर्थवत्सूत्रोक्तस्य ( एतसंज्ञाफलभूतविभक्तीतरसमभिव्यहाराऽनपेक्षया लोकेऽर्थविषयकबोधजनकत्व ) रूपाऽर्थव. वस्याऽभावेन टजन्तस्य प्रातिपदिकत्वाऽभावेन डीपोऽप्रसक्तः । प्राचीनमतेऽपि स्वपयाप्तत्व-स्वप्रयोज्यबोधजनकत्वप्रकारकवक्तृतात्पर्यायविशेष्यतापर्याप्त्यधिकरणत्वैतदुभयसम्बन्धेन शक्तिविशिष्टत्वरूपाऽर्थवत्त्वस्य पञ्चगवत्यत्राऽसत्वेन तदप्रसक्तेः । नचाऽऽपिशलिना प्रोक्तमधीते या सा आपिशला ब्राह्मणीत्यत्र डीव्यावृत्त्यर्थमुपसर्जनाधिकारस्य चारितार्थ्यमिति बाच्यम् । प्रोक्ताऽर्थकस्याऽणः स्त्रियामवर्तनेन तदप्राप्तेः । नचाऽध्येत्र. र्थकाऽनिमित्तको डीप तु दुर्वार एवेति वाच्यम् । तस्य लुप्तत्वेन तन्निमित्तकस्य डीपोऽप्र. सक्तेः । न च प्रत्यलक्षणेन तत्सत्ता मुलभैवेति वाच्यम् । अण्योऽकार इति व्याख्यानेन वर्णाऽऽश्रये प्रत्ययलक्षणाऽभावात् । नचाऽध्येत्रर्थगतस्त्रीत्वमादाय प्रोक्ताऽनिमित्तको डीप स्यादिति वाच्यम् । स्त्रियामित्यस्य गृह्यमाणविणेषणत्वेन प्रोक्ताऽणोऽध्येत्रर्थगतस्त्रीत्वेऽवि. द्यमानत्वेन तदप्राप्तेः । अत एव काशकृत्स्निप्रोक्तां मीमांसामधीते काशकृत्स्ना ब्राह्मणी. त्यत्रापि न डोप । न च प्रोक्तार्थगतस्त्रीत्वमादाय पुनर्जीप कुतो नेति वाच्यम् । लक्ष्ये लक्षणन्यायस्य जागरूकत्वात् । तस्मादनुपसर्जनाऽधिकारस्य बहुकुरु चरेत्येव व्यावय॑म् । तत्र तदन्तविधि विना प्राप्तिरेव नेति तदन्तविधिज्ञापनमावश्यकमेव सति तु तस्मिन् विशेष्यत्वादनुपसर्जनाऽधिकारसामर्थ्याच स्त्रियामिति प्रातिपदिकविशेषणमेव । स्त्रियामि त्यस्य प्रातिपदिकविशेषणत्वादेव धीवानमतिक्रान्ताऽतिधीवरीति सिद्धम् (१) एवञ्च आपिशला ब्राह्मणीत्यप्यस्यैव व्यावय॑म् । अनुपसर्जनादिति च सामर्थ्याद्गृह्यमाणविशेषणमेव, (२) अन्यथाऽधिकारसूत्रं व्यर्थमेव स्याद्भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायादतो गुणः कृतात्मसंस्कारः प्रधानमनुरुध्यते इति न्यायाद्गृह्यमाणविशेषणत्वमेव तस्येति भावः । तदन्तविधिफलन्तु कौम्भकारेयसिद्धिः । अन्यथा कुम्भकार्या अपत्य. मिति विग्रहे केवलकारीशब्दादपि स्त्रीप्रत्ययान्तत्वात् 'स्त्रीभ्यो ढगिति ढगाऽपत्त्या कुम्भ. कारेय इत्यापद्येत । नवैकार्थीभावरूपसामर्थ्यस्य समुदायवृत्तित्वेनैकदेशाऽवृत्तित्वात्तस्मा. त्तद्धितोत्पत्तिर्न स्यादिति वाच्यम् । 'तद्धितार्थोत्तरपदसमाहारे चे' त्यनेनोत्तरपदे समा. सविधानसामर्थ्यादपर्याप्त्याऽप्येकार्थीभावमादाय वृत्तेः स्वीकारात् । न च (३) (कृदग्रहणे
(१) *एवञ्चेति । अनुपसर्जनादिति सूत्रे कृते चेत्यर्थः । (२) *अन्यथेति । अनुपसर्जनादित्यस्यापि प्रातिपदिकविशेषणत्वे इत्यर्थः ।
(३) *कृद्ग्रहण इति । अत्र गतिरनन्तर इति सूत्रेऽनन्तरग्रहणं प्रमाणम् । तथा हि,अभ्युद्धतमित्यादावोः प्रकृतिस्वराऽभावाया नन्तरग्नहर्ण तिष्ठति, परं प्रत्ययग्रहणपरिभाषयोद्धतस्य क्तान्तत्वाभावादेवाभः प्रकृतिस्वराप्राप्तौ तदथं कृतमनन्तरग्रहणं व्यर्थं सत्परिभाषां ज्ञापयति, ज्ञाप्रितायान्त्वस्यामनयोद्धृतस्य क्तान्तत्वात्तस्मिन्नभेः प्राप्तस्य प्रकृतिस्वरस्य वारणार्थमनन्तरग्रहणं स्वांशे चरितार्थमिति भावः ।
Aho ! Shrutgyanam