________________
फक्किकारत्नमञ्जूषायाम्-
इदित्यर्थस्य भस्त्राद्यन्तानामेषामात इदित्येतत्फलितत्वेन च (१) (पदाङ्गाऽधिकारे तस्य च तदन्तस्य चे ) ति तदन्तविधिनैव लाभान्न पूर्बाणामिति व्यर्थमित्याशयेनाह - तदन्तविधिनैव सिद्धौ पूर्वाणामपीति स्पष्टार्थमिति ।
ननु सूत्रे भस्त्राशब्दस्येत्वार्थं ग्रहणन्तच्चानुपसर्जनादुक्तशब्दादुत्तरसूत्रेणैव सिद्धमितीह व्यर्थन्तद्ग्रहणमित्यत आह - भस्त्राग्रहणमुपसर्जनार्थमिति । एवञ्चानुपसर्जने आदाचार्याणामित्यात्वम्भवत्येव । नचानेनोक्तसूत्रस्य बाधे कथन्तेनाऽऽत्वमिति वाच्यम् । उपसर्जनेऽस्य चारिताथ्येंन बाधे मानाभावात् । श्रन्यस्येति । अनुपसर्जनस्येत्यर्थः । उत्तरसूत्रेणेति । 'अभाषितपुंस्काच्चे 'त्यनेनेत्यर्थः ॥
ननु न एतदृष्ठ इत्यवस्थायामकचि कृते वा ततः पूर्वमेव नभूतत्पुरुषसमासे कृते ततोऽकचि ( अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते ) इति न्यायेनान्तरङ्गात्यदाद्यत्वात्प्राक् विभक्त्योर्लुकि पुनर्विशिष्टत्वपि त्यदाद्यत्वे पररूपत्वे च कृते टापि, अनेषकेति सिदूध्यति । अत्र टापः सृपः परत्वादरूप इति प्रतिषेधान्नेत्वमित्यत आह - एषा द्वा एतयोस्तु पूर्वयोर्नेत्वमित्यादि ॥
ननु 'अभाषितपुंस्काच्चे' त्यस्य न भाषितः पुमान्येन शब्देन सोऽभाषितपुंस्कस्तस्माद्विहिताssस्थानिकस्याप्त इत्यर्थस्तत्र विहितविशेषणस्य फलमाह - - बहुव्रीहेर्भाषितपुंस्कत्वात्ततो बिहितस्य नित्यमिति । अयम्भावः, अविद्यमाना खट्वा यस्या इति विग्रहे 'शेषाद्विभाषेति समासान्तकपो वैकल्पिकत्वेन तदभावपक्षे 'गोस्त्रियोरुपसर्जनस्येत्युपसर्जनह्रस्वेऽखट्वशब्दाद्वापि सुपि अज्ञातादौ के सब्लुकि 'केणः' इति स्वे पुनष्टापि अभाषितपुंस्काद्विहिताऽऽकारस्थानिकाऽकारस्याऽभावादेव तद्विकल्पाप्राप्तौ प्रत्ययस्थेति नित्यमेवेत्वम् । परविशेषणत्वाऽभ्युपगमे तु आत्स्थानिकाsकारस्याऽभाषितपुंस्कखट्वशब्दात्परत्वेन वैकल्पिकेत्वाऽऽपत्तिरूपदोषः स्यादेवेति ॥
शषिके कपि तु विकल्प एवेति । अयम्भावः, न खट्वा स्विति स्थितौ कपि ब्लुकि प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात्समाससंज्ञायां 'समासान्ता' इति शास्त्रबलेन कबन्तस्यैव समासत्वादुपर्जनस्त्रीप्रत्ययान्तसमासरूपप्रातिपदिकाभावात् 'गोस्त्रियोरिति स्वत्वाभावेन 'ण' इति प्राप्तहस्वत्वस्य 'न कपी'ति निषेधेन ' आपोऽन्यतरस्यामिति ह्रस्वे कपः प्राग्वर्त्तिखट्वशब्दात्परस्याऽऽपोऽभाषितपुंस्काद्विहितत्वेन तत्स्थानिकाऽकारस्य वैकल्पिकेत्वेऽखविका, अखट्वकेति, हस्वाऽभावे तु अखट्वाकेति त्रिविधं रूपं निर्बाधमेवेत्यलम् ॥
श्रयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीति । नन्वयमेवेत्यनुपपन्नं शूद्रा चा महत्पूर्वा जातिरित्येतदूघटकाऽमहत्पूर्वग्रहणस्याऽपीह तदन्तविधिज्ञापकत्वादिति चेन्न । एवशब्दस्याऽप्यर्थकत्वेनाऽदोषात् । शंखः पाण्डुरेवेत्यस्य यथा शंखः पाण्डुरपीत्यर्थस्तथाऽयमेवेत्यस्याऽयमपीत्यर्थो बोध्यः । नचाऽनङ्बानिवाऽऽचरति अनडुहति ततः कर्तृक्वि - वन्तादनडुह् शब्दात् 'षिद्गौरादिभ्यश्चेति ङीषोवारणायाऽनुपसर्जनाऽऽधिकारस्याऽऽव
९४
( १ ) *पदाङ्गेति । पदाधिकार्यङ्गाधिकारि च कार्यं सूत्रोपात्तसजातीयस्य सूत्रोपात्तसजातीयान्तस्य च भवतीत्यर्थः ।
Aho! Shrutgyanam