________________
स्त्रीप्रत्ययप्रकरणम् । पत्तिवारणाय तदावश्यकत्वे कटुकेति प्रत्युदाहरणोपन्यासो न युक्त इति वाच्यम् । इहा. ऽदिति तपरकरणादग्रहणाच तस्मादिति परिभाषाबाधेऽपि न सर्वथा वाधः, परांशबाधेनैवो. पपत्तावव्यवहितांशबाधे मानाभावस्तथाच प्रत्ययस्थककाराऽव्यवहितस्याऽत इत्वमित्यर्थे पूर्व-परयोः प्राप्तौ पूर्वस्यैवेत्यर्थस्याऽनुनासिक इत्यादिनिर्देशेनोपपत्तौ सर्विकेत्यादावदोषात् एवञ्च युक्त एव कटुकेति प्रत्युदाहरणोपन्यास इत्याशयेनाह-पूर्वस्य किम् । परस्य माभूत्कटकेति । केचित्तु 'प्रत्ययस्ये की ति न्यासमङ्गीकृत्य पूर्वस्येति खण्डयन्ति, तेषा. मयमाशयः, तथा न्यासे सप्तमीनिदेशात्तस्मिन्नितीति परिभाषोपस्थितौ प्रत्ययस्थककारादव्यवहितपूर्वस्याऽत इदित्य) परस्याऽकारस्येत्वाऽप्राप्तौ कटुकेत्यत्र दोषाभावादलन्त. द्ग्रहणेनेति ॥
प्रातः किम । सांकाश्यिकेति । ननु स्त्रीबोधका कारस्येत्वमिति 'उदीचामिति सूत्रस्यार्थेऽकारस्य स्त्रीप्रत्ययावयवत्वेऽप्यस्त्रीबोधकत्वेन न तत्रेत्वापत्तिरिति चेन्न । सङ्काशेन निर्वृत्तं नगरं सांकाश्बम् 'संकाशादिभ्यो ण्यः' इत्यनेन ण्यप्रत्यये तत्र भवेति विग्रहे 'धन्वयोपधादिति बुजि तस्याऽकादेशे सांकाश्यिकेत्यत्र स्त्रीप्रत्ययाऽवयवाऽकारस्येत्वमिति सूत्रस्याऽर्थकरणे दोषस्य तादवस्थ्यात् । न च स्थाने ग्रहणस्य सद्भावादवयवषष्ट्यभावेन न दोष इति वाच्यम् । भाष्यकृता तस्य प्रत्याख्यातत्वात् । न च साक्षाद्विधेयाविशेषणे चरितार्थानां परिभाषाणां विधेयविशेषणविशेषणे न प्रवृत्तिरित्यर्थक (१) (विधौ परिभाषोपतिष्ठते नाऽनुवादे) इत्येतत्परिभाषाज्ञापनार्थ स्थानेग्रहणस्याऽऽवश्यकत्वेन कथं भाष्यकृता तत्प्रत्याख्यातभिति वाच्यम् । एतत्परिभाषाया अपि भाष्येऽदर्शनात् । एतस्या असत्त्वादेव 'उरण रपरः' इत्यत्र 'उदात्तयणो हल्पूर्वादि' त्यत्र च स्थानार्थलाभः (२) अन्यथा तया 'षष्टी स्थाने योगा' इत्यस्या अप्रवृत्तिबोधनात्तत्र स्थानार्थलाभो न स्यात् । न च (३) (प्रतिपदोक्त) परिभाषया स्त्रियां विहितस्य स्त्रीप्रत्ययस्यैव ग्रहणात् (४) भवार्थविहितस्य स्त्रीप्रत्ययस्य स्त्रियामविहितत्वेनाऽग्रहणान्न दोष इति वाच्यम् । सूत्रे विशेष्यरूपेण स्त्रीप्रत्ययस्यानुधारणादुक्तपरिभाषाया अप्रवृत्तेः । प्रतिपदोक्तत्वञ्च यस्मिन्पदे परिभाषा प्रवर्तनीया तत्पदवृत्त्यानुपुर्व्यवच्छिन्नसाक्षाद्विधेयतोद्देश्यताऽन्यतरविषयताप्रयोजकतदघटितशास्त्रत्वमित्यलम् ॥
ननु सूत्रे नम्पूर्वाणामित्यस्य सत्त्वे नपूर्वाणां भस्त्रै-षाऽ-जा-ज्ञा-द्वा-स्वेत्येतेषामात
(१) *विधाविति* । परिभाषाणामवश्यप्राप्तपरम्पराधिकपरम्परया विधेयोपकारकत्वं न भवतीत्यर्थः । परिभाषायाः प्रधानीभूतविधेयोपकारके सम्पादनीये यावती परम्पराऽव. श्यप्राधा ततोऽधिकपरम्परा यत्र शास्त्रे विधेयोपकारके तत्र शास्त्रे परिभाषा न प्रवर्तते इति यावत् ।
(२) *अन्यथेति । एतत्परिभाषासदावे इत्यर्थः ।
(३ ) *प्रतिपदोक्तेति । ( लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति) परि. भाषास्वरूपम् ।
(४ , *भवार्थति । तत्र भवेति विग्रहे जातो वुण् प्रत्ययः स्त्रियमाहेति तस्य स्त्रीप्रत्ययत्वं परन्नासौ स्त्रयधिकारे विहित इति भावः ।
Aho ! Shrutgyanam