________________
फक्किकारत्नमञ्जूषायाम्-
१२
त्यादौ देवदत्तादेः सन्नन्तत्वप्रयुक्तकार्य्याभाव एतत्फलम्बोध्यम् । न च ( ग्रहणवते ) ति निषेधात्कथमह तदन्तविधिरिति वाच्यम् । अनुपसर्जनाधिकाराऽमहत्पूर्वग्रहणाभ्यामिह प्रकरणे तदन्तविधेर्ज्ञापनात । वन इत्यस्य प्रातिपदिकत्वाभावेन निषेधायोगाचचेत्यलम् ॥
ननु ( अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा ) इति न्यायेन 'न षट् स्वस्त्रादिभ्यः' इत्यनेनाऽव्यवहितङीप एव निषेधः स्यान्नतु डीप-टापोरिति चेन्न । स्त्रियां यत्प्राप्तं तन्नेति व्याख्यानेनोभयोनिषेधादित्याशयेनाह - पञ्च चतस्त्र इत्यादि । अयम्भावः, पञ्चेत्यत्र नलोपे तस्य षट्संज्ञां प्रत्यसिद्धत्वान्नान्तत्वेन षट्संज्ञायां 'न षट् - स्वादिभ्य इति निषेधे न टाबिति, इदमसिद्धत्वोपवर्णनं कार्य्यं कालपक्ष एव न तु यथोदुद्देशपते अत्र च पक्षे पञ्चन्निति नान्तं जायमानषट्त्वस्यैकदेशविकृतन्यायेनाऽदन्तेऽपि सुलभत्वात् । नचो. क्तन्यायस्य स्थानिवत्सूत्रे उपसंख्यानादल्विधौ प्रवृत्तिर्न स्यादिति वाच्यम् । पटुत्वस्या. ऽल्धर्म्मत्वाऽभावात्तदाश्रयविधीनामपि तत्त्वाभावेन निषेधाऽप्रादत्या न्यायप्रवृत्तौ बाधकाऽभावात् । नचाऽन्तरङ्गपरिभाषयैवाऽन्तरंगे टापि कर्त्तव्ये बहिरङ्गनलोपस्यासिद्धत्वेन नान्तत्वात्षट्त्वेन निषेधोपपत्तौ मूलोक्तप्रयासस्य वैफल्यमिति वाच्यम् । परिभाषायां संज्ञाकृतबहिरङ्गत्वाऽनाश्रयणेन तदप्रवृत्त्या मूलोक्तप्रयासस्य साफल्यात् । न च 'न लोपः सुस्वरेति सूत्रे संज्ञापदेन विसंज्ञाग्रहणात्तां प्रति नलोपाऽसिद्धत्वेन 'द्वन्द्वे घी'त्यस्याप्रा
विनिगमनाविरहात्पर्यायेणोभयोः पूर्वप्रयोगे दत्तदण्डिनौ दण्डिदत्ताविति भाष्योदाहरणोपपत्तिः, न च 'द्वन्द्वे घी'ति पूर्वपदत्वे नलोपे च सति घित्वं घित्वे च पूर्वप्रयोग इति परस्परापेक्षारूपान्योन्याश्रयदोषापत्तिरिति वाच्यम् । यस्य पूर्वपदत्वे घित्वं भावि तत्पूर्व प्रयोज्यमिति तत्सूत्रार्थकरणादन्योऽन्याश्रयापत्तेरभावात् । तथा च तत्र विसंज्ञाया एव ग्रहणे षट्संज्ञां प्रति नलोपासिद्धत्वाऽनापत्तौ षट्त्वाभावान्निषेधाऽप्राप्त्योक्तदोषस्तदवस्थ एवेति बाच्यम् । निषेधशास्त्रस्य स्त्रियां यत्प्राप्नोति तन्नेति भाष्यसिद्धान्तभूतार्थाश्रयणबलेन भूतपूर्वषट्त्वमादाय निषेधेनाऽदोषादिति दिक् ॥
ननु 'प्रत्ययस्थात्कादिति सूत्रे पूर्वस्येत्यस्याभावे पञ्चमी - सप्तमीभ्यां निर्देशात् 'तस्मादित्युत्तरस्य' तस्मिन्निति निर्दिष्टे पूर्वस्ये' 'त्यनयोः प्राप्तौ (१) (उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ) अनया ' तस्मादिति परिभाषोपस्थित्या प्रत्ययस्थककारादिव्यवहितपरस्याऽकारस्येत्वमित्यर्थे कटुकेत्यत्र कटुक आ इति स्थितावन्तरङ्गत्वात्प्राप्तमपि सव
दीर्घ (२) (वार्णादाङ्गं बलीयः) इत्यनया परिभाषया ( ३ ) ( येना नाप्राप्ति ) न्यायेन अपवादत्वाच्च बाधित्वेत्वापत्तिरतस्तदावश्यकम् । न च सर्विका कारिकेत्यादावेव परस्येत्वा
( १ ) *उभय निर्देश इति । पञ्चमीनिर्देशस्याऽनवकाशत्वमस्याः प्रवृत्तौ वीजम् । उभयनिर्देशस्य चारितायेंऽपि पञ्चमीनिर्देशस्य परत्वञ्चैतत्प्रवृत्तौ बीजम् ।
( २ ) *वाणांदाङ्गमिति । वर्णत्वाऽवच्छिन्नोद्देश्यककार्यापेक्षयाऽङ्गोद्देश्यककार्यस्य वलवत्वमित्यर्थः ।
( ३ ) *येन नाप्राशीति । (येन नाप्राप्ते यो विधिरारभ्यते स तस्य वाधको भवती ) ति तत्स्वरूपम् ।
Aho! Shrutgyanam