________________
स्त्रीप्रत्ययप्रकरणम् ।
स्त्रीत्वे द्योत्ये जातिवाचकाच्छूद्रशब्दाडापप्रत्ययः स्यादिति फलिताऽर्थः, तथा च पञ्चानां शूदाणां समाहारः पञ्चशद्री, अत्र समाहारनिष्ठस्त्रीत्वस्य शूदशब्दार्थसमवेतत्वाभावान्न टाप , शूद्रस्य स्त्री शूद्रीत्यत्र तु जातिवाचकत्वाभावान्न टाप जातिमात्रप्रवृत्तिनिमित्तक. स्यैव जातिवाचकत्वात्, इह तु शदशब्दसम्बन्धित्वं प्रवृत्तिनिमित्तं न तु शद्रत्वम् न चेह शूद्रशब्दस्य सम्बन्धिनि लक्षणया बोधकस्य लाक्षणिकत्वरूपगौणतया (१)(गौण. मुख्य) न्यायेन टापो वारणमिति वाच्यम् । पदकार्य एवोक्तन्यायप्रवृत्तेः । विभक्तिनिमित्तकत्वे सति स्त्रीत्वाऽनिमित्तकत्वं हि पदकार्यत्वम् , टापः स्त्रीत्वनिमित्तकत्वेन तत्त्वायोगात् ॥
अमहत्पूर्वा जातिरिति द्वितीययोगस्य महत्पूर्वकश्शूद्रशब्दष्टापं न लभते जातिश्चे. द्वाच्येत्यर्थः । महाशुद्रीति । आभीरजातिवाचकान्महाशूद्रशब्दादुक्तयोगेन टापो निषेधाजातिलक्षणे डीषि सिद्धयतीति फलम् । ननु आभीरजातिवाचकमहाशघटकर दशब्दो नाभीरजातिवाचको नापि तदर्थगतं स्त्रीत्वमिति शूद्रशब्दान्महाशूदशब्दाच्च प्रापकाभावाहापोऽप्रसक्त्या विफल एव निषेध इति चेन्न । स्त्रीप्रत्यये तदन्तविधिर्भवतीत्यर्थज्ञापनेन शूदशब्दान्ताहाबित्यर्थे महाशूद्रशब्दात्प्राप्तस्य टापो निषेधेन साफल्यात् । नन्वेवमपि(२) (अर्थवद्ग्रहण) परिभाषयाऽर्थवच्छदशब्दान्तादेव टाप स्यात् इह तु महाशूद्रशब्दोऽर्थवा. चतु तदवयवः शूदशब्द इति पुनस्तदवस्थमेव टापोऽप्रसक्त्या निषेधवैयर्थ्यमिति चेन्न । शद्रत्वाऽऽरोपेण महाशूद्रशब्दस्याऽऽभीरे प्रयोगाच्छूदशब्दस्याऽर्थवत्वाऽनपायात् । प्रतिपा. दितञ्चैतच्छेखरे। न च महाशदशब्दस्य जातिवाचकत्वाऽव्यभिचारेणोत्तरयोगे जातिरिति व्यर्थम् । महती काक्रेत्यर्थे तु समासात्प्रागेबाऽन्तरङ्गत्वाद्यापि महाशद्रेत्येवेति वाच्यम् । मृगक्षीर-कुक्कुटाण्डमित्यत्रेव पूर्व स्त्रीत्वस्याऽविवक्षया टापोऽप्रसक्त्या शब्दशब्दस्य मह. च्छब्देन समासे निष्पन्नस्य महाशूदशब्दस्य जातिवाचकत्वाभावेन निषेधाऽप्राप्त्या महाशूद्रेत्येव भवति, जातिग्रहणाभावे टापो निषेधाजातिलक्षणडीषि उक्तरूपानुपपत्तेः । न च जातिवाचकत्वाऽभावे डोषोऽप्यसंभव इति वाच्यम् । शूद्रशब्दस्य जातिवाचकत्वेन तदन्तान्डीषो दुर्वास्त्वादिति भावः ॥
ननु 'वनो र च' इति सूत्रे बन इति निरनुबन्धकस्य ग्रहणेन ( तदनुबन्धकग्रहणे नाऽतदनुबन्धकग्रहणमि ) ति परिभाषाया अप्रवृत्तिरित्याशयेनाह-वन इति सामा. न्यग्रहणभिति।
ननु 'वनो रे चेत्यनेन वन्नन्तप्रातिपदिकान्डीबादिविधानेऽप्यतिधीवरीत्यादौ वन्नन्त. त्वाभावान्डीप् न स्यादित्यत आइ-प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति । एतसिद्धिप्रकारश्चेत्थम् , तथा हि यस्मात्प्रत्ययविधिस्तदादि प्रत्यये इति योगविभागः, गृह्यमाणे, उपतिष्ठते, इति च शेषः, तथा चाऽयमर्थः-प्रत्यये गृह्यमाणे यस्मात्प्रत्ययविधिस्तदादीत्युपतिष्ठते इति तदाद्यशसिद्धिः, तदन्तांशस्य सिद्धिस्तु वन्नन्तेति विशेषणं प्रातिपदिकमिति विशेष्यञ्चादाय येन विधिरित्यानेनैवेति, देवदत्तश्चिकीर्षती.
(१) *गौणमुख्येति । (गौण-मुख्ययोर्मुख्य कार्यसंप्रत्ययः ) इति तत्स्वरूपम् । (२) *अर्थवग्रहणेति । (अर्थवग्रहणे नानर्थकस्य ग्रहणमिति परिभाषास्वरूपम्
Aho ! Shrutgyanam