________________
फकिकारत्नमञ्जूषायाम्मानत्वादुत्तरमाह-अजाद्युक्तिींषो डीपश्च वाधनायेति । अजादेरुक्तिरजादावुक्ति. रिति चार्थः ( येन नाप्राप्ति ) न्यायेन बाध्यसामान्यचिन्ताश्रयणाद्यथाक्रमं जातिलक्षणवयोलक्षणप्राप्तयोर्डी-डीपोर्बाधः। तथा हि अजादिग्रहणाभावे अथवा तत्राऽकारान्तग्रहणाऽभावे च न क्रुञ्चादिहलन्तशब्देषु टाबनापत्तिः । क्रुञ्चानालभेत उष्णिह-ककुभौ देव. विशावित्यादिप्रयोगेण तेषामप्यकारान्तत्वादेव तदुपपत्तेः । एवञ्च तदभावे अजत्वजाति. विशिष्टा स्त्रीत्यर्थकेऽजेत्यत्र 'जातेरस्त्रीविषयादयोपधादिति डीषापत्तिः, प्रथमवयोविशिष्टा स्त्रीत्यर्थके बालेत्यत्र च 'वयसि प्रथम' इति डीवापत्तिश्च दुर्बारा । न च टावेव कुतो नेति वाच्यम् । टाबपेक्षया जातिलक्षणडीषो वयोलक्षणडोपश्च परत्वात् । अतस्तद्वयावृत्त्यर्थम. जादिग्रहणं कृते च तस्मिन् सामर्थ्यात्परस्याप्युक्तडीषो ङीपश्च बाधेन टापि न कश्चिद्दोषः । 'स्त्रियामित्यधिकारात् 'स्त्रीत्वे द्योत्ये टाविति सूत्रार्थः, तत्र स्त्रीत्वञ्च प्रत्यासत्याऽजादि. वाच्यमेव । वागादिशब्देषु प्रत्ययं विनापि स्त्रीत्वबोधनेन प्रत्ययवाच्यमित्यस्य वक्तुमशक्यत्वात् । 'हस्वो नपुंसके प्रातिपदिकस्य स्वमोर्नपुंसकादित्यादि सूत्रस्वरसाच । अत एव व्यावक्रोशीत्यत्र कर्मव्यतिहारे णच् त्रिपामिति णचि ‘णच स्त्रियामि' त्यनि च डीप सिद्धिः, न च ( प्रकृति-प्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम् ) इति व्युत्पत्तेः सथात् स्त्रीत्वस्य प्रधानत्वेन प्रकृतिवाच्यत्वं न स्यादिति वाच्यम् । उक्तव्युत्पत्तेर्यत्र प्रत्ययस्य वाचकत्वं तद्विषयकत्वेनेहाप्रवृत्तेरित्यलम् ॥ ___ ननु प्रत्ययविधौ पञ्चम्या युक्ततया पञ्चमीनिर्देशमङ्गीकृत्य तप्य प्रातिपदिकादित्यनेन सामानाधिकरण्येन तदन्तविधाबजाद्यन्तप्रातिपदिकेभ्यष्टावित्यर्थ एव युक्तस्तं विहाय षष्ठयन्ततया व्याख्यानेनाऽजादीनां स्त्रीत्वविशेषणतया मूलोक्तार्थोपगमो विफल एवेति चेदत आह-अजादिभिः स्त्रीत्वस्य विशेषणान्नेहति । पश्चाजीति । पञ्चानामजानां समाहार इत्यर्थे 'तद्धितार्थोत्तरपदसमाहारे चेति समासे विभक्तयोलुंकि 'संख्यापूर्वो द्विगुरिति द्विगुसंज्ञायाम् अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः ) इति स्त्रीत्वे 'द्विगोः' इति सूत्रेण डाषि पञ्चाजीति सिद्धयति, अजादीनां स्त्रीत्वाभावे अजादिभ्यष्टाप् स्त्रीत्वे द्योत्ये इत्यये पश्चाजशब्दान्डीपं बाधित्वा टाप स्यात् । न च पञ्चाजशब्दो नाऽजादिगणे पठितः, पटितश्चाऽजशब्दो नहि तदर्थगर्त स्त्रीत्वमस्ति येन ततष्टाप स्यादिति समुदायाद. वयवाच टापोऽप्रसक्तिरेवेति वाच्यम् । अमहत्पूर्वग्रहणेनाऽनुपसर्जनाधिकारेण च तदन्तविधिज्ञापनेनाऽजाद्यन्तेभ्यष्टावित्यथै टाप्प्रसक्तेर्दुरित्वात् । न चैवमपि स्त्रियामिति श्रुत. त्वादेवाजादिविशेषणं स्यात् ततश्चोक्ताऽऽपत्त्यसम्भवे षष्ट्यन्ततया ब्याख्यानमनुपयुक्तमेवे. ति वाच्यम् । अनुपसर्जनाधिकारेण तदन्तग्रहणस्येव स्त्रियामित्यस्य तदन्तविशेषणताया अपि ज्ञापनात् । अत एवाऽतिसत्वरीत्यादिसिद्धिः इह तु षष्ठयन्ततया व्याख्यानसाम
र्थ्यादेव गृह्यमाणविशेषणत्वम्, पञ्चाजशब्दवाच्यस्याऽजशब्दवाच्यत्वेऽप्यजादिमानवाच्या त्वस्य विवक्षितत्वान्नेह टाबिति भावः ॥
शूद्रा चाऽमहत्पूर्वा जातिरिति । अत्र शुद्धा चेत्येको योगः, अमहत्पूर्वा जाति. रित्यपरो योगः, तत्र पूर्वयोगे जातेरित्यनुकर्षात् शूद्रशब्दष्टापं लभते जातिश्चेद्वाच्येति वा. च्योऽर्थः, स्त्रीत्वं तु प्रत्यासत्त्या शूदशब्दार्थसमवेतमेव गृह्यते, तथा च, शूद्रशब्दार्थसमवेते
Aho! Shrutgyanam