________________
स्त्रीप्रत्ययप्रकरणम्।
८६
परिभाषयास्तद्वाधकत्वं न स्यादिति वाच्यम् । अनया सन्निपातविघातकशास्त्रस्येव सन्नि. पातविघातकशास्त्रप्रवृत्तिनिमित्तातिदेशसंज्ञानामपि निवृत्तेरभ्युपगन्तव्यत्वात् । साक्षात्परम्परया वा स्वसन्निपातविघातकस्य स्वयमनिमित्तामति परिभाषाऽर्थः । परम्परया सन्नि. पातविधाते परिभाषाऽप्रवृत्यभ्युपगमे तु उपादास्तेत्यत्र कित्वाऽऽपत्येत्वापत्तिः। एवि. षयसन्निपातनिमित्तकात्बीयैज्विषयत्वरूपसन्निपातविघातस्य 'डिति चेत्यस्य परिभाषया निवृत्तावपि कित्वस्य परिभाषयाऽनिवृत्तरिति भावः ।।
ननु उच्चैरतिक्रान्तावत्युच्चैसावित्यादौ उच्च्चैरित्यव्ययात्परस्य सुपो लुङ् माभूदिति हेतोविहितविशेषणमित्यत आह-अथ विहितविशेषणान्नेहेति । अङ्गसंज्ञाया विहित. त्वांशप्रवेशेन विहितप्रत्ययनिरूपिताङ्गविशेषणादित्यर्थः । आप -सुभ्यामाक्षिप्तस्याऽङ्गस्य प्रत्यासत्याऽव्ययरूपस्यैव ग्रहणमिति तदाशयः । तेन कुम्भकारेभ्य इत्यादौ सन्निपातपरि. भाषयाऽव्ययसंज्ञानिवृत्तिद्वारा लुग्निवृत्तिपरभाष्येण न विरोधः । ननु विहितविशेषणेऽप्येष दोषः, अव्यययसंज्ञाविधौ प्रयोजनं सर्वनामाऽव्ययसंज्ञायामिति भाष्यात्तदन्तविधिसत्त्वेना. ऽत्युच्चैम् इति समुदायस्याऽप्युक्तसंज्ञाया दुर्वास्त्वादिति चेन्न । अव्ययमिति महासंज्ञाकर. णसामर्थ्याल्लिङ्गसंख्याद्यन्वययोग्यस्यैव संज्ञाविधानेनेह समुदायस्य तदसत्त्वादित्यत आहयद्यप्यव्ययसंज्ञायां तदन्तविधिरस्ति तथापि न गौण इति । स्वरादीनामितर. विशेषणत्वरूपगौणत्वसत्त्वे तदन्नस्य लिङ्गसंख्याद्यन्वये बाधकामावादिति भावः । वस्तु तस्तु अत्र प्रधानाऽप्रधानन्यायेन सर्वनामसंज्ञासाहचर्येण च प्रसिद्धान्तरङ्गापदान्तराऽनपेक्षा दपसर्जनीभूतस्यैव लिङ्गसंख्याद्यन्वयिनोऽर्थस्य ग्रहणान्न समुदायस्य नाऽप्यवयबस्य संज्ञा, अत एव सर्वनाममंज्ञासूत्रस्थोपसर्जनप्रतिषेधाऽनुवृत्याऽत्युच्चैसावित्यादावव्ययत्ताऽभावं प्रतिपाद्योपसर्जनप्रतिषेधप्रत्याख्यानप्रकारेणेवेहाऽपि तत्प्रत्याख्यानमुक्तम्भाष्ये । एवञ्चा. ऽव्ययात्परत्वस्याऽप्यभावाद्विहितविशेषणमाक्षेपश्च व्यर्थ एवेति । नचोच्चैरौ, उच्चैरा. भ्यामित्यादाकव्ययसंज्ञावारणाय तदस्त्विति वाच्यम् । तादृशप्रयोगाऽनभिधाना. दिति दिक् ।।
ननु अव्ययानामलिङ्गत्वेन टापश्च स्त्रियां विधानादव्ययादविहितत्वेन व्यर्थमाइग्रहण. मित्याह-श्रावग्रहणं व्यर्थमलिङ्गत्वादिति ॥
ननु इदं सदृशं त्रिष्विति विरुद्धमत आह-लिङ्गेत्यादि । यथोपक्रमोपसंहाराभ्यां ब्रह्मप्रतिपादिकाया अप्यस्याः श्रुतेर्भाष्यप्रामाण्यादत्रोपसंहारस्तथा लिङ्गाद्यभावपरताऽपीति भावः । तत्र विभक्ति-वचनशब्दौ कारक-संख्याऽभावपरौ न तु प्रत्ययपरौ तथा सत्यन्य. तरबैयापत्तेः ॥
॥ इति फक्किकारत्नमञ्जूषायामव्ययप्रकरणम् ॥
अथ स्त्रीप्रत्ययप्रकरणम् ॥ ननु प्रत्ययविधौ तदन्तविधिनिषेधापबादभूतेन ( उगिद्वर्णग्रहणवर्जम् ) इत्यनेन तद. न्तलाभादकारान्तशब्दवाच्यस्त्रीत्वे द्योत्ये टाबित्यर्थेऽजादीनामप्यकारान्तत्वस्याऽव्यभिच. रितत्वादत इयतैव सिद्ध व्यर्थमजादिग्रहणं तत्राऽकारान्तशब्दग्रहणम्वेति पूर्वपक्षस्य जाय.
Aho ! Shrutgyanam