________________
फक्किकारस्नमञ्जूषायाम्गुणभूतप्रकृतिभेदकल्पनात्सर्वविभक्त्युत्पत्तौ लोपेनैव जातस्य निवृत्तिः तन्निवृत्तौ च कल्पितस्य गुणभूतप्रकृतिभेदस्वरूपस्य स्वत एव निवृत्तावेकवचनस्याऽप्यसम्भवात् । नियमो द्विविधोऽर्थनियमः प्रत्ययनियमश्च । तत्र प्रकृतार्थाऽपेक्षसामान्याऽपेक्षभेदेन प्रत्ययनियमो. ऽपि द्विविधः । तत्र (१)कर्माऽद्यर्थयोग्यप्रातिपदिकाच्चेद् विभक्तिस्तदा द्वितीयैव । कर्मा दिरहिते कादियोग्यप्रातिपदिकाऽर्थे प्रातिपदिकात्प्रथमैवेत्यादिरर्थनियमः । अस्मिन्पशे विभक्तीनाम् (२)अनियतत्वादव्ययेभ्यः सर्वासां सप्तानामपि विभक्तीनां लाभः । कर्मा. द्यर्थयोग्यप्रातिपदिकाच्चेद्वितीया तदा कर्मण्येव न तु करणादौ । कादियोग्ये कम्र्मादिरहितप्रातिपदिकार्थे एव प्रथमा न तु कर्मादौ । संख्यावदर्थयोग्यप्रातिपदिकादेकत्वा. ऽऽदावेवैकवचनादि न तु द्वित्वादावित्यादिः प्रकृतार्थापेक्षनियमः। अस्मिन्नपि पक्षे विभ. क्तीनामनियतत्वेनाऽव्ययेभ्यः सर्वविभक्तिलाभः । अथ प्रातिपदिकाच्चे द्वितीया तदा कर्म. ण्येव नान्यत्र प्रातिपदिकाच्चेत्प्रथमा तदा मात्रग्रहणात्पर्युदासन्यायेन कर्मादियोग्ये तद्रहितप्रातिपदिकार्थ एवेत्यादिः सामान्यापेक्षः प्रत्ययनियमस्तदा नाव्ययेभ्यो विभक्त्यु. त्पत्तिरिति चेन्न । विभक्तिविधावुद्देश्यतावच्छेदकाऽवच्छिन्नादेकवचनमित्यर्थ केन 'एकवच. नमित्येतावतैव सूत्रेणाऽभीष्टसिद्धावेकग्रहणेन सामर्थ्यादेकत्ववत्यपि भवत्येकवचनमिति ज्ञाप्यते । न चैवं द्वित्व-बहुत्वयोरप्ये कवचनाऽऽपतिरिति वाच्यम् । तत्र द्विवचन-बहुवच. नयोस्तद्वाधकत्वात् । एवञ्चालिङ्गा-संख्येभ्योऽव्ययेभ्यश्चैकवचनस्य सुलभत्वात् । द्विवचना. ऽऽदिविधायकयोढि-बहुग्रहणसामर्थ्यादेकत्वाऽभावेऽप्येकवचनप्रवृत्तिरिति भावः । द्वित्व बहुत्वयोर्द्विवचन बहुवचनयोर्विधानादर्थादेकवचनमित्येतद्वचनं विनाऽपि द्वित्वाद्यभावे कांदावेकवचनस्य सिद्धत्वेन सामर्थ्यादुक्तवचनस्याऽप्राप्तप्रापणार्थत्वेन कर्माद्यभावेऽपि प्रवृत्त्या विनिगमनाविरहात्सर्वविभक्तयेकवचनमव्ययेभ्य इति बोध्यम् । अत एव 'अव्ययादाप्नुप' इत्यत्र प्रत्याहारग्रहणं चरितार्थ तृतीया-सप्तम्योरिति च चरितार्थमित्यलम् ।।
कृद्यौ मान्त इति । मान्त इति न कृदन्तविशेषणं किन्त्वेजन्त एव, अन्यथा श्रुत्या मान्तत्वात्प्रत्ययलक्षणेन कृदन्तत्वाच्चानेन सूत्रेणैवाऽव्ययत्वे सिद्ध गणे प्रशामशब्दपाठस्य वैयाऽऽपत्तेः । अत एव, प्रतामौ लवमाचक्षाणौ लौरित्यत्र नाऽव्ययत्वाऽतिप्रसङ्गः। न च कृदन्तस्यैजन्तविशेषणत्वे आधये हेआधे इत्यत्र गुणे कुम्भकारेभ्य इत्यत्रैत्वे च कृते कृत एजन्तत्वादव्ययसंज्ञा दुर्वारा । नचाऽव्ययसंज्ञाया अन्तरङ्गत्वेन तदृष्ट्या बहिरङ्गगुणाss. देरसिद्धत्वान्नोक्ताऽऽपत्तिरिति वाच्यम् । संज्ञायाः कार्याऽर्थत्वेन संज्ञाकार्यस्य बहिरङ्गत्वेन संज्ञाया अपि बहिरङ्गत्वादुक्ताऽऽपत्तेस्तादवस्थ्यात् । न च लिङ्गसंख्याद्यनन्वयिन एवाs. व्ययसंज्ञाविधानादुक्तप्रयोगार्णा लिङ्गसंख्याद्यन्वयित्वेन नाऽव्ययसंज्ञापत्तिरिति वाच्यम् । अव्ययीभावादाविव लिङ्गसंख्याद्यन्वयित्वेऽप्यापत्ते रिति वाच्यम् । सन्निपातपरिभाषयाs व्ययसंज्ञाबाधात। न च लुक एव सन्निपातविघातकत्वादव्ययसंज्ञायास्तदविघातकत्वेन
(१) *कर्माद्यर्थयोग्येति । कर्मणि द्वितीयवेति नियमेन यत्र कर्मादिसम्भवस्तत्रैवाsन्यासां विभक्तीनां निवृत्तिसम्पादनात्प्रत्यासत्या कर्माद्यर्थयोग्यत्वस्य लाभः ॥
(२) *अनियतत्वादिति । अव्ययानां कर्माद्यर्थयोग्यत्वाऽभावेन तत्तदर्थविभक्त्यन्तरव्यवच्छेदेन नियततत्तद्विभक्तीनामनियमादित्यर्थः ।
Aho ! Shrutgyanam