________________
श्रव्ययप्रकरणम् ।
सप्त । जशि अद्वित्वेऽणोऽप्रगृह्यस्येत्यनुनासिकत्वे च द्वादश। सङ्कलनया सप्तत्रिंशत् । एवं द्वितीयायामपि बिभक्तौ सप्तत्रिंशत् । तथा च सङ्कलनया चतुः सप्ततिः । टाविभक्तो चतुर्णा मध्ये पूजाथांनां त्रयाणां अद्वित्वे सप्त । तेषां च सप्तानामनुनासिकविकल्पे चतु. दश । सङलनयाऽष्टाशीतिः । भ्यामि षटम रूपेषु भकारात्पूर्वस्य द्वित्वे कृते द्वादश । तेषा. मपि ( यणो मय ) इति यद्वित्वे चतुर्विंशतिः । तेषामपि मकारस्य द्वित्वेऽष्टचत्वारिंशत् । सङलनया पत्रिंशदधिकशतम् । भिसि चतुर्विशतिः । भकारात्पूर्वस्य विसर्गस्य द्वित्वे संक. लनया षष्ठ्युत्तरशतम् । के-ङसि ङस-ओस्-आम्-डि-ओस् एतेषु अकार-विसर्ग-मकाराणां द्वित्वे, अणोऽप्रगृह्यस्येत्यनुनासिके च यथा सम्भवमष्टादीनि रूपाणि । भ्यां भ्यसोः, अनचि च, यणो मयो द्वे वाच्ये इति द्वित्वे, अष्टचत्वारिंशत् । सपि पूर्वोक्तयथासंभवकायें षड. धिकनवति रूपाणीति स्वयमूहनीयमिति ।। ____ननु मुष्ठु आपो यस्मिन् सरसि इति विग्रहे स्वप्शब्दाजसि प्राप्तयोर्नुम्दीर्घयोर्मध्ये यद्यपि परत्वान्नित्यत्वाच्च नुम एव प्राप्तिस्तथापि प्रतिपदोक्तत्वान्नुमं वाधित्वा दीर्घस्यैव प्रवृत्तिरित्याशयेनाह-नित्यात्परादपि नुमः प्रागित्यादि । "प्रतिपदोक्तत्वं निरवका. शत्वे सत्येव बाधप्रयोजकमिति भाष्यान्निरवकाशरूपप्रतिपदोक्तत्वपक्षे दीर्घस्याऽतथात्वेन नुमेव न तु दीर्घ इति बोध्यम् ॥
पिपठिषीत्यत्र नुमभावोपपादनप्रकारो वेभिदीत्यत्र प्रदर्शित एवेत्यलमत्र तत्प्रदर्शनेनेति दिक् ।।
इति हलन्ता नपुंसकलिङ्गाः ।
अथाऽव्ययप्रकरणम् । यस्मात्सर्वा विभक्तिरिति । बचनत्रयात्मिका विभक्तिरिति तदर्थः । नोपपद्यत इति । किन्त्वेकवचनाऽऽत्मिकैव विभक्तिरुत्पद्यत इत्यर्थः । ननु स्वादिविधायकशास्त्रस्य 'द्वये कयोद्विवचनैकवचने' इत्यादिसंख्याबोधकै; 'प्रातिपदिकाऽर्थलिङ्गपरिमाणेत्यादिकारकबोधकैश्च सहकबाक्यतया सुपां विधानमिति पक्षेऽव्ययाऽर्थे संख्याकारकयोरभावाद्विभक्तयनुत्पत्त्यैकवचनोत्पत्तेरप्यसम्भवः । नचाव्ययाद्विभक्त्यनुत्पत्तौ 'अव्ययादाप् सुपः' इत्यस्यैव वैयर्थ्यमिति वाच्यम् । उक्तज्ञापकाऽऽश्रयणादव्ययाद्विभक्त्युत्पत्तिकल्पने तु सर्वासामपि विभक्त्युत्पत्तिसम्भवात् । किञ्च(१) विहितानां नियम इति पक्षेऽपि सर्वेषु प्रतिपदिकार्थकर्माद्यर्थेषु प्रथमादिविभक्तीनां विधीयत्वात् (२) प्रधानप्रत्ययानुरोधेन
(१) विहितानामिति । ननु 'स्वौजसि' त्यादिसामान्यसूत्रेण विहितार्ना सर्वासां विभक्तीनां कर्मणि द्वितीयेत्यादि सूत्रेण नियमः क्रियते इति पक्षे तद्धितश्वाऽसर्ववियतिरित्यस्योपपत्तिर्भविष्यतीत्यत आह-किञ्च विहितानां इति पक्षेऽपीति ॥
(२) *प्रधानेति । नन्वेकस्मात्प्रातिपदिकात्सर्वेषां प्रत्ययानां विधानमेवानुपपन्न प्रत्ययविधौ निर्दिष्टपरिभाषया प्रातिपदिकाऽव्यवधानेनैवत्पत्तिर्भवति अव्यवधानञ्चैकत्रैव सम्भवति न तु सर्वत्रेति चेन्न । प्रकृतिभेदकल्पनेन तत्तत्प्रकृतिपरत्वस्य तत्र तत्र प्रत्यये संभ. वादित्यत आह-*प्रधानप्रत्ययाऽनुरोधेनेत्यादि ।।
Aho ! Shrutgyanam