________________
फकिकारत्नमञ्जूषायाम्
काव्यम्॥
घस्मात्क्विन् दृष्टस्तस्य तस्य कुत्वं भवतीति फलिताऽर्थः, अतश्च स्रगित्यत्र सृजेः क्विनो. विधानादसृत्गिवत्र विप्प्रत्ययेऽपि कुत्व प्राप्तेः । नचैवं विश्वसडित्यत्राऽपि कुत्वाऽऽपत्तिरिति वाच्यम् । ‘सृजिशोझल्यमकिति' इतिसूत्रे रज्जुसृड्भ्यामिति भाष्यप्रबोगादव्ययपूर्वपदे कुत्वाऽभावबोधनादुक्त प्रयोगीयाऽऽपत्त्यसम्भवात् । उक्तभाष्यप्रयोगेणाऽव्ययपूर्वपदे कुत्वं च बोध्यते इत्यपि वोय्यम् । ननु षत्वविधायकसुत्रे सृज-मृज-यजेति विशिष्य ग्रहणात्षत्वस्य तुत्वाऽपवादत्वात्षत्वस्यैव प्राप्ति नतु कुत्वस्येत्यरुचेराह-यद्वा ब्रश्चेति सूत्र इति । अनेन पदाऽन्ते षत्वं विधीयते, षत्वं तु कृत्वाऽण्वादः, तेनाऽसृजः क्विष्प्रत्ययाऽन्तस्य षत्वमेवो. चितम् स्रगिति तु ऋत्विगित्यादिना निपातनाद्वोध्यः । अयमभिप्रायः, निपातनं नाम अन्यादृशे प्रयोगे प्राप्तेऽन्यादृशप्रयोगकरणम् । निपातनेनाऽपबादशास्त्राऽप्रवृत्तिमानं बोध्यते । कुत्वं तु सूत्रेणैवेति वोध्यम् । असृगिति तु अस्यतेरौणाऽऽदिकेन रिन्प्रत्ययेन बोध्यम् ॥
ननु वेभिद्यतेः क्विपि अल्ोपे यलोपे च कृते वेभिदिति रूपम्, तस्माजसि तस्य शौ तस्य सर्वनामस्थानत्वेन तस्मिञ्झलन्तलक्षणो नुम् दुर्बार इति चेन्न । अल्लोपस्य स्थानिवत्त्वेना. ऽझलन्तत्वादित्याशयेनाह-अल्लोपस्य स्थानिवत्वादझलन्तत्वान्न नुमिति । नचा. जन्तलक्षणो नुमेव कुतो नेति वाच्यम् । अजन्तरुक्षणे नुमि कर्तव्ये स्थानिवत्त्वाऽप्राप्तः । स्वविधौ स्थानिवद्भावो न भवतीति भाष्योक्तः । न च ( क्वौ लुप्तं न स्थानिवत् ) इति स्थानिवत्वनिषेधाज्झलन्तलक्षणनुमाऽऽपत्तिस्तदवस्थैवेति वाच्यम् । उक्तनिषेधवचनस्याऽसार्वत्रिकत्वेनेहाऽप्रवृत्तः क्वौ विधि प्रति न स्थानिवदित्येव सार्वत्रिकमिति भावः ॥
जायन्ते नव सौ, तथाऽमि च नव, ा भिसभ्यसां सङ्गमे षटसंख्यानि, तथैव सुप्यथ जसि, त्रीण्येय तद्वच्छसि । चत्वार्यान्यवचःस, कस्य बिबुधाः शब्दस्य रूपाणि तज्जानन्तु प्रतिभाऽस्ति चेन्निगदितुं पाण्मासिकोऽत्राऽवधिः । इति प्राचीनस्य ताकिकस्य प्रश्ने तदनुसारेणैव श्लोकद्वयेनोत्तरमाह--(१)गवाकः शब्दस्येति ।।
नन गवाकशब्दस्य सप्तमीबहुबचने सुपि 'खरि चेति चत्वेन ककारे तस्य ( चयो द्वि तीया ) इत्यनेन खकारे षड्पाणि स्युरिति चेन्न । चवस्याऽसिद्धत्वेनोक्तवातिकाऽप्रवृत्ते. रित्याशयेनाह-न चेह चयो द्वितीया इति पक्ष इत्यादि । कुपक्षे तु जश्त्वष्ठा कुकोऽसिद्धत्वाज श्त्वाऽप्राप्त्या द्वितीयाऽऽदेशे रूपत्रयवृद्धिर्भवत्येवेति भावः ।
अश्वातिभूतानीति । सप्तविंशत्यधिका पञ्चशतीत्यर्थः । तथा हि, सौ नवानामन्त्यस्य 'अनचि चेति द्वित्वे अष्टादश । औडि चतुर्णा मध्ये पूजार्थानां त्रयाणां अद्वित्वे
गवाक्शाब्दस्य रूपाणि क्लीवेऽर्चा-गतिभेदतः। असन्ध्यवर्वरूपैनगाधिकशतं मतम् ॥ स्वम्सुपसु नव षड् भादौ षट्के स्युस्त्रीणि जश्शशोः ।
चत्वारि शेषे दशके रूपाणीति विभावय ।। इति श्लोकद्वयम् ।
Aho ! Shrutgyanam