________________
अर्थापहारमनयादपमृत्युमुग्रं स्त्रीभिर्विरोधमपयानमथ स्वदेशात् ॥ २ ॥ चन्द्रःप्रपद्य रविपुत्रदशां करोति कुष्टामयं मरणपीतिमसह्यशोकम् । दैन्यं भुजङ्गभयमुग्रमनर्थजालं शास्त्रार्थविप्लबमनीतिपथावगाहम् ॥ ३ ॥ शुक्रो दिवाकरसुतस्य दशां प्रपन्न: सन्नीतिलाभमभयञ्च चतुष्पदाप्तिम् । दासौपटहणमनेकजनोपचार माचारहानिमपि तत्र करोति किञ्चित् ॥ ४ ॥ जीवः समेस समयं खररश्मिसूनो श्चिन्ताकुलञ्च हृदयं सदयामवस्थम् | स्वस्थानमात्रनिलयश्च लयञ्च किञ्चित संचिन्तितस्य च विशेषमसौ विधत्ते ॥ ५ ॥ मन्दस्य कालमुपगम्य शशाङ्कपुत्र: शास्त्रोदयश्च बहुधान्यविशेषलाभम् नियोत्सवञ्च विविधप्रमदोपयोग योगञ्च वन्यमनुजैः सहसा विधत्ते ॥६॥ क्ष्मामनुरर्कतनस्य दशासु धते मत्तप्रमत्तहृदयं दयिताभिशापम् । कोपं निरर्थकमनर्थकरीञ्च वाचं बुद्धिं विपत्तिममृगुद्भवरोगजातम् ॥ ७॥
इति शनिदशा ॥
-
१ दासोपवृंहण ॥ २ जनोप्रवार ।।
Aho ! Shrutgyanam