SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सिद्धिञ्च साधुसमयेषु महारतिश्च ॥ ३ ॥ अङ्गारकेन सहितो भृगुनन्दनोऽसौ माध्यस्थ्यमावहति चेतसि मुस्थितिञ्च । पीडालवञ्च निजबन्धुजनेषु रोष शान्तिश्च शान्तमनुजेन समागमञ्च ॥ ४ ॥ वक्रस्य कालमुपगम्य गुरुः करोति सम्पत्तिमिष्टमनुजेषु महोदयश्च । सामन्तभूपसचिवैः सह मित्रताञ्च दानादिधर्मनियताञ्च मतिं करोति ॥ ५ ॥ प्राप्तो दशां शशिसुतः खलु लोहितस्य व्यालेभवन्यमृगशङ्करजं भयश्च । विद्वद्विरोधमुदरामयपीड़नश्च वित्तक्षयश्च विदधाति चिराय पुंसः ॥ ६ ॥ भौमस्य कालमुपगम्य शनैश्चरोऽसौ योगं तपस्विमनुजैः कुरुते क्षणेन । द्यूतादिदेवनविधिश्च मुहुर्मुदश्च सौन्दर्यहानिमपि पादगतञ्च रोगम् ॥ ७ ॥ इति कुजदशा ॥ मन्दो निजं समयमेस करोति सद्य: पीड़ां द्विजन्मनृपमित्रसमुद्भवाञ्च । व्याधि सुतार्थविलयच्च पदावभङ्गं निःशंसयं प्रकृतिदासजनारिभीतिम् ॥ १॥ भानुः शनैश्चरदशां प्रतिपद्य धत्ते चोराद्भयं व्यसनमिष्टजनस्य शोकम् । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy