SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ( ८५ ) जीवो बुधेन सह सङ्गतिमेत्य सत्य - हानि विभूतिविपदञ्च तटच्युतिञ्च । भार्य्याविषादमनिशं निशि सुप्तिहानि नानाभयञ्च कुरुते कुरुते रतिञ्च ॥ ५ ॥ भौमो बुधस्य समये विदधाति पुंसः करैः समागममनैः सुलभोपचारम् । सञ्चारणञ्च बहुशोभयमायुदेभ्यो मौञ्च सौख्यविलयञ्च मुहुः करोति ॥ ६ ॥ पङ्गुर्बुधेन सहितः कुरुते नरस्य शस्त्राग्निभीतिमथदासजनोपघातम् । आर्त्ति क्षुधाञ्च वपुषः शतधामयञ्च सञ्चिन्तितार्थविलयञ्च महोदरञ्च ॥ ७ ॥ इति बुधदशा । L भौमः स्वकीयसमये ज्वरशस्त्रवह्नि दाहवणानि निपुणेन जनेन वैरम् । स्वस्थानभङ्गमरणव्यसनं विधत्ते पितञ्च रक्तमपि कोपयति प्रसह्य ॥ १ ॥ सूर्यः कुजेन सह सङ्गममाप्य कुर्य्या द्वाश्च पुत्रविभवञ्च महोदयञ्च । तेजः प्रतापमवनीशसमागमञ्च मन्दाग्निताञ्च मरुता जनितञ्च रोगम् ॥ २ ॥ सङ्गमेय शशभृद्धरणीसुतेन वालाङ्गनाजनसमागममर्थलाभम् । पुत्रोद्भवञ्च विभवं यशसः प्रवृद्धिं Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy